31071: यसोऽनुपसर्गात् ===================== **Padacheda:** यसः | S | 5 | 1 | अनुपसर्गात् | S | 5 | 1 | Sutrartha --------- **कर्तरि सार्वधातुके प्रत्यये परे अनुपसर्गात् यस्-धातोः श्यन् विकरणप्रत्ययः विकल्पेन भवति ।** यसुँ (प्रयत्ने) अयं दिवादिगणस्य धातुः । अस्मात् धातोः **दिवादिभ्यः श्यन्** इत्यनेन नित्यं श्यन्-प्रत्यये प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते । श्यन्-प्रत्ययस्य अभावे औत्सर्गिकरूपेण **कर्तरि शप्** (3.1.65) इत्यनेन शप्-प्रत्ययः भवति । यथा - यसते, यस्यते । 'यस्' धातुः उपसर्गेण सह आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः उपसर्गपूर्वस्य यस्-धातोः नित्यं श्यन्-प्रत्ययः भवति । यथा - आयस्यति, प्रयस्यति । ज्ञातव्यम् - 'सम्+यस्' इत्यत्र **संयसश्च** (3.1.72) इति अग्रिमसूत्रेण श्यन् पुनः विकल्प्यते । Sutrartha (English) ------------------- In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verb यस् when used without an उपसर्ग gets the श्यन् विकरण optionally. Vasu English Summary -------------------- The affix श्यन् is optionally used after the verb यस् 'to strive' when it is used without a preposition and when a सार्वधातुक affix denoting an agent, follows. Vasu English Translation ------------------------ The affix श्यन् is optionally used after the verb यस् 'to strive' when it is used without a preposition and when a सार्वधातुक affix denoting an agent, follows. Thus यास्यति or यसति 'he strives'. But no option is allowed in आयस्यति, प्रयस्यति. The root यस् belongs to the *Divadi* class. Bhashya ------- यसोऽनुपसर्गात् (688) (423 श्यन्विकल्पविधिसूत्रम्॥ 3.1.4 आ. 11) (आक्षेपभाष्यम्) अनुपसर्गादिति किमर्थम्?। (समाधानभाष्यम्) आयस्यति प्रयस्यति॥ (प्रत्याख्यानभाष्यम्) अनुपसर्गादिति शक्यमकर्तुम्॥ कथमायस्यति प्रयस्यतीति?॥ संयसश्च इत्येतन्नियमार्थं भविष्यति - संपूर्वादेव यसः, नान्यपूर्वात् इति॥ यसोऽनुपसर्गात्॥ 71 ॥ Kashika ------- **यसु प्रयत्ने** दैवादिकः। तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद् विकल्प उच्यते। यसोऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम् ? आयस्यति। प्रयस्यति॥ Balamanorama ------------ **यसोऽनुपसर्गात्** - यसोऽनुपसर्गात् । Tattvabodhini ------------- **यसोऽनुपसर्गात्** - यसोऽनुप । अत्र वदन्ति — यस॑ इत्येवास्तु । ततःसमः॑ । नियमार्थमिदम्, — सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति । दाहे पठित इति । व्युष दाह इति — अस्मिन्नेव गणे पठित इत्यर्थः । अङर्थमिति । दाहे पठितस्य तु सिजेव । अव्योषीत् । इति तत्त्वबोधिन्याम् दिवादयः । Padamanjari ----------- यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति।'सम्यसश्च' इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥ Prakriyasarvasvam ----------------- अनुपसर्गाद् यसः श्यन् वा स्यात् । यस्यति । अन्यत्र शप् । यसति ।