31069: दिवादिभ्यः श्यन् ======================= **Padacheda:** दिवादिभ्यः | S | 5 | 3 | श्यन् | S | 1 | 1 | Sutrartha --------- **सार्वधातुके कर्तरि प्रत्यये परे दिवादिगणस्य धातोः परः श्यन्-प्रत्ययः विधीयते ।** किम् नाम सार्वधातुकप्रत्ययः? **तिङ्शित्सार्वधातुकम्** (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? **लः कर्मणि च भावे च अकर्मकेभ्यः** (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे दिवादिगणस्य धातोः परः 'श्यन्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे नकारस्य **हलन्त्यम्** (1.3.3) तथा शकारस्य **लशक्वतद्धिते** (1.3.8) इत्यनेन इत्संज्ञा भवति, ततः तयोः **तस्य लोपः** (1.3.9) इत्यनेन लोपः भवति । अतः केवलम् 'य' इति अवशिष्यते । यथा - 1) नृत्-इति दिवादिगणस्य धातुः । 'तिप्' इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्यये परे 'नृत् + ति' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति, अतः 'नृत्यति' इति रूपं सिद्ध्यति । 2) क्रुध्-इति दिवादिगणस्य धातुः । 'शतृ' इति सार्वधातुकप्रत्यये परे 'क्रुध् + शतृ' इत्यत्र अनेन सूत्रेण श्यन्-प्रत्ययः भवति । 'क्रुध्य + अत्' इति स्थिते **अतो गुणे** (6.1.97) अनेन सूत्रेण यकारात्-परस्य अकारस्य तथा 'अत्' इत्यस्य अकारस्य एकः पररूप-एकादेशः अकारः भवति, अतः 'क्रुध्यत्' इति प्रातिपदिकम् सिद्ध्यति । ज्ञातव्यम् - **कर्तरि शप्** (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । दिवादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्यन्-प्रत्ययः भवति । Sutrartha (English) ------------------- A verb belonging to the दिवादिगण gets the विकरणप्रत्यय 'श्यन्' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग. Vasu English Summary -------------------- The affix श्यन् comes after a root of the दिवादि class when a सार्वधातुक affix denoting the agent follows. Vasu English Translation ------------------------ The affix श्यन् comes after a root of the दिवादि class when a सार्वधातुक affix denoting the agent follows. This debars शप्. The servile न of श्यन् is for the sake of accent (6.1.197), showing that the *udatta* accent falls on the radical verb and not on the affix; and the indicatory श makes the affix *sarvadhatuka*; as दिव् + श्यन् + तिप् = दीव् + य + ति (7.2.77) = दीव्यति; so also सीव्यति. The *Divadi* verbs belong to the Fourth conjugation. Kashika ------- दिव् इत्येवमादिभ्यो धातुभ्यः श्यन् प्रत्ययो भवति। शपोऽपवादः। नकारः स्वरार्थः, शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति॥ Siddhanta Kaumudi ----------------- {$ {!1107 दिवु!} क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु$} । झृषन्ताः परस्मैपदिनः ॥ शपोऽपवादः । हलि च (SK354) इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ।{$ {!1108 षिवु!} तन्तुसन्ताने$} । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् ।{$ {!1109 स्रिवु!} गतिशोषणयोः$} ।{$ {!1110 ष्ठिवु!} निरसने$} । केचिदिहेमं न पठन्ति ।{$ {!1111 ष्णुसु!} अदने$} । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस ।{$ {!1112 ष्णसु!} निरसने$} । स्नस्यति । सस्नाम ।{$ {!1113 क्नसु!} ह्वरणदीप्त्योः$} । ह्वरणं कौटिल्यम् । चक्नास ।{$ {!1114 व्युष!} दाहे$} । वुव्योष ।{$ {!1115 प्लुष!} दाहे$} ।{$ {!1116 नृती!} गात्रविक्षेपे$} । नृत्यति । ननर्त ॥ Laghu Siddhanta Kaumudi ----------------------- ॥ {$ {! 1 दिवु !} क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु $} (धातुपाठे (04.0001)) ॥ शपोऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं ॥ {$ {! 2 षिवु !} तन्तुसन्ताने $} (धातुपाठे (04.0002)) ॥ {$ {! 3 नृती !} गात्रविक्षेपे $} (धातुपाठे (04.0010)) ॥ नृत्यति। ननर्त। नर्तिता॥ Balamanorama ------------ **दिवादिभ्यः श्यन्** - दिवादिभ्यः ।कर्तरि श॑बित्यतः कर्तरिति,सार्वधातुके य॑गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह — शपोऽपवाद इति । शकारनकारावितौ । दिव् यतीति स्थिते आह — हलि चेति दीर्घ इति । श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः । दीव्यतः दीव्यन्तीत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति — देवितेति । षिनुधातुरपि सेट् । षोपदेशः । दिवुधातुवदस्य रूपाणि.परिषीव्यतीति ।परिनिविभ्यः सेवे॑ति षत्वमिति भावः । परिषिषेवेति ।स्थादिष्वेवाभ्यासस्ये॑ति नियमस्तु न, तत्रप्राक्सिता॑दित्यनुवृत्तेरितिभावः ।सिवादीनां वाऽड्व्यवायेऽपी॑ति मत्वाह — न्यषेवीत् न्यसेवीदिति । रिउआवुधातुस्तु रेफवान् । ष्ठिवु निरसने इति ।सुब्दातुष्वक्कष्ठीवा॑मिति न सत्वम् । ष्ठीव्यतीत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि । ष्णसुधातुश्च षोपदेशः । नृती गात्रेति । 'श्वीदितः' इत्याद्यार्थमीदित्त्वम् । सेडयम् । Padamanjari ----------- दिवादिभ्यः श्यन्॥'मृग अन्वेषणे' इति चुरादावदन्तेष्वात्मनेदी पठ।ल्ते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः॥ Nyaas ----- `शपोऽपवादः` इति। तत्प्राप्तावेवास्यारम्भात्। `नकारः स्वरार्थः` इति। **ञ्नित्यादिर्नित्यम्** (6.1.197) इति पदस्याद्युदात्तत्वं यथा स्यात्। `दीव्यति` इति। `हलि च` (8.2.77) इति दीर्घः॥ Prakriyasarvasvam ----------------- एभ्यः शब्विषये श्यन् स्यात् । शनावितौ । अतो गुणे । सम्पद्यः सम्पत्ता । घ्राधातोः संज्ञायां शो न । व्याघ्रः । आघ्रा नासिका । ‘आतश्च—’ (३-१-१३६) इति कः । Sutra Prayogas -------------- * **श्रियं-मन्या** (भट्टिकाव्यम्): `दिवादिभ्यः श्यन्` इति श्यन्-विकरणः। * **अस्यमानं** (भट्टिकाव्यम्): `दिवादिभ्यः श्यन्` इति श्यन्।