31074: श्रुवः शृ च ================== **Padacheda:** श्रुवः | S | 6 | 1 | शृ | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **सार्वधातुके कर्तरि प्रत्यये परे श्रु-धातोः परः श्नु-प्रत्ययः , तथा श्रु-धातोः शृ-आदेशः विधीयते ।** श्रु श्रवणे अयम् भ्वादिगणस्य धातुः । अस्मात् धातोः **कर्तरि शप्** (3.4.68) इत्यनेन कर्तरि सार्वधातुके प्रत्यये परे औत्सर्गिकरूपेण शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण श्नु-प्रत्ययः विधीयते । तथा च, श्रु-धातोः 'शृ' अयमादेशः अपि भवति । (स्मर्तव्यम् - श्रु = श् + र् + उ । शृ = श् + ऋ ) । उदाहरणम् - श्रु-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - श्रु + लट् [**वर्तमाने लट्** (3.2.123) इति लट्-लकारः] → श्रु + तिप् [**तिप्तस्झि..** (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → शृ + श्नु + ति [सार्वधातुके प्रत्यये परे **श्रुवः शृ च** (3.1.74) इत्यनेन श्नु-प्रत्ययः, तथा श्रु-इत्यस्य शृ-आदेशः ] → शृ नो ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति उकारस्य गुणः ओकारः] → शृणोति । [