31071: यसोऽनुपसर्गात्¶
Padacheda: यसः | S | 5 | 1 |
अनुपसर्गात् | S | 5 | 1 |
Sutrartha¶
कर्तरि सार्वधातुके प्रत्यये परे अनुपसर्गात् यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । अस्मात् धातोः दिवादिभ्यः श्यन् इत्यनेन नित्यं श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण कर्तरि शप् (3.1.65) इत्यनेन शप्-प्रत्ययः भवति । यथा - यसते, यस्यते । ‘यस्’ धातुः उपसर्गेण सह आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः उपसर्गपूर्वस्य यस्-धातोः नित्यं श्यन्-प्रत्ययः भवति । यथा - आयस्यति, प्रयस्यति । ज्ञातव्यम् - ‘सम्+यस्’ इत्यत्र संयसश्च (3.1.72) इति अग्रिमसूत्रेण श्यन् पुनः विकल्प्यते ।
Sutrartha (English)¶
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used without an उपसर्ग gets the श्यन् विकरण optionally.
Vasu English Summary¶
The affix श्यन् is optionally used after the verb यस् ‘to strive’ when it is used without a preposition and when a सार्वधातुक affix denoting an agent, follows.
Vasu English Translation¶
The affix श्यन् is optionally used after the verb यस् ‘to strive’ when it is used without a preposition and when a सार्वधातुक affix denoting an agent, follows. Thus यास्यति or यसति ‘he strives’. But no option is allowed in आयस्यति, प्रयस्यति. The root यस् belongs to the Divadi class.
Bhashya¶
यसोऽनुपसर्गात् (688) (423 श्यन्विकल्पविधिसूत्रम्॥ 3.1.4 आ. 11) (आक्षेपभाष्यम्) अनुपसर्गादिति किमर्थम्?। (समाधानभाष्यम्) आयस्यति प्रयस्यति॥ (प्रत्याख्यानभाष्यम्) अनुपसर्गादिति शक्यमकर्तुम्॥ कथमायस्यति प्रयस्यतीति?॥ संयसश्च इत्येतन्नियमार्थं भविष्यति - संपूर्वादेव यसः, नान्यपूर्वात् इति॥ यसोऽनुपसर्गात्॥ 71 ॥
Kashika¶
यसु प्रयत्ने दैवादिकः। तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद् विकल्प उच्यते। यसोऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम् ? आयस्यति। प्रयस्यति॥
Balamanorama¶
यसोऽनुपसर्गात् - यसोऽनुपसर्गात् ।
Tattvabodhini¶
यसोऽनुपसर्गात् - यसोऽनुप । अत्र वदन्ति — यस॑ इत्येवास्तु । ततःसमः॑ । नियमार्थमिदम्, — सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति । दाहे पठित इति । व्युष दाह इति — अस्मिन्नेव गणे पठित इत्यर्थः । अङर्थमिति । दाहे पठितस्य तु सिजेव । अव्योषीत् । इति तत्त्वबोधिन्याम् दिवादयः ।
Padamanjari¶
यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति।’सम्यसश्च’ इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥
Prakriyasarvasvam¶
अनुपसर्गाद् यसः श्यन् वा स्यात् । यस्यति । अन्यत्र शप् । यसति ।