31060: चिण् ते पदः ================== **Padacheda:** चिण् | S | 1 | 1 | ते | S | 7 | 1 | पदः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- चिण् is the substitute of च्लि after the verb पद् 'to go' when the affix त follows. Vasu English Translation ------------------------ चिण् is the substitute of च्लि after the verb पद् 'to go' when the affix त follows. The affix त here means the third person singular tense-affix of the *Atmanepada*; as अपादि 'he went'; but not so in the dual and plural; as अपसाताम् 'they two went'; अपत्सत् 'they went'; अट् + पद + चिण् + त = अ + पाद् + त = अपादि (the affix त being elided by rule (6.4.104)). Bhashya ------- चिण्ते पदः (677) (420 च्लेश्चिणादेशविधिसूत्रम्॥ 3.1.4 आ. 8) (तप्रत्ययनिर्णयाधिकरणम्) (अनुयोगभाष्यम्) अयं तशब्दोस्त्येवात्मनेपदम्, अस्ति परस्मैपदम्, अस्त्येवैकवचनम्, अस्ति बहुवचनम्। कस्येदं ग्रहणम्?। (उत्तरभाष्यम्) यः पदेरस्ति। कश्च पदेरस्ति?। पदिरयमात्मनेपदी॥ चिण् ते॥ 60 ॥ Kashika ------- **पद गतौ** अस्माद् धातोः परस्य च्लेश्चिणादेशो भवति तशब्दे परतः। सामर्थ्यादा — त्मनेपदैकवचनं गृह्यते। उदपादि सस्यम्। समपादि भैक्षम्। त इति किम्? उदपत्साताम्। उदपत्सत॥ Siddhanta Kaumudi ----------------- पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् ।{$ {!1170 खिद!} दैन्ये$} । खिद्यते । चिखिदे । खेत्ता । अखित्त ।{$ {!1171 विद!} सत्तायाम्$} । विद्यते । वेत्ता ।{$ {!1172 बुध!} अवगमने$} । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ।{$ {!1173 युध!} संप्रहारे$} । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] इति वा ।{$ {!1174 अनो!} रुध कामे$} । अनुरुध्यते ।{$ {!1175 अण!} प्राणने$} । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके ।{$ {!1176 मन!} ज्ञाने$} । मन्यते । मेने । मन्ता ।{$ {!1177 युज!} समाधौ$} । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता ।{$ {!1178 सृज!} विसर्गे$} । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ - (SK2300) इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् ।{$ {!1179 लिश!} अल्पीभावे$} । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥ अथागणान्ताः परस्मैपदिनः ॥{$ {!1180 राधो!} ऽकर्मकाद्वृद्धावेव $}। एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् (SK2532) इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च ।{$ {!1181 व्यध!} ताडने$} । ग्रहिज्या (SK2412) इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ।{$ {!1182 पुष!} पुष्टौ$} । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि (SK2343) इत्यङ् । अपुषत् ।{$ {!1183 शुष!} शोषणे$} । अशुषत् ।{$ {!1184 तुष!} प्रीतौ$} ।{$ {!1185 दुष!} वैकृत्ये$} ।{$ {!1186 श्लिष!} आलिङ्गने$} । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥ Laghu Siddhanta Kaumudi ----------------------- पदश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत॥ {$ {! 22 विद !} सत्तायाम् $} (धातुपाठे (04.0067)) ॥ विद्यते। वेत्ता। अवित्त॥ {$ {! 23 बुध !} अवगमने $} (धातुपाठे (04.0068)) ॥ बुध्यते। बोद्धा। भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध। अभुत्साताम्॥ {$ {! 24 युध !} संप्रहारे $} (धातुपाठे (04.0069)) ॥ युध्यते। युयुधे। योद्धा। अयुद्ध॥॥ {$ {! 25 सृज !} विसर्गे $} (धातुपाठे (04.0075)) ॥ सृज्यते। ससृजे। ससृजिषे॥ Balamanorama ------------ **चिण् ते पदः** - चिण् ते पदः । पदश्च्लेरिति ।च्लेः सि॑जित्यत श्च्लेरित्यनुवर्तते इति भावः । तशब्दे इति । आत्मनेपदप्रथमैकवचनने इत्यर्थः । इदं च भाष्ये स्पष्टम् । प्रण्यपादीति । श्लेश्चिणि उपधावृद्धौचिणो लु॑गितितशब्दस्य लोपः ।नेर्गदे॑ति णत्वमिति भावः । विद सत्तायाम् । वेत्तेति । अनिडिति भावः । लिटि क्रादिनियमादिट् । एवं बुधष्टेति । 'लिङ्सिचौ' इति कित्त्वम् ।दीपजने॑ति चिण्विकल्पं मत्वा आह — अबोधि अबुद्धेति । कथं युध्यतीति । आत्मनेपदित्वादिति भावः । समाधत्ते — युधमिति । युध्शब्दो भावक्विबन्तः । युधमिच्थीत्यर्थे 'सुप आत्मनः' इति क्यजन्तात्परस्मैपदमित्यर्थः ।अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्य॑मिति समाधानं त्वनुचितं, तस्य भाष्याऽदृष्टत्वेनाऽप्रामाणिकत्वात् । अत एवव्यत्ययो बहुल॑मिति सूत्रभाष्येप्रतीपमन्य ऊर्मिर्युध्यती॑त्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुधेति । अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तत इत्यर्थः । युज समाधौ । अनिट् । अकर्मक इति । चित्त्वृत्तेर्धात्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति,सृजियुज्योः सकर्मकयोः कर्मवद्भाव॑ इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्र#इयायां वक्ष्यते । लिटआह — ससृजिषे इति । क्रादिनियमादिडिति भावः । रुआष्टेति ।सृजिदृशोर्झल्यमकिती॑त्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । रुआक्ष्यते इति । पूर्वपदमि जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । आशीर्लिङि आह — सृक्षीष्टेति । अत्र लघूपधगुणमाशङ्क्याह -लिङ्सिचाविति । नाप्यमिति ।सृजिदृशोर्झल्य॑मित्यमपि नास्तीत्यर्थः । अकित्ये तद्विधानादिति भाव । लुङ्याह — असृष्टेति ।झलो झली॑ति सिचो लोपः ।लिङ्सिचावात्मनपदेषु॑ इति सिचः कित्त्वान्न गुणो नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधा॑दिति क्सः । आगणान्तादिति । दिवादिगसमाप्तिपर्यन्तमित्यर्थः । राधोऽकर्मकाद्वृद्धावेवेति । श्य॑न्निति शेषः । राधधातोरकर्मकाद्वृद्धावेवाऽर्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् स्यात् । इष्यते हिअपराध्यती॑त्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह — एवकारो भिन्नक्रम इति । यस्मिन् कमे वृद्धावित्यत ऊध्र्वम एवकारः पठितः, ततोऽन्यः कमो यस्य स भिन्नक्रम इत्यर्थः ।वृद्धा॑वित्यत ऊध्र्वं पठित एवाकरोऽन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति — राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति ।शत्रुं हिनस्ती॑त्यर्ते शत्रुमपराध्नोतीत्यत्र सकर्मकत्वान्न श्यन्निति भाव- । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्क्य अकर्मकक्रिया एवं विधेति प्रदर्शनार्थं तत्, नतु परिसङ्ख्यानार्थमित्याह — उदाहरणमाह — वृद्धावितीति । एवं च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः । तथाविधाऽर्थान्तराण्युदाहरति — यन्मह्रमित्यादिना ।क्रुधद्रुहे॑ति संप्रदानत्वम् । कृष्णाय राध्यतीति ।राधीक्ष्योर्यस्य विप्रश्नःर॑ इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानां शुभमशुभं वेति पृष्टो दैवज्ञस्तस्य शुभाऽशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह — दैवस्येति । ननुराधोऽकर्मकाद्वृद्धावेवे॑त्यत्र वृद्धिग्रहमस्यौपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकतवाद्रराधतुरित्यादौराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाऽभ्यासलोपौ स्यातामित्यत आह — राध इति । इह नेति.रराधतुरित्यादौ राधेर्हिंसार्थकत्वेराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत आह — हिंसार्थस्येति । नोन्मिषत्येवैषा शङ्का, राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाऽभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति राधयतीति कथमित्यत आह — अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमान्नित्यमिट्, दीर्घाकारवत्त्वेन 'उपदेशेऽत्वतः' इत्यस्याऽप्रवृत्तेः, अजन्तोऽकारवानित्यत्र च ह्रस्वाऽकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वात्ग्रहिज्ये॑ति यकारस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणं ,न संप्रासरणे संप्रसारण॑मिति निषेधात् । विव्याधेति । द्वित्वे कृते अभ्यासस्यलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । विविधतुरिति । परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्याह — विव्यधिथ विव्यद्धेति ।लिटभ्यासस्ये॑ति संप्रसारणम् । अनिट्पक्षेझषस्तथो॑रिति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्ठौ । अनिट् । पुपोषिथेति । अजन्ताऽकारवत्त्वाऽभावाक्रादिनियमान्नित्यमिट् । अपुषदिति । पुषाद्यङ् ।ङित्त्वान्न गुणः । शुष धातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेपि । तुष् दुष् श्लिष् — एतेऽनिटः । लुङि स्लिषश्च्लेः सिजादेशे प्राप्ते - Tattvabodhini ------------- **चिण् ते पदः** - चिण् ते पदः । तशब्द इति । सामर्थ्यादात्मनेपदप्रथमपुरुषैकवचनम् । तशब्दे किम् । अपत्थाः । प्रण्यपादीति ।चिणो लु॑गिति तशब्दस्य लुक् ।नेर्गदे॑ति णत्वम् । अबोधीति ।दीपजनबुधे॑ति चिण् । अनो रुध कामे । अनोः परो रुधधातुः कामे इच्छा । दिवादिषु पाठसामर्थ्यात्रुधादिभ्यः॑ इति श्नमं बाधित्वा श्यन् । नाप्यमिति ।सृजिदृशोर्झल्यमकिती॑त्यकित्येव विधानात् । लिश । आतपादिनाऽनल्पस्य अल्पभावोऽल्पीभावः । लिक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधे॑ति क्सः । राधोऽकर्मकात् । भिन्नक्रमं दर्शयति — अकर्मकादेवेति ।राधो वृद्धावेव श्य॑न्निति व्याख्यायामकर्मकादिति विशेषणं व्यर्थं स्यात्, वृद्धावस्याऽकर्मकत्वात् । अकर्मकात्किम् । शत्रुमपराध्नोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ ।राधो हिसाया॑मित्यनुवादार्द्धिसायामप्ययम् । उदाहरणमाहेति । अकर्मकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः । अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति- यन्मह्रमित्यादिना । कृष्णायेति । राधीक्ष्यो॑रिति चतुर्थी । अपुषदिति । ङित्तवाद्गुणाऽभावः । शुष । शोष्टा । शोक्ष्यति ।श्लिष आलिङ्गने॑ इति सूत्रं योगविभागेन व्याचष्टे - श्लिष इति । Padamanjari ----------- चिण् ते पदः॥ सामर्थ्यादिति। धातोरात्मनेपदित्वात्परस्मैपदबहुवचनस