31075: अक्षोऽन्यतरस्याम्

Padacheda: अक्षः | S | 5 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

कर्तरि सार्वधातुके प्रत्यये परे अक्ष्-धातोः श्नु-विकरणप्रत्ययः विकल्पेन भवति ।

अक्षू (व्याप्तौ) इति भ्वादिगणस्य धातुः । अस्मात् धातोः कर्तरि शप् (3.4.68) इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण विकल्पेन श्नु-प्रत्ययः विधीयते । श्नु-प्रत्ययस्य अभावे पुनः औत्सर्गिकरूपेण शप्-प्रत्ययविधानम् भवति । यथा - अक्ष्णोति, अक्षति ।

Sutrartha (English)

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb अक्ष् gets the श्नु विकरण optionally.

Vasu English Summary

The affix श्यन् is optionally used after the root अक्ष् ‘to pervade’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows.

Vasu English Translation

The affix श्यन् is optionally used after the root अक्ष् ‘to pervade’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows. Thus अक्ष्णोति or अक्षति ‘he pervades or obtains’.

Kashika

अक्षू व्याप्तौ भौवादिकः, अस्मादन्यतरस्यां श्नुप्रत्ययो भवति। अक्ष्णोति। अक्षति॥

Siddhanta Kaumudi

अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः - (SK380) इति कलोपः । षढोः कः सि (SK295) । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्ष्णोत् । आक्ष्णुवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि (SK2268) । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः ।{$ {!655 तक्षू!} {!656 त्वक्षू!} तनुकरणे$} ॥

Balamanorama

अक्षोऽन्यतरस्याम् - अक्षोऽन्यतरस्याम् । ‘अक्ष’ इति पञ्चमी ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,॒कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके ये॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह — अक्षो वेति । श्नुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् । तत्फलं तुस्वादिभ्यः श्नु॑रित्यत्र वक्ष्यते । अक्ष्णोतीति । तिपि श्नुः । तस्य तिपः पित्त्वेन ङित्त्वाऽभावात्सार्वधातुके॑ति गुणः । णत्वम् । अक्ष्णुत इति । तसोऽपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुवन्तीति । ङित्त्वाद्गुणाऽभावे उवङ् । अक्ष्णोषि अक्ष्णुथ । अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । अक्षतीति । शप्पक्षे रूपम् । आनक्षेति । णलि द्विहल्त्वान्नुट् । आनक्षतुः आनक्षुः । ऊदित्त्वादिट्पक्षे आह — आनक्षिथेति । इडभावे आह — आनष्ठेति । आनक्ष् थ इति स्थितेस्को॑रिति कलोपः । थस्य ष्टुत्वेन ठः । अष्टेति । लुटि तासि इडभावपक्षेस्को॑रिति कलोपे तकारस्य ष्टुत्वेन टः । अक्ष् स्य तीति स्थिते प्रक्रियां दर्शयति — स्कोरिति कलोपः, षढोः कः सीति । कात्परत्वात् सस्य षत्वं च । अक्ष्णोत्विति । अक्ष्णोतु अक्ष्णुतात्-अक्ष्णुताम् । अक्ष्णुवन्तु । अक्ष्णुहीति । संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुतात् अक्ष्णुतमक्ष्णुत । अक्ष्णवानीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेधः । गुणेऽवादेशः । आक्ष्णुवन् । आक्ष्णोः आक्ष्णुतमाक्ष्णुत । आक्ष्णवमिति । मिपोऽम् । श्नोर्गुणः । अवादेशः । आक्ष्णुव आक्ष्णुम । अक्ष्णुयादिति । विधिलिङि यासुटो ङित्त्वात् श्नोर्न गुणः । अक्ष्णुयुरिति । ‘लिङः सलोपः’ इति सलोपेउस्यपदान्ता॑दिति पररूपमिति भावः । अक्ष्णुयाः अक्ष्णुयातमक्ष्णुयात । अक्ष्णुयामक्ष्णुयाव अक्ष्णुयाम । शप्पक्षे अक्षेदित्यादि । अक्ष्यादिति । आशीर्लिङ आर्धधातुकत्वान्न श्नुः, नापि शप् । लुङि सिचि विशेषमाह — ऊदित्त्वाद्वेडिति । तत्र इट्पक्षे आह — नेटीति । हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तरिति शङ्क्यं, रञ्जेरराङ्क्षीदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति । आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्यां च रूपे भेदाऽभावात्मा भवा॑नित्युपात्तम् । अक्षिष्टाम् । अक्षिषुरिति । अत्रापि ‘मा’ इति संबध्यते । इडभावे त्विति । लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाऽप्रसक्त्या हलन्तलक्षणवृद्धौस्को॑रिति कलोपेषढो॑रिति कत्वे षत्वमिति भावः । अत्रनेटी॑ति निषेधाऽभावेन हलन्तलक्षणवृद्धिर्निर्बाधेति स्पष्टयितुमेव ‘मा भवान्’ इत्यत्राप्युपात्तमिति बोध्यम् । आष्टामिति । अक्ष् स् ताम् इति स्थिते हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपेस्को॑रिति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति । अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौस्को॑रिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः आष्टमाष्ट । आक्षमाक्ष्व आक्ष्म । आक्षिष्यत् — आक्ष्यत्, आक्ष्यतामाक्ष्यन् । आक्ष्यः आक्ष्यतमाक्ष्यत । आक्ष्यमाक्ष्याव आक्ष्याम । तक्षू त्वक्षू इति । स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम् ।

Prakriyasarvasvam

अस्य वा श्नुः स्यात् । अक्ष्णोतीत्यादि राध्नोतिवत् । शृणोत्यक्षतक्षयो भूवादिस्था अपि श्नुविधिमत्त्वादिहोक्ताः । तेनास्य पक्षे शप् । अक्षतीत्यादि । लुङि उदित्वाद्वेट् । सेटि ‘नेटि’ इत्यवृद्धिः । अनिटि तु वृद्धिः । आटि भेदाभावा- न्माङ्योगे रूपं मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । अक्षिवम् । अक्षिष्व । अनिटि आक्षीत् । आक्ष् स् ताम् । ‘झलो झलि’ । ‘स्कोः—’ इति कलोपः । आष्टाम् । ‘षढोः कः—’ । आक्षुः । आक्षम् । आक्ष्व । कर्मणि आक्षि । आक्षि- षाताम्, आक्षाताम् । आक्षिष्ठाः, आष्ठाः । आक्षिढ्वम्, आक्षिध्वम् । कलोपे जश्त्वम् । आड्ढ्वम् । आक्षिपि, आक्षि । आक्षिव्वहि, आक्ष्वहि । लिटि ‘तस्मान्नुट्—’ इति नुट् । आनक्ष । आनक्षतुः । आनक्षिथ । स्कोर्लोपः । आनष्ठ । आनक्षिव । आनक्ष्व । कर्मणि आनक्षे । आनक्षाते । आनक्षिषे, कलोपे ‘षढोः कः—’। आनक्षे आनक्षिध्वे, षस्य जश्त्वम् । आनड्ढ्वे । आनक्षिवहे, आनक्ष्वहे । आञ्छे- रायामार्थस्य द्विहलोऽपि नुड् वेति कौमुदी । आनाञ्छ, आञ्छ । आशीरादौ अक्ष्यात् । अक्षिता, अष्टा । आक्षिष्यति, अक्ष्यति । कर्मणि अक्षिषीष्ट, अक्षीष्ट इत्यादि । तक्षू तनूकरणे ।