31070: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः

Padacheda: वा | S | 0 | 0 |

भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः | S | 5 | 1 |

Sutrartha

कर्तरि सार्वधातुके प्रत्यये परे भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - एतेभ्यः परः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।

टुभ्राशृँ दीप्तौ, टुभ्लाशृँ दीप्तौ, भ्रमुँ चलने, भ्रमुँ अनवस्थाने, क्रमुँ पादविक्षेपे, क्लमुँ ग्लानौ, त्रसीँ उद्वेगे, त्रुटँ छेदने, लषँ कान्तौ - एतेभ्यः धातुभ्यः सार्वधातुके प्रत्यये परे कर्तरि प्रयोगे अनेन सूत्रेण श्यन्-प्रत्ययः विकल्पेन भवति । श्यन्-प्रत्ययस्य अभावे प्रत्येकम् धातोः तस्य तस्य गणस्य यः गणविकरणप्रत्ययः, सः धातोः परः विधीयते । यदि विशिष्टः गणविकरणप्रत्ययः नास्ति, यदि वा धातुः दिवादिगणस्यैव अस्ति, तर्हि श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । प्रत्येकम् धातोः विषये क्रमेण पश्यामः - 1) टुभ्राशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - भ्राश्यते, भ्राशते । 2) टुभ्लाशृँ दीप्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - भ्लाश्यते, भ्लाशते । 3 क) भ्रमुँ चलने - भ्वादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - भ्रम्यति, भ्रमति । 3 ख) भ्रमुँ अनवस्थाने - दिवादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - भ्राम्यति, भ्रमति । ‘भ्राम्यति’ इत्यत्र शमामष्टानां दीर्घः श्यनि (7.3.74) इत्यनेन अङ्गस्य दीर्घः भवति । 4) क्रमुँ पादविक्षेपे - भ्वादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - क्राम्यति, क्रामति । उभयोः रूपयोः क्रमः परस्मैपदेषु (7.3.76) इत्यनेन अङ्गस्य दीर्घः भवति । 5) क्लमुँ ग्लानौ - दिवादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - क्लाम्यति, क्लामति । ‘क्लाम्यति’ इत्यत्र शमामष्टानां दीर्घः श्यनि (7.3.74) इत्यनेन अङ्गस्य दीर्घः भवति । ‘क्लामति’ इत्यत्र ष्ठिवुक्लमुचमां शिति (7.3.75) इत्यनेन अङ्गस्य दीर्घः भवति ।] 6) त्रसीँ उद्वेगे - दिवादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - त्रस्यति, त्रसति । 7) त्रुटँ छेदने - तुदादिगणः । श्यनः अभावे तुदादिभ्यः शः (3.1.77) इति श-प्रत्ययः भवति । त्रुट्यति, त्रुटति । 8) लषँ कान्तौ - भ्वादिगणः । श्यनः अभावे कर्तरि शप् (3.1.68) इति शप्-प्रत्ययः भवति । - लष्यति, लषति ।

Sutrartha (English)

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs भ्राश् , भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् get the श्यन् विकरण optionally.

Vasu English Summary

The affix श्यन् optionally used in the active voice after the verbs - भ्राश् ‘to shine’, भ्लाश् ‘to shine’, भ्रम् ‘to whirl’, क्रम् ‘to walk’, क्लम् ‘to be sad’, त्रस् ‘to fear’, त्रुट् ‘to cut’ and लष् ‘to desire’.

Vasu English Translation

The affix श्यन् optionally used in the active voice after the verbs - भ्राश् ‘to shine’, भ्लाश् ‘to shine’, भ्रम् ‘to whirl’, क्रम् ‘to walk’, क्लम् ‘to be sad’, त्रस् ‘to fear’, त्रुट् ‘to cut’ and लष् ‘to desire’. Thus भ्राशते or भ्राश्यते ‘he shines’; भ्लाशते or भ्लाश्यते ‘he shines’; भ्रमति or भ्राम्यति ‘he whirls’; क्रामति or क्राम्यति ‘he walks’; क्लामति or क्लाम्यति ‘he is sad’. So also त्रस्यति or त्रसति; त्रुट्यति or त्रुटति; लष्यति or लषति.

