31073: स्वादिभ्यः श्नुः¶
Padacheda: स्वादिभ्यः | S | 5 | 3 |
श्नुः | S | 1 | 1 |
Sutrartha¶
सार्वधातुके कर्तरि प्रत्यये परे स्वादिगणस्य धातोः परः श्नु-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे स्वादिगणस्य धातोः परः ‘श्नु’ इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवति, ततः तस्य लोपः (1.3.9) इत्यनेन तस्य लोपः भवति । अतः केवलम् ‘नु’ इति अवशिष्यते । यथा - 1. षुञ् (अभिषवे) -इति स्वादिगणस्य प्रथमः धातुः । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशम् सिदध्यति - सु + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → सु + तिप् [तिप्तस्झि.. (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः] → सु + श्नु + ति [सार्वधातुके प्रत्यये परे स्वादिभ्यः श्नुः (3.1.73) इति विकरणप्रत्ययः ‘श्नु’ ] → सु नो ति [सार्वधातुकार्धधातुकयोः (7.3.84) इति उकारस्य गुणः ओकारः] → सुनोति । 2. आप् (व्याप्तौ) इति स्वादिगणस्य धातुः । तस्य ‘शतृ’ इति सार्वधातुके प्रत्यये परे - आप् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे**(3.2.124) इत्यनेन शतृ-प्रत्ययः] → आप् + श्नु + शतृ [सार्वधातुके प्रत्यये परे **स्वादिभ्यः श्नुः (3.1.73) इति विकरणप्रत्ययः ‘श्नु’ ] → आप् + नु + अत् [इत्संज्ञालोपः] → आप् + न् उवङ् + अत् [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इति उवङ्-आदेशः] → आप् + न् उव् + अत् [इत्संज्ञालोपः] → आप्नुवत् । ‘श्नु’ गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा - 1. पित्-प्रत्ययेषु परेषु सार्वधातुकार्धधातुकयोः (7.3.84) इति उकारस्य गुणादेशः ओकारः जायते । यथा - सु + नु + ति → सुनोति । सु + नु + आनि → सु + नो + आनि = सुनवानि । 2. अजन्तधातुषु वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च श्नु-इत्यस्य उकारस्य लोपश्चास्यान्यतरस्याम् म्वोः (6.4.107) इत्यनेन वैकल्पिकः लोपः भवति । यथा - सु + नु + वः → सुनुवः, सुन्वः । 3. हलन्तधातुषु अजादि-अपित्-प्रत्यये परे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इत्यनेन श्नु-इत्यस्य उवङ्-आदेशः भवति । यथा - आप् + नु + अन्ति → आप्नुवन्ति । 4. अजन्तधातुषु अजादि-अपित्-प्रत्यये परे हुश्नुवोः सार्वधातुके (6.4.87) इत्यनेन श्नु-प्रत्ययस्य यणादेशः भवति । यथा - सु + नु + अन्ति → सुन्वन्ति । ज्ञातव्यम् - कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । स्वादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्नु-प्रत्ययः भवति ।
Sutrartha (English)¶
A verb belonging to the स्वादिगण gets the विकरणप्रत्यय ‘श्नु’ in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
Vasu English Summary¶
The affix श्नु comes after the roots of स्वादि class when a सार्वधातुक affix denoting an agent follows.
Vasu English Translation¶
The affix श्नु comes after the roots of स्वादि class when a सार्वधातुक affix denoting an agent follows. This debars शप्. As सु + श्नु + तिप् = सु + नु + ति = सुनोति ‘he presses out’. These are roots of the Fifth class.
