31114: राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः

Padacheda: राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्यथ्याः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The words राजसूय , सूर्य , मृषोद्य , रुच्य , कुप्य , कृष्ट , पच्य and अव्यथ्य irregularly formed by the addition of the affix क्यप्।

Vasu English Translation

The words राजसूय , सूर्य , मृषोद्य , रुच्य , कुप्य , कृष्ट , पच्य and अव्यथ्य irregularly formed by the addition of the affix क्यप्। Thus राज्ञा सोतव्यः or राज्ञा इह सूयते, राज + सू + क्यप् = राजसूयः ‘the Rajasuya or coronation sacrifice’.

Similarly सृ or सू + क्यप् = सूर्यः ‘the sun’, literally that which moves (सरति) in the sky; or that which impels (सुवति) creation to action. मृष +वद +क्यप् = मृषोद्यम् ‘false speech’; this is an exception to rule 106, by which यत् would also have been applied This rule prevents it. Thus रोचतेऽसौ, रुच् + क्यप् = रुच्य. ‘an agreeable lover’. So also गुप् + क्यप् = कुप्यम् ‘a base metal (other than gold and silver)’; the other form is गोप्यम् । कृष्ट + पच् = कृष्टपच्याः ‘that which ripens of itself in cultivated ground’. न व्यथते = अव्यथ्यः ‘a snake (what does not move by legs)’.

Bhashya

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः (731) (450 क्यप्निपातनविधिसूत्रम्॥ 3 । 1 । 6 आ . 13) (1959 अर्थनिर्देशवार्तिकम्॥ 1॥) - सूर्यरुच्याव्यथ्याः कर्तरि- (भाष्यम्) सूर्यरुच्य आव्यथ्य इत्येते कर्तरि निपात्यन्ते। किं निपात्यते?। सूर्यः सूसर्तिभ्याम्, सरतेरुत्त्वम्, सुवतेर्वा रुडागमः॥ सरणाद्वा सुवति कर्मणीति वा सूर्यः॥ रुच्यः। रोचतेसौ रुच्यः। न व्यथत इत्यव्यथ्यः॥ (1960 वार्तिकम्॥ 2 ॥) (भाष्यम्) कुप्यं संज्ञायामिति वक्तव्यम्। गोप्यमन्यत्। (1961 वार्तिकम्॥ 3 ॥) - कृष्टपच्यस्यान्तोदात्तत्वं च कर्मकर्तरि च- (भाष्यम्) कृष्टपच्यस्यान्तोदात्तत्वं च वक्तव्यं संज्ञायां कर्मकर्तरि चेति वक्तव्यम्। कृष्टे पच्यन्ते स्वयमेव। कृष्टपच्याश्च मे। यो हि कृष्टे पक्तव्यः स कृष्टपाक्यो भवति॥ राजसूय॥ 114 ॥

Kashika

राजसूय सूर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते। राज्ञा सोतव्यः, राजा वेह सूयते राजसूयः क्रतुः। सूसर्तिभ्यां क्यप् सर्तेरुत्वं सुवतेर्वा रुडागमः। सरति सुवति वा सूर्यः। मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब् निपात्यते। मृषोद्यम्। रोचतेऽसौ रुच्यः। कर्तरि क्यप्। गुपेरादेः कत्वं च संज्ञायाम्। कुप्यम्। गोप्यमन्यत्। कृष्टे पच्यन्ते कृष्टपच्याः। कर्मकर्तरि निपातनम्। न व्यथते अव्यथ्यः॥

Siddhanta Kaumudi

एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रत्यधिकरणे क्यप् । निपातनाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपोरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥

Balamanorama

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः - राजसूय । राज्ञेति । क्षत्रियेणेत्यर्थः । अभिषवेति । ग्रावभी रसनिष्पत्त्यर्थं सोमलातानां कुट्टनमभिषवः, तत्प्रणाडिकया निष्पादयितव्यो यज्ञविशेषो राजसूय इत्यन्वयः । यद्वेति । लताविशेषात्मकः सोमो राजशब्देन विवक्षितः,राजानं क्रीणाती॑त्यादौ तथा प्रसिद्धेः । स राजा सूयते = अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्या राजसूय इत्यन्वयः ।कर्तरि कृ॑दित्यधिकारात्कथमधिकरणव्युत्पत्तिरित्यत आह — अधिकरणे क्यबिति । कुत इत्यत आह — निपातनादिति । ननु षुञ्धातोः क्यपि कथं दीर्घः,अकृत्सार्वधातुकयो॑रित्यतस्य कृत्यप्रवृत्तेरित्यत आह — निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वेहलि चे॑ति दीर्घ इत्यपि बोध्यम् । मृषोद्यमिति । क्यपिवचिस्वपी॑ति संप्रसारणम् । रोचतेरिति । रुचदातोः क्यपि ‘रुच्य’ इति रूपमित्यर्थः । गुपेरिति । गुब्धातोः क्यप्, प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः । सुवर्णरजतभिन्नं धनं कुप्यमिति ज्ञेयम् । तथा च ‘हेमरूपे कृताऽकृते’ इत्युक्त्वा अमर आह — ताभ्यां तदन्यत्तत्कुप्यमिति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्ते = फलन्ति ते कृष्टपच्या इत्यर्थः । कर्मकर्तरीति । अत्र कर्मकर्तरि क्यबित्यर्थः । निपातनादिति भावः । शुद्धे त्विति । मुक्यकर्मणि तुण्यति उपधावृद्धौचजो॑रिति कुत्वे ‘कृष्टपाक्य’ इति रूपमित्यर्थः । अव्यथ्य इति । अत्र निपातनात्कर्तरि क्यबिति भावः ।

Tattvabodhini

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः - राजसूय । यद्वेति ।राजानं क्रीणन्ति॑ इत्यादौ तथा दर्शनादिति भावः । षुञ् अभिषव इत्यस्य ह्रस्वान्तत्वादाह — निपातनाद्दीर्घ इति । निपातनं च रूढर्थमपि.तेनाद्यपक्षे अआमेघादौ, द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसङ्गः । उत्वमिति । तस्य रपरत्वात्हलि च॑ इति दीर्घ इति भावः । नित्यं क्यबिति । तेनवदः सुपि क्यप्च॑ इति यत्प्रत्ययो नेति भावः ।

Padamanjari

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥ राज्ञा सोतव्य इति। अभिषिक्तः क्षत्रियो राजा, तेन सोतव्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थः, कर्मणि क्यब् दीर्घत्वं च निपात्यते। राजा वा इह सूयत इति। अत्र पक्षे लतात्मकः सोमो राजा, राजानं क्रीणन्तीत्यादौ दर्शनात्। सुनोतिरत्राप्यभिषवे। अधिकरणे क्यब्निपातनं रूढ।ल्र्थम्, तेन ज्योतिष्टोमादौ न भवति। पूर्वस्मिन्नपि पक्षेऽश्वमेधादावतिप्रसङ्गः। सूसतिभ्यामिति। ननु’सर्तेरुत्वं सुवतेर्वा रुडागमः’ इत्यभिधानाद्विकल्पोऽत्राभिप्रेत इति चार्थाभावाद् द्वन्द्वानुपपतिः? भाष्यकारप्रयोगातु द्वन्द्वः। प्रयुक्तं हि भाष्ये’सूसर्तिभ्यां च सर्तेरुत्वं सुवतेर्वा रुडागमः’ इति। सर्तरुत्वमिति। दीर्घत्वं तु रपरत्वे सति’हलि च’ इत्येव सिद्धम्। सुवतेर्वा रुडागम इति। सुवतेरिति पञ्चमी, सुवतेः परस्य क्यप इत्यर्थः। रुगागम इति पाठे षष्ठी। सरतीति आकारो।’षू प्रेरणे’ तुदादिः, कर्मणि लोकं प्रेरयतीत्यर्थः, उदिते हि तस्मिन्क्रियासु लोकस्य प्रवृत्तिः। कर्तृ प्रत्ययेन कर्तरि निपातनं दर्शयति। एवं रुच्याव्यथ्ययोरपि द्रष्टव्यम्। आह च’सूर्यरुच्याव्यथ्याः कर्तरि’ इति। कुप्यमिति। संज्ञायामेतदिष्यते, सुवर्णरजतव्यतिरिक्तस्य धनस्येयं संज्ञा। सर्वत्रातिप्रसङ्गो निपातनाश्रयेण परिहार्यः। कर्मकर्तरि निपातनमिति। अन्तोदातस्य चेति द्रष्टव्यम्। आह हि -‘कृष्टपच्यस्यान्तोदातत्वं कर्मकर्तरि च’ इति। शुद्धे तु कर्मणि कृष्टपाक्य इत्येव भवति॥