Kashika

उभयत्र विभाषेयम्। टुभ्राशृ टुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने , द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्रुट्यति, त्रुटति। लष्यति, लषति॥

Siddhanta Kaumudi

एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥

Laghu Siddhanta Kaumudi

एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥

Balamanorama

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः - वा भ्राश । ‘दिवादिब्यः श्य’ नित्यतः श्यन्निति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह -एभ्यः श्यन्वेत्यादि ।

Tattvabodhini

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः - उभयत्रविभाषेयम् । अनवस्थानर्थो भ्रमिः, क्लमित्रसी च — दिवादयः, तेभ्यो नित्यं प्राप्ते । इतरेषामप्राप्ते चारम्भात् ।भ्राशृ भ्लाशृ दीप्तौ॑ । फणादावेतौ ।भ्रमु चलने॑ ब्वादिः, ज्वलादिः ।फणादि॑रित्यपि मनोरमायां पठते, तद्रभसादिति नव्याः ।भ्रमु अनवस्थाने॑ दिवादिः, पुषादिः, शमादिः । तत्र ब्वादेः — भ्रम्यति भ्रमति । शमादेस्तु श्यनि दीर्घे भ्राम्यीति त्रैरूप्यम् ।क्लमु ग्लानौ॑,त्रसी उद्वेगे॑,त्रुट छेदने॑,लष कान्तौ॑ ।

Padamanjari

वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः॥ उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति।’शमामष्टानां दीर्गः श्यनि’ इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः’क्रमः परस्मैपदेषु’ इति दीर्घः। क्लमेस्तु’ष्ठिवुक्लम्वाचमां शिति’ इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः॥

Nyaas

सनोति, क्षणोति इति। षणु दाने (धातुपाठः-1464), क्षणु हिंसायाम् (धातुपाठः-1465)। नियमार्थम् इति।एतदेव तनादिकार्यं यथा स्यादित्येष नियमो यथा स्यात्। अन्यत् तनादिकार्यं तदभावम्। असति हि नियमार्थे यथान्येभ्यस्तनादिभ्यो विभाषा सिचस्तथासोर्लुग् भवति - अतत, अतथाः, अतनिष्ट, अतनिष्ठाः, तथा करोतेरपि स्यात्। अस्मस्तु सति न भवति, तदभावे च ह्रस्वादङ्गात् (8.2.27) इत्याष्टमिक एव लोपो भवति - अकृत, अकृथाः। ननु सत्यपि तस्मस्तनादिकार्ये नैव किञ्चिदनिष्टमापद्यते, अलुक्पक्षेऽपि ह्रस्वात् (8.2.27) इति लोपप्रवृत्तेः? नैतत्; नाप्राप्ते सिचो लोपे लुगारभ्यमाणस्तस्य बाधकः स्यात्। पूर्वत्रासिद्धम् (8.2.1) इत्यासिद्धत्वादयुक्ता लोपबाधेत्येतन्ाशङ्कनीयम्; यस्माद्वक्ष्यत्येतत् - नास्त्यपवादेष्वसिद्धत्वम्, अपवादवचनप्रामाण्यात् इति। यदि तर्हि करोतेरन्यत् तनादिकार्यं नेष्यते, कस्मात् तर्हि भ्वादावेव पठितः? कः पुनरेवं लाघवकृतो विशेषः। भ्वादावपि पाठे नियोगतोऽस्य विकरणविधौ ग्रहणं कर्तव्यमित्यदेश्यमेतत्॥

Prakriyasarvasvam

एभ्यः शप्स्थाने श्यन् वा स्यात् ।

Sutra Prayogas

  • त्रस्यति (किरातार्जुनीयम्): वा भ्राश- इत्यादिना विकल्पेन श्यन्प्रत्ययः।

  • त्रस्यन् (किरातार्जुनीयम्): वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः इत्यादिना श्यन्प्रत्ययः।

  • त्रस्यति (शिशुपालवधम्): वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः इति श्यन्प्रत्ययः।

  • अभिलष्यन्ती (भट्टिकाव्यम्): वा भ्राश इत्यादिना श्यन्।

  • त्रसद्भिर् (भट्टिकाव्यम्): वा भ्राश इत्यादिना विकल्पेन श्यन्।

  • चाऽभ्यलषद्वरम् (भट्टिकाव्यम्): वा भ्राश इत्यादिना श्यनो विकल्पितत्वात् पक्षे शप्।

  • आश्च्योतद् (भट्टिकाव्यम्): वा भ्राश इत्यादिना विकल्पेन शप्।

  • श्राम्यताम् (भट्टिकाव्यम्): वा भ्राश इति शप् ।

  • अत्रसः (भट्टिकाव्यम्): वा भ्राश इत्यादिना पक्षे शप्।