31121: युग्यं च पत्रे ===================== **Padacheda:** युग्यम् | S | 1 | 1 | च | S | 0 | 0 | पत्रे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word युग्यम् is irregularly formed meaning 'a vehicle'. Vasu English Translation ------------------------ The word युग्यम् is irregularly formed meaning 'a vehicle'. The word पत्र means that by which a thing is carried. Thus युग्यो गौ 'the carrier bull or the yoked bull'. युग्यो हस्ती 'the harnessed elephant ready to carry'. युज् + क्यप् = युग्यम्. The ज is changed into ग. When not meaning a carrier or a carriage, it has the form योग्यं. Kashika ------- युग्यमिति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेनेति पत्रम्, वाहनमुच्यते। युग्यो गौः। युग्योऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्र इति किम्? योग्यमन्यत्॥ Siddhanta Kaumudi ----------------- पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥ Balamanorama ------------ **युग्यं च पत्त्रे** - युग्यं च पत्रे । क्यबन्तं निपात्यते । ण्यतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे 'दाम्नीशसे' त्यादिना करणे ष्ट्रन् । ण्यति तु योग्यमिति स्यात् । Tattvabodhini ------------- **युग्यं च पत्त्रे** - पत्रं वाहनमिति । पतन्त्यनेनेत्यर्थेदाम्नीशसे॑त्यादना करणे ष्ट्रन् । युग्यो गौरिति । यद्यपितद्वहति रथयुगप्रासङ्ग॑मिति तद्धितयताऽपि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् । अन्यथा हि योग्यो गौरिति स्यात् । अन्ये त्वाहुः — युग्यो हस्तीति हि वृत्तावुदाहृतं,तत्तु तद्धितेन न सिध्यति । न हि हस्तीयुगं वहति । कृता तु सिध्यति । युज्यते संबध्ते ह्रसौ कुथादिनेति । ततश्चात्र वैयथ्र्यशङ्कैव नास्तीति दिक् । Padamanjari ----------- युग्यं च पत्त्रे॥ पतत्यनेनेति पत्रमिति।'दाम्नीशस' इत्यादिना करणे ष्ट्रन्।'तद्वहति रथयुगप्रसङ्गम्' इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः - क्यपि धातुस्वरः, यत्यपि'यतो' नावःऽ इत्याद्यौदातत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः,'ययतोश्चातदर्थे' 'कृत्योकेष्णुच्चार्वादयश्च' इत्युभयत्रान्तोदातविधानात्॥ Nyaas ----- `पतन्त्यनेनेति पत्त्रम्` इति। `दाम्नीशस` (3.2.182) इत्यादिना ष्ट्रन्। ` युग्यम्` इति। `युजिर्योगे` (धातुपाठः-1444)। योजनीर्ये - युज्यते वाहनेन {गमनमितीति मुद्रितः पाठः} गवादिकमिति युग्यम्॥ Prakriyasarvasvam ----------------- पत्रं वाहनम् । युज्योऽश्वः । Sutra Prayogas -------------- * **युग्याऽऽयात** (भट्टिकाव्यम्): `युग्यं च पत्रे` इति निपातितम्।