31068: कर्तरि शप्

Padacheda: कर्तरि | S | 7 | 1 |

शप् | S | 1 | 1 |

Sutrartha

सार्वधातुके कर्तरि प्रत्यये परे धातोः परः शप्-प्रत्ययः विधीयते ।

किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे धातोः परः औत्सर्गिकरूपेण ‘शप्’ इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे पकारस्य हलन्त्यम् (1.3.3) तथा शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवति, ततः तयोः तस्य लोपः (1.3.9) इत्यनेन लोपः भवति । अतः केवलम् ‘अ’ इति अवशिष्यते । उदाहरणम् - 1) तिङ्-प्रत्ययः - ‘पठ् + ति’ इत्यत्र कर्तरि शप् (3.1.68) इत्यनेन शप्-प्रत्ययः विधीयते । पठ् + अ + ति = पठति । 2) शित्-प्रत्ययः - ‘पठ् + शतृ’ इत्यत्र कर्तरि शप् (3.1.68) इत्यनेन शप्-प्रत्ययः विधीयते । ‘पठ् + अ + अत्’ इति प्राप्ते अतो गुणे (6.1.97) इत्यनेन द्वयोः अकारयोः एकः पररूपः अकारः भूत्वा ‘पठत्’ इति प्रातिपदिकं सिद्ध्यति । ज्ञातव्यम् - शप्-इत्यस्य भिन्नेषु धातुगणेषु श्यन्, श्नु, श आदयः अपवादाः विधीयन्ते । तेषां विषये दिवादिभ्यः श्यन् (3.1.69) इत्यतः कुषिरजोः प्राचां श्यन् परस्मैपदं च (3.1.90) इति यावत्सु सूत्रेषु पाठितम् अस्ति ।

Sutrartha (English)

A verb gets the विकरणप्रत्यय ‘शप्’ in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.

Vasu English Summary

The affix शप् comes after a root when a सार्वधातुक follows, signifies the agent.

Vasu English Translation

The affix शप् comes after a root when a सार्वधातुक follows, signifies the agent. In active voice, शप् is employed in the conjugational tenses. This affix, which is technically called a विकरण comes after roots of the भू class and after compound roots formed by सन् &c. (3.1.32). The indicatory श makes it a सार्वधातुक affix by (III.4. II3), the प् indicates that the vowel has anudatta accent (3.1.4). As भू + शप् + तिप् = भू + अ + ति = भो + अ + ति = भवति. (7.3.84). So also पचति.

Kashika

कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययो भवति। पकारः स्वरार्थः, शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति॥

Siddhanta Kaumudi

कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥

Laghu Siddhanta Kaumudi

कर्त्रर्थे सार्वधातुके परे धातोः शप्॥

Balamanorama

कर्तरि शप् - कर्तरि शप् ।सार्वधातुके य॑गित्यस्मात्सार्वधातुक इत्यनुवर्तते ।धातोरेकाचो हलादे॑रित्यस्माद्धातोरिति । तदाह — कत्र्रर्थ इत्यादिना । तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा । शपाविताविति । शकारपकारौ ‘लशक्वतद्धिते’ इतिहलन्त्य॑मिति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः ।

Tattvabodhini

कर्तरि शप् - ॒सार्वधातुके य॑ गित्यतः सार्वधातुक इत्यनुवर्तते,धातोरेकाचःर॑ इति सूत्राद्धातोरिति च, तदाह — कत्र्रर्थ इत्यादि ।

Padamanjari

कर्तरि शप्॥ पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङ्त्विप्रतिषेधार्थः,’शप्श्यनोर्नित्यम्’ इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य’कर्मवत्कर्मणा’ इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्तर्येव शबादयो भविष्यन्ति॥

Nyaas

` पकारः स्वरार्थः` इति। अनुदात्तौ सुप्पितौ (3.1.4) इत्यनुदात्तत्वं यथा स्यात्। शकारः सार्वधातुकसंज्ञार्थः इति। तिङशित्सार्वधातुकम् (3.4.113) इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्॥

Prakriyasarvasvam

कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शित्त्वफलं प्राग्वत् । पित्त्वं गुणार्थमिति वक्ष्यते । पा अ अ ।