31069: दिवादिभ्यः श्यन्¶
Padacheda: दिवादिभ्यः | S | 5 | 3 |
श्यन् | S | 1 | 1 |
Sutrartha¶
सार्वधातुके कर्तरि प्रत्यये परे दिवादिगणस्य धातोः परः श्यन्-प्रत्ययः विधीयते ।
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे दिवादिगणस्य धातोः परः ‘श्यन्’ इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे नकारस्य हलन्त्यम् (1.3.3) तथा शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवति, ततः तयोः तस्य लोपः (1.3.9) इत्यनेन लोपः भवति । अतः केवलम् ‘य’ इति अवशिष्यते । यथा - 1) नृत्-इति दिवादिगणस्य धातुः । ‘तिप्’ इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्यये परे ‘नृत् + ति’ इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति, अतः ‘नृत्यति’ इति रूपं सिद्ध्यति । 2) क्रुध्-इति दिवादिगणस्य धातुः । ‘शतृ’ इति सार्वधातुकप्रत्यये परे ‘क्रुध् + शतृ’ इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति । ‘क्रुध्य + अत्’ इति स्थिते अतो गुणे (6.1.97) अनेन सूत्रेण यकारात्-परस्य अकारस्य तथा ‘अत्’ इत्यस्य अकारस्य एकः पररूप-एकादेशः अकारः भवति, अतः ‘क्रुध्यत्’ इति प्रातिपदिकम् सिद्ध्यति । ज्ञातव्यम् - कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । दिवादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्यन्-प्रत्ययः भवति ।
Sutrartha (English)¶
A verb belonging to the दिवादिगण gets the विकरणप्रत्यय ‘श्यन्’ in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
Vasu English Summary¶
The affix श्यन् comes after a root of the दिवादि class when a सार्वधातुक affix denoting the agent follows.
Vasu English Translation¶
The affix श्यन् comes after a root of the दिवादि class when a सार्वधातुक affix denoting the agent follows. This debars शप्. The servile न of श्यन् is for the sake of accent (6.1.197), showing that the udatta accent falls on the radical verb and not on the affix; and the indicatory श makes the affix sarvadhatuka; as दिव् + श्यन् + तिप् = दीव् + य + ति (7.2.77) = दीव्यति; so also सीव्यति. The Divadi verbs belong to the Fourth conjugation.
Kashika¶
दिव् इत्येवमादिभ्यो धातुभ्यः श्यन् प्रत्ययो भवति। शपोऽपवादः। नकारः स्वरार्थः, शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति॥
Siddhanta Kaumudi¶
{$ {!1107 दिवु!} क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु$} । झृषन्ताः परस्मैपदिनः ॥ शपोऽपवादः । हलि च (SK354) इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ।{$ {!1108 षिवु!} तन्तुसन्ताने$} । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् ।{$ {!1109 स्रिवु!} गतिशोषणयोः$} ।{$ {!1110 ष्ठिवु!} निरसने$} । केचिदिहेमं न पठन्ति ।{$ {!1111 ष्णुसु!} अदने$} । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस ।{$ {!1112 ष्णसु!} निरसने$} । स्नस्यति । सस्नाम ।{$ {!1113 क्नसु!} ह्वरणदीप्त्योः$} । ह्वरणं कौटिल्यम् । चक्नास ।{$ {!1114 व्युष!} दाहे$} । वुव्योष ।{$ {!1115 प्लुष!} दाहे$} ।{$ {!1116 नृती!} गात्रविक्षेपे$} । नृत्यति । ननर्त ॥
Laghu Siddhanta Kaumudi¶
॥ {$ {! 1 दिवु !} क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु $} (धातुपाठे (04.0001)) ॥ शपोऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं ॥ {$ {! 2 षिवु !} तन्तुसन्ताने $} (धातुपाठे (04.0002)) ॥ {$ {! 3 नृती !} गात्रविक्षेपे $} (धातुपाठे (04.0010)) ॥ नृत्यति। ननर्त। नर्तिता॥
Balamanorama¶
दिवादिभ्यः श्यन् - दिवादिभ्यः ।कर्तरि श॑बित्यतः कर्तरिति,सार्वधातुके य॑गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह — शपोऽपवाद इति । शकारनकारावितौ । दिव् यतीति स्थिते आह — हलि चेति दीर्घ इति । श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः । दीव्यतः दीव्यन्तीत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति — देवितेति । षिनुधातुरपि सेट् । षोपदेशः । दिवुधातुवदस्य रूपाणि.परिषीव्यतीति ।परिनिविभ्यः सेवे॑ति षत्वमिति भावः । परिषिषेवेति ।स्थादिष्वेवाभ्यासस्ये॑ति नियमस्तु न, तत्रप्राक्सिता॑दित्यनुवृत्तेरितिभावः ।सिवादीनां वाऽड्व्यवायेऽपी॑ति मत्वाह — न्यषेवीत् न्यसेवीदिति । रिउआवुधातुस्तु रेफवान् । ष्ठिवु निरसने इति ।सुब्दातुष्वक्कष्ठीवा॑मिति न सत्वम् । ष्ठीव्यतीत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि । ष्णसुधातुश्च षोपदेशः । नृती गात्रेति । ‘श्वीदितः’ इत्याद्यार्थमीदित्त्वम् । सेडयम् ।
Padamanjari¶
दिवादिभ्यः श्यन्॥’मृग अन्वेषणे’ इति चुरादावदन्तेष्वात्मनेदी पठ।ल्ते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः॥
Nyaas¶
शपोऽपवादः इति। तत्प्राप्तावेवास्यारम्भात्। नकारः स्वरार्थः इति। ञ्नित्यादिर्नित्यम् (6.1.197) इति पदस्याद्युदात्तत्वं यथा स्यात्। दीव्यति इति। हलि च (8.2.77) इति दीर्घः॥
Prakriyasarvasvam¶
एभ्यः शब्विषये श्यन् स्यात् । शनावितौ । अतो गुणे । सम्पद्यः सम्पत्ता । घ्राधातोः संज्ञायां शो न । व्याघ्रः । आघ्रा नासिका । ‘आतश्च—’ (३-१-१३६) इति कः ।
Sutra Prayogas¶
श्रियं-मन्या (भट्टिकाव्यम्): दिवादिभ्यः श्यन् इति श्यन्-विकरणः।
अस्यमानं (भट्टिकाव्यम्): दिवादिभ्यः श्यन् इति श्यन्।