31113: मृजेर्विभाषा¶
Padacheda: मृजेः | S | 5 | 1 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्यप् is optionally used after the verb सृज् ‘to cleanse’.
Vasu English Translation¶
The affix क्यप् is optionally used after the verb सृज् ‘to cleanse’. This is an example of Prapta-vibhasha. By rule 110 ante, the root मृज् having a penultimate ऋ would have necessarily taken kyap; this sutra declares an option. As परिमृज्यः or परिमार्ग्यः ‘to be cleansed’. The second form is thus evolved:-
परिमृज्य + ण्यत् (3.1.124) = परिमृग् + य (7.3.52) = परिमार्ग्य (7.2.114)
Kashika¶
मृजेर्धातोर्विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः॥
Siddhanta Kaumudi¶
मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥
Laghu Siddhanta Kaumudi¶
मृजेः क्यब्वा। मृज्यः॥
Balamanorama¶
मृजेर्विभाषा - मृजेर्विभाषा । क्यप्पक्षे उदाहरति — मृज्य इति । कित्त्वान्न गुणः ।
Tattvabodhini¶
मृजेर्विभाषा - मृजेर्विभाषा । ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः ।
Padamanjari¶
मृजेर्विभाषा॥ परिमार्ग्य इति।’मृजेर्वृद्धिः’ पूर्ववत्कुत्वभ्॥
Nyaas¶
ऋदुपधत्वात् प्राप्तविभाषेयम्। ऋदुधाच्चाकॢपिचृतेः (3.1.110) इति क्यपो विधानात्। परिमार्ग्यः इति। पूर्ववत् कुत्वम्, गृजेर्वृद्धिः (7.2.114) ॥
Prakriyasarvasvam¶
मृजेः क्यब्वा स्यात् । मृज्यम् । ण्यति तु
Sutra Prayogas¶
मृज्यः (भट्टिकाव्यम्): सृजेर्विभाषा इति यद्विकल्पे ण्यत्।