Nyaas

राज्ञा सोतव्यः इति। वाक्यविशेषेण राजनि तृतीयान्त उपपदे कर्मणि निपातनमिति दर्शयति। राजा वेह सूयते इत्यनेनापि राजनि प्रथमान्त उपपदेऽधिकरणे निपातनमिति। षुञ् अभिषवे (धातुपाठः-1247) इत्यस्मात् क्यप्। तत्र चास्य तुगभावो दीर्घत्वञ्च निपात्यते। सूसर्तिभ्याम् इति। षू प्ररणे (धातुपाठः-1408), सृ गतौ (धातुपाठः-935)- आभ्यां यथाक्रमं अचो यत् (3.1.97) इति यति प्राप्ते ऋहलोण्र्यते (3.1.124) इति च क्यब् निपात्यते। सुवति इति। कर्मणि। कार्ये लोकान्` प्रेरयतीति। तस्मिन् ह्रुदिते लोकस्य क्रियाप्रवृत्तिः। पक्षे यति प्राप्ते इति। वदः सुपि क्यप् च (3.1.106) इत्यनेन। मृषाववनम् = मृषोद्यम्। क्यप्, सम्प्रसारणम्; आद्गुणः (6.1.87) , उपपदसमासः। रोचतेऽसौ`इति। कर्त्तृप्रत्ययान्तेनार्थमुपदर्शयन् कर्तरि निपातनं दर्शयति। तृजादौ प्राप्ते क्यब् निपात्यते। `गुपेः इति। गुप गोपने (धातुपाठः-970), गुपू रक्षणे (धातुपाठः-395) इत्यस्य वा। अव्ययः इति। व्यण {भयसंचलनयो धातुपाठः-} भयचलनयोः धातुपाठः-764) - अस्मात् कर्तरि तृजपवादः क्यब् निपात्यते॥

Prakriyasarvasvam

राज्ञा सोतव्यो राजसूयः क्रतुः । सरतीति सूर्यः । मृषोद्यमिति नित्यं क्यब् निपात्यते । रोचत इति रुच्यः । मणिहेमादिभ्योऽन्यद्वस्त्रादि धनं बह्वपायेभ्यो गोप्यत्वात् कुप्यम् । कृष्टे स्वयं पच्यमानः कृष्टपच्यः । न व्यथत इत्यव्यथ्यः ।

Sutra Prayogas

  • मृषोद्याः (शिशुपालवधम्): राजसूयसूर्यमृषोद्य… इत्यादिना वदेः क्यबन्तो निपातः।

  • अरुच्यम् (शिशुपालवधम्): राजसूय- इत्यादिना क्यबन्तो निपातितः।

  • राजसूययाजीव (भट्टिकाव्यम्): राजसूय इत्यादिना क्य- बन्ता राजसूयादयः।