31074: श्रुवः शृ च¶
Padacheda: श्रुवः | S | 6 | 1 |
शृ | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।
श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् (3.4.68) इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः ‘शृ’ अयमादेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) । उदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - श्रु + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → श्रु + तिप् [तिप्तस्झि.. (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → शृ + श्नु + ति [सार्वधातुके प्रत्यये परे श्रुवः शृ च (3.1.74) इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ] → शृ नो ति [सार्वधातुकार्धधातुकयोः (7.3.84) इति उकारस्य गुणः ओकारः] → शृणोति । [ <!ऋवर्णान्नस्य णत्वं वाच्यम् ! इति वार्त्तिकेन णत्वम् ]
ज्ञातव्यम् - श्रु-धातोः शृ-आदेशः केवलं सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे एव भवति, नान्यथा । यथा - 1) कर्मणि प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनम् - श्रूयते । अत्र अयं आदेशः न भवति । 2) ‘क्त्वा’ इति आर्द्धधातुके प्रत्यये परे अपि अयमादेशः न भवति । श्रु + क्त्वा = श्रुत्वा ।
Sutrartha (English)¶
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb श्रु is converted to शृ and it gets the श्नु विकरणप्रत्यय.
Vasu English Summary¶
And शृ is the substitute of श्नु and there is the affix श्नु after it, when a सार्वधातुक affix denoting an agent follows.
Vasu English Translation¶
And शृ is the substitute of श्नु and there is the affix श्नु after it, when a सार्वधातुक affix denoting an agent follows. Thus श्रु + श्नु + तिप् = शृ + नु + ति = शृणोति ‘he hears’; शृणुतः: ‘they two hear’.
Kashika¶
श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति। शृणोति, शृणुतः, शृण्वन्ति॥
Siddhanta Kaumudi¶
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥
Laghu Siddhanta Kaumudi¶
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥
Balamanorama¶
श्रुवः शृ च - श्रुवः शृ च । ‘शृ’ इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।
Tattvabodhini¶
श्रुवः शृ च - श्रुवः शृ च । यद्ययं श्रुधातुः स्वादौ पठएत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः ।
Prakriyasarvasvam¶
श्रुधातोः श्नुः शृभावश्च स्यात् । शृणोतीत्यादि सुञ् वत् । लुङि अश्रौषीत् । अश्रौष्टाम् । कर्मणि अश्रावि । अश्राविषाताम्, अश्रौषाताम् । शुश्राव, शुश्रुवतुः । क्रादित्वाद्वेट् । शुश्रोथ । शुश्रुवथुः । शुश्रुव । शुश्राव, शुश्रव । शुश्रुव । क्रादित्वे वृणोतेः थलि ‘ववथ’ (७-२-६४) इति निगमे निपातनाल्लोके ववरिथेतीडेव । कर्मणि शुश्रुवे । शुश्रुवाते । शुश्रुपे । शुश्रुढ्वे । शुश्रुवहे । श्रूयात् । श्रोता । श्रोष्यति । कर्मणि श्राविषीष्ट, श्रोषीष्ट । इत्यादि । अक्षू व्याप्तौ ।
Sutra Prayogas¶
अशृण्वन्नन्यतः (भट्टिकाव्यम्): श्रुवः ट च इति श्रभावः प्रत्ययश्च।
अशृणो (भट्टिकाव्यम्): श्रुवः शृ च इति शृ-आदेशः।