31112: भृञोऽसंज्ञायाम्¶
Padacheda: भृञः | S | 5 | 1 |
असंज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्यप् is used after the root भृञ् ‘to bear’ when not used as a name.
Vasu English Translation¶
The affix क्यप् is used after the root भृञ् ‘to bear’ when not used as a name. Thus भृ + क्यप् = भृत्य Pl. भृत्याः ‘those who ought to be supported’ i. e. ‘servants’. Why do we say ‘when not used as an appellative’? Observe क्षृ + ण्यत् = क्षार्थः ‘a Kshatriya’.
Vart:- The use of kyap is optional when this verb takes the preposition सम्. Thus सम्भृत्याः or सम्भार्याः.
Bhashya¶
भृञ्ञोऽसंज्ञायाम् (729) (449 क्यप्प्रत्ययविधिसूत्रम्॥ 3 । 1 6 आ.12) (आक्षेपभाष्यम्) असंज्ञायामिति किमर्थम्। (समाधानभाष्यम्) भार्या। (1951 आक्षेपवार्तिकम्॥ 1 ॥) - भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वात्- (भाष्यम्) भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। किं कारणम्?। अन्येन विहितत्वात्। अन्येन लक्षणेन स्त्रियां क्यब्विधीयते संज्ञायां समजनिषदनिपदमनविदषुञ्ञ्शीङ्भृञ्ञिणः इति॥ (प्रत्याक्षेपभाष्यम्) प्रतिषेध इदानीं किमर्थः स्यात्?। (1952 प्रत्याक्षेपसमाधानवार्तिकम्॥ 2 ॥) - प्रतिषेधः किमर्थ इति चेदस्त्रीसंज्ञाप्रतिषेधार्थः- (भाष्यम्) प्रतिषेधः किमर्थ इति चेद्, अस्त्रीसंज्ञाऽस्ति। तदर्थः प्रतिषेधः स्यात् - भार्या नामक्षत्रियाः। (1953 समाधानवार्तिकम्॥ 3 ॥) - सिद्धं तु स्त्रियां संज्ञाप्रतिषेधात्- (भाष्यम्) सिद्धमेतत्। कथम्?। स्त्रियां संज्ञाप्रतिषेधो वक्तव्यः। संज्ञायां समजनिषदनिपतमनविदषुञ्ञ्शीङ्भृञ्ञिणः। ततो न स्त्रियां भृञ्ञः इति॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु॥ (दूषणस्मारणभाष्यम्) ननु चोक्तम् - - भृञ्ञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वाद् इति॥ (दूषणोद्धारभाष्यम्) नैष दोषः। भावे इति तत्रानुवर्तते। कर्मसाधनश्चायम्॥ (भाष्यम्) अथ वा य एते संज्ञायां विधीयन्ते, तेषु नैवं विज्ञायते - संज्ञायामभिधेयायामिति। किं तर्हि?। प्रत्ययान्तेन चेत्संज्ञा गम्यत इति॥ (पक्षान्तरभाष्यम्) अपर आह - - (1954 आक्षेपश्लोकवार्तिकम्॥ 4 ॥) - संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति- (1955 समाधानश्लोकवार्तिकम्॥ 5 ॥) - स्त्रियां भावाधिकारोस्ति तेन भार्या प्रसिध्यति - (व्याख्याभाष्यम्) भाव इति तत्र वर्तते। कर्मसाधनश्चायम्। (1956 समाधानान्तरश्लोकवार्तिकम्॥ 6 ॥) - अथ वा बहुलं कृत्याः संज्ञायामिति तत्स्मृतम्- (व्याख्याभाष्यम्) अथ वा कृत्यल्युटो बहुलमिति एवमत्रापि ण्यद्भविष्यति। (1957 दृष्टान्तश्लोकवार्तिकम्॥ 7 ॥) - यथा यत्यं यथा जन्यं यथा भित्तिस्तथैव सा - (1958 वार्तिकम्॥ 8 ॥) - समश्च बहुलम्- (भाष्यम्) समश्च बहुलमुपसंख्यानं कर्तव्यम्। संभृत्या एव संभाराः। संभार्या एव संभाराः॥ भृञ्ञोसंज्ञायाम्॥ 112 ॥
Kashika¶
भृञो धातोरसंज्ञायां विषये क्यप् प्रत्ययो भवति। भृत्याः कर्मकराः। भर्तव्या इत्यर्थः। असंज्ञायामिति किम्? भार्यो नाम क्षत्रियः॥ संपूर्वाद् विभाषा॥ संभृत्याः, संभार्याः॥
संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।
स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति॥
Siddhanta Kaumudi¶
भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ।<!समश्च बहुलम् !> (वार्तिकम्) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-(SK3276) इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥
Balamanorama¶
भृञोऽसंज्ञायाम् - भृञोऽसंज्ञायाम् ।क्य॑बिति शेषः । भृत्याः कर्मकुर्वाणा इत्यर्थः । ‘कर्मणि भृतौ’ इति कृञष्टः । भर्तव्या इति । वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह — क्रियाशब्दिति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति । क्यपा भवितव्यमित्याक्षेपः । ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात्भृञोऽसंज्ञाया॑मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह — संज्ञापर्यादुसत्विति । समाधत्ते — सत्यमिति ।डु भृञ् धारणपोषणयोः॑ इति जुहोत्यादौ ह्रस्वान्तो ड्वित्, ञिच्च ।भृ भत्र्सने, भरणेऽपी॑ति क्र्यादौ दीर्घान्तः । आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः । क्यप्तु भरतेरेवेति । ‘भृञ् भरणे’ इति भ्वादौ ह्रस्वान्तो ञित् । अस्यैवसंज्ञायां समजनिषदे॑त्त्र,भृञोऽसंज्ञाया॑मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य । न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः । कुत इत्यत आह — तदनुबन्धकेति ।तदनुबन्धकग्रहणे नातदनुबन्धकस्ये॑ति परिभाषयेत्यर्थः । बिभर्तेः क्यबभावे बीजमिदम् । क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम् ।
Padamanjari¶
भृञोऽसंज्ञायाम्॥ भर्तव्या इत्यर्थ इति। एतेन क्रियाशब्दत्वं दर्शयन् संज्ञात्वमपाकरोति। संपूर्वाद्विभाषेति। असंज्ञायामेव सूत्रेण नित्यं प्रसक्तस्य क्यपोऽयं विकल्पः। प्राप्तविभाषेत्यर्थः। संज्ञायामित्यादि। प्रतिषेधस्येति शेषः। असंज्ञायामित्यस्य प्रतिषेधस्य भार्यो नाम क्षत्रिय इत्यत्र पुंसि द्दष्टत्वाच्चरितार्थत्वान्न तेउसूत्रकारस्य भार्या शब्दः सिद्ध्यतीत्यपर्थः। पुंसि चरितार्थे हि प्रतिषेधे स्त्रियां क्यपा भवितव्यम्। ननु भार्याशब्दोऽपि संज्ञा, अभ्रियमाणापि हि भार्या भार्येत्युच्यते, तत्कुतोऽस्य क्यपः प्रसङ्गः? न ब्रूमोऽनेन क्यपा भवितव्यमिति; यस्तु संज्ञायामेव विधीयते’संज्ञायां समजनि’ इत्यादिना, तस्यात्र प्रसङ्गः। न च तस्यापि प्रतिषेधसामर्थ्यान्निवृत्तिः, पुंसि प्रतिषेधस्य चरितार्थथ्वादिति चोद्यम्। उतरमाह - स्त्रियां बावाधिकारोऽस्तीति। ननु’सञ्ज्ञायां समजनिषद’ इत्यत्र वक्ष्यति -‘भाव इति न स्वर्यते पूर्वक एवार्थाधिकारः’ इति, यथा - समजन्ति तस्यामिति समज्या, निषदन्ति तस्यामिति निषद्येत्यादि भवति, तत्कथमिदमुच्यते - स्त्रियां भावाधिकारोऽस्तीति? नेदमपूर्व चोद्यम्, वृत्तिकार एव हि तत्र वक्ष्यति - कथं तदुक्तं स्त्रियाम् भावाधिकारो ऽस्तीति। स्त्रियां स्त्रीप्रकरणे’संज्ञायां समजनि’ इत्यादिना क्यपि विधीयमाने भावस्याधिकारोऽभिधेयभावोपगमलक्षणो व्यापारोऽस्ति; शब्दशक्तस्वाभाव्याद्। भावि एव तेन क्यब् भवति, न कर्मणि, तेन भार्या प्रसिद्ध्यतीति कर्मणीत्यभिप्रायः। ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति’भृञ् भरणे’ इत्यस्यैव क्यब्विधौ ग्रहणम्, न’डुभृञ् धारणपोषणयोः’ इत्यस्य। अतस्तस्माद्वा’भृञ् भरणे’ इत्यस्माद्दीर्घान्ताद्वा भार्येति प्रसिद्ध्यतीति परिहारान्तरमप्यत्र सम्भवति॥
Nyaas¶
भर्तव्या इत्यर्थः इति। एतेन क्रियाशब्दत्वं भृत्यशब्दस्य दर्शयन् संज्ञाशब्दत्वमपाकरोति। संपूर्वाद्विभाषा इति। असंज्ञायामेवायं क्योप नित्यं प्रसक्तस्य क्यपो नित्यं प्रसक्तस्य विकल्पः। एतद्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोरपि योगयोः शेषभूतत्वादव्यवस्थितविभाषाविज्ञानाच्च लभ्यते।संज्ञायां पुंसि इत्यादि। असंज्ञायामित्यस्य प्रतिषेधस्येति शेषः। एतेन पुंसि प्रतिषेधस्य चरितार्थतामाह - यत एवं पुंसि चरितार्थः प्रतिषेधस्ततो न ते भार्या प्रसिध्यति। भार्याशब्दस्तव सूत्रकारस्य मते न प्रसिध्यतीत्यर्थः। पुंसि प्रतिषेधे हि चरितार्थे स्त्रियां क्यपा भवितव्यम्। ननु चासंज्ञायामित्युच्यते, संज्ञाशब्दश्च भार्याशब्दः, तथा हि अबिभ्रत्यपि देवदत्ते तस्य पत्नी भार्येत्युच्यते, तत्कुतः क्यप्प्रसङ्गः? न ब्राऊमः - अनेन सूत्रेण क्यपा भवितव्यमिति किं तर्हि? संज्ञायां समजनिषद (3.3.99) इत्यनेन, तत्र उत्तरमाह - स्त्रियां भावाधिकारोऽस्ति इति। भावाधिकारशब्देनात्र भावस्याभिधेयभावोपगमलक्षणो व्यापारो विवक्षितः, न तु शास्त्रीयोऽधिकारः। स्त्रियाम् = स्त्रीप्रकरणे, संज्ञायां समजनिषद (3.3.99) इत्यादिना क्यपि विधीयमाने भावस्याधिकारः, शब्दशक्तिस्वाभाव्यात्। तत्र क्यब्विधीयमानो भाव एव भवति, न कर्मणि। तेन भार्या सिध्यति इति। कर्मणीत्यभिप्रायः। यस्मात् स्त्रियां भावाधिकारोऽस्ति। भाव एव वाच्यत्वेन व्याप्रियते, न कर्म,तेन कर्मणि भार्याशब्दः प्रसिध्यति। स्त्रियां भावाधिकारे हि भाव एव क्यपा भवितव्यम्। कर्मणि तु ण्यतैव॥
Prakriyasarvasvam¶
क्यप् स्यात् । भरणीयो भृत्यः । नाम्नि तु भार्या पत्नी ।<!सम्पूर्वाद्वा!> (वा० ३-१-११२) । सम्भृत्यम् । सम्भार्यम् ।
Vartika¶
समश्च बहुलम् ।
Sutra Prayogas¶
सद्-भृत्य-शालिनः (भट्टिकाव्यम्): भृनो ऽसंज्ञायाम् इति क्यप्।