Kashika¶
षुञ् अभिषवे इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति। शपोऽपवादः। सुनोति। सुनोति॥
Siddhanta Kaumudi¶
{$ {!1247 षुञ्!} अङिषवे$} । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ॥ सुनोति । सुनुतः । हुश्नुवोः - (SK2387) इति यण् । सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । स्तुसुधूञ्भ्यः - (SK2385) इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥
Laghu Siddhanta Kaumudi¶
॥ {$ {! 1 षुञ् !} अभिषवे $} (धातुपाठे (05.0001)) ॥ शपोऽपवादः। सुनोति। सुनुतः। हुश्नुवोरिति यण्। सुन्वन्ति। सुन्वः, सुनुवः। सुनुते। सुन्वाते। सुन्वते। सुन्वहे, सुनुवहे। सुषाव, सुषुवे। सोता। सुनु। सुनवानि। सुनवै। सुनुयात्। सूयात्॥
Balamanorama¶
स्वादिभ्यः श्नुः - स्वादिभ्यः श्नुः । कत्र्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः । शपोऽपवादः । सुनोतीति । लटस्तिपि श्नुः, शकार इत् । शित्त्वेन सार्वधातुकत्वात् ‘सार्वधातुकमपित्’ इति ङित्त्वातत्स्मिन् परे धातोर्न गुणः । श्नोस्तु तिपमाश्रित्य गुण इति भावः । सुनुत इति । तसो ङित्त्वात् स्नोर्न गुण इति भावः । सुनु — अतीति स्थिते ‘अचि श्नुधातु’ इति उवङमाशङ्क्याह — हुश्नुवोरिति । सुनोषि सुनुथः सुनुथ । सुनोमि । वसि मसि चलोपश्चास्यान्यतकरस्यां म्वो॑रित्युकारलोपविकल्पं मत्वाह — सुन्वः सुनुव इति । सुन्मः सुनुम इत्यपि ज्ञेयम् । अथ लटस्तङि — सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाथे सुनुद्वे । सुन्वे । इति सिद्धवत्कृत्य आह — सुन्वहे सुनुवहे इति ।लोपश्चास्ये॑त्युकारलोपविकल्प इति भावः । सुन्महे सुनुमहे इत्यपि ज्ञेयम् । सुषावेति.सुषुवतुः सुषुवुः । सुषविथ — सुषोथ सुषुवथुः सुषुव । सुषाव — सुषव सुषुविव सुषुविम । अथ लिटस्तह्राह — सुषुवे इति । सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे [सुषुविढवे] सुषुविधवे । सुषुवे सुषुविवहे सुषुविमहे ।सोतेति । अनिट्त्वसूचनमिदम् । सोष्यति सोष्यते । सुनोतु — सुनुतात् सुनुताम् सुन्वन्तु । इतिसिद्धवत्कृत्य आह — स#उनु इति ।उतश्च प्रत्यया॑दिति हेर्लुक् । सुनुतात् सुनुतम् सुनुत । सुनवानीति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्तवेनाऽङित्त्वादिति भावः । सुनवाव सुनवाम । लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । इति सिद्धवत्कृत्य आह — सुनवै इति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्त्वेन ङित्त्वाऽभावादिति भावः । सुनवावहै सुनवामहै । असुनोत् असुनुतामसुन्वन् । असुनोः । असुनवमसुनुव असुन्व । असुनुत असुन्वातामसुन्वत । इत्याद्यूह्रम् । विधिलिङ्याह — सुनुयादिति । यासुटो ङित्त्वात्श्नोर्न गुण इति भावः । सूयादिति । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । सोषीष्ट । लुङि परस्मैपदे सिच इण्निषेधे प्राप्ते आह — स्तुसुधूञ्भ्य इतीडिति । असाविष्टामित्यादि । लुङस्तङ्याह — असोष्टेति । असोषातामित्यादि । असोष्यत् असोष्यतउपसर्गात्सुनोती॑ति षत्वं मत्वा आह — अभिषुणोतीति । षात्पर्तवाण्णत्वम् । अभ्यषुणोदिति ।प्राक् सितादड्व्यवायेऽपी॑ति षत्वम् । अभिसुषावेति ।स्थादिष्वभ्यासेने॑ति नियमादभ्यासस्य न षः ।आदेशप्रत्यययो॑रित्युत्तरखण्डस्य षः ।
Tattvabodhini¶
स्वादिभ्यः श्नुः - सुनवानीति ।आडुत्तमस्ये॑त्याटि कृतेहुश्नुवो॑ रिति यणं बाधित्वा परत्वाद्गुणः ।
Padamanjari¶
स्वादिभ्यः श्नु॥ सिनोतीति।’षिञ् बन्धने’ र्क्यादिपाठात्सिनातीत्यपि भवति॥