31072: संयसश्च¶
Padacheda: संयसः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
कर्तरि सार्वधातुके प्रत्यये परे सम्-उपसर्गात् परस्य यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।
यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । सम्-उपसर्गपूर्वकस्य यस्-धातोः दिवादिभ्यः श्यन (3.1.69) इत्यनेन श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । यथा - संयसति, संयस्यति । ज्ञातव्यम् - अन्यः उपसर्गः अस्ति चेत् श्यन्-प्रत्ययः नित्यमेव भवति । यथा - आयस्यति, प्रयस्यति ।
Sutrartha (English)¶
In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used with the उपसर्ग ‘सम्’ gets the श्यन् विकरण optionally.
Vasu English Summary¶
The affix श्यन् is optionally used after the verb यस् ‘to strive’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows.
Vasu English Translation¶
The affix श्यन् is optionally used after the verb यस् ‘to strive’ when it is preceded by the preposition सम् and when a सार्वधातुक affix denoting an agent, follows. Thus संयस्यति or संयसति ‘he strives’.
Kashika¶
सोपसर्गार्थ आरम्भः। संपूर्वाच्च यसेर्वा श्यन् प्रत्ययो भवति। संयस्यति। संयसति॥
Siddhanta Kaumudi¶
श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ।{$ {!1211 जसु!} मोक्षणे$} । जस्यति ।{$ {!1212 तसु!} उपक्षये$} ।{$ {!1213 दसु!} च$} । तस्यति । अतसत् । दस्यति । अदसत् ।{$ {!1214 वसु!} स्तम्भे$} । वस्यति । ववास । ववसतुः । न शसदद - (SK2263) इति निषेधः । बशादिरयमिति मते तु बेसतुः । बेसुः ।{$ {!1215 व्युष!} विभागे$} । अयं दाहे पठितः । अर्थभैदेन त्वर्ङ्गथं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ।{$ {!1216 प्लुष!} दाहे$} । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ।{$ {!1217 बिस!} प्रेरणे$} । बिस्यति । अबिसत् ।{$ {!1218 कुस!} संश्लेषणे$} । अकुसत् ।{$ {!1219 बुस!} उत्सर्गे$} ।{$ {!1220 मुस!} खण्डने$} ।{$ {!1221 मसी!} परिणामे$} । परिणामे विकारः । समी इत्येके ।{$ {!1222 लुठ!} विलोडने$} ।{$ {!1223 उच!} समवाये$} । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् ।{$ {!1224 भृशु!} {!1225 भ्रंशु!} अधः पतने$} । बभर्श । अभृशत् । अनिदिताम् - (SK415) इति नलोपः । भ्रश्यति । अभ्रशत् ।{$ {!1226 वृश!} वरणे$} । वृश्यति । अवृशत् ।{$ {!1227 कृश!} तनूकरणे$} । कृश्यति ।{$ {!1228 ञितृषा!} पिपासायाम्$} ।{$ {!1229 हृष!} तृष्टौ$} । श्यन्नङौ भौवादिकाद्विसेषः ।{$ {!1230 रुष!} {!1231 रिष!} हिंसायाम्$} । तीषसह - (SK2340) इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ।{$ {!1232 डिप!} क्षेपे$} ।{$ {!1233 कुप!} ग्रोदे$} ।{$ {!1234 गुप!} व्याकुलत्वे$} ।{$ {!1235 युप!} {!1236 रुप!} {!1237 लुप!} विमोहने$} । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ।{$ {!1238 लुभ!} गार्ध्ये$} । गार्ध्यमाकाङ्क्षा । तीषसह - (SK2340) इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः ।{$ {!1239 क्षुभ!} संचलने$} । क्षुभ्यति ।{$ {!1240 णभ!} {!1241 तुभ!} हिंसायाम्$} । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः ।{$ {!1242 क्लिदू!} आर्द्रीभावे$} । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ।{$ {!1243 ञिमिदा!} स्नेहने$} । मिदेर्गुणः (SK2346) । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः ।{$ {!1244 ञिक्ष्विदा!} स्नेहनमोचनयोः$} ।{$ {!1245 ऋधु!} वृद्धौ$} । आनर्ध । आर्धत् ।{$ {!1246 गृधु!} अभिकाङ्क्षायाम्$} । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः ॥
Balamanorama¶
संयसश्च - संयसश्च । सूत्रद्वमिदम् । श्यन् वा स्यादिति । शेषपूरणमिदम् । ‘दिवादिभ्यः श्यन्’ इत्यतो,वा भ्राशे॑त्यतश्च तदनुवृत्तेरिति भावः । अनुपसर्गाद्यसः श्यन्वा स्यादिति प्रथमसूत्रार्थः । सोपसर्गात्तु नित्य एव श्यन्, अनुपसर्गादिति पर्युदासात् । संपूर्वाद्यसेर्नित्यमेव श्यनः प्राप्तौ द्वितीयसूत्रम् । रव्युष विभागे । अयमिति । दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः । पौनरुक्त्यमाशङ्क्याअह — अर्थबेदेन त्वङर्थं पठते इति । विभागात्मके अर्थविशेषे एव पुषाद्यङर्थमिह पुनः पाठ #इत्यर्थः । अव्युषदिति । ‘व्युष दाहे’ इति पूर्वं पठितस्य तु सिजेव । अव्योषीत् । ओष्ठआदिरिति । दन्त्योष्ठआदिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः । अयकार इति । दन्तोष्ठआदिर्दन्त्योष्मान्तो यो दातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्त इत्यर्थः ।अयकार॑मिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्रागस्य पाठः क्वचित् दृस्यते तत्र पौनरुक्त्यशङ्कां परिहरति — पूर्वत्र पाठः सिजर्थ इति.पुषादावेव पाठे सति अङेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अङभावात्सिच् श्रूयेत । तथा च सिचः कदाचिच्छ्रवणार्थः पूर्वं पाठ इत्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं दर्शयति — तद्भ्वादीति । तत् = दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं, भ्वादिपाठेनैव संपन्नप्रयोजनकमिति सुष्ठु वक्तुं शक्यमित्यर्थः । एवं च भ्वादिपाठाच्छब्विकरमो, लुङि सिचः श्रवणं च सिध्यति । पुषादौ पाठात्तु श्यन्विकरणः, अङ् च सिध्यति । अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात्प्राक् ‘प्लुष दाहे’ इति न पठितमिति बोध्यम् । मसी परिणामे इति । ईदित्त्वंश्वीदितः॑इत्येतदर्थम् । मस्यति । समी इत्येके इति । सम्यति । भृशु भ्रंशु । द्वितीयधातोराह -अनिदितामिति । युप रुप लुप । धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादायातः । इह पाठस्त्विति । क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त इति भावः । ञि मिदा । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ ‘ञि मिदा स्नेहने’ इत्यात्मनेपदिषु पठितः । लुङि तुद्युद्भ्यो लुङी॑त्यत्र परस्मपैदविकल्प उक्तः । द्युताद्यङ् तु परस्मैपद एव, न तु तङि । एवं च द्यातादिपाठादेव परस्मैपदपक्षे अङि अमिददिति, तङ#इ तु अङभावे अमेदिष्टेति सिद्धम् । तथा च पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्ये — द्युतादिपाठादेवेत्यादिना, सिद्धे इत्यन्तेन । तामिमां शङ्कां परिहरति — इह पाठोऽमेदीदिति मा भूदितीति । पुषादावस्य पाठोऽमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अङसंभवादमेदीदिति स्यादिति भावः । रनन्वेवं सति भवाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः, द्यातादिभ्यो बहिरेवात्मनेपदिषु पठताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति — बहिरेवेति । ‘सूचितः’ इतिपाठे तु सुतरामुचित इति व्याख्येयम् । ञि क्ष्विदेत्यादि । व्यक्तम् । इति दिवादयः ।॥ इति बालमनोरमायाम् दिवादयः॥ ***अथ द्वन्द्वः ।***
Padamanjari¶
संयसश्च॥ इह’समः’ इत्येवास्तु,’यसः’ इत्यनुवर्तिष्यते,’षम ष्टम् वेक्लव्ये’ इत्यस्य ग्रहणशङ्कानिवृत्यर्थ तु’संयसः’ इत्युक्तम्। एवं तर्हि’समो यसः’ , ठनुपसर्गाच्चऽ इत्यस्तु॥
Prakriyasarvasvam¶
संयस्यति । संयसति । अन्योपसर्गात्तु प्रयस्यतीत्यादि श्यनेव । यकि यस्यते । लुङि पुषाद्यङ् । अयसत् । ययास । येसतुः । येसिथ । येस । ययास, ययस । येसिव । यस्यात् । यसिता । यसिष्यति । भावे यस्यते । येसे । यसिषीष्ट । लुङि अयासि । ञिमिदा स्नेहने । स्नेहनं निबिडीभावः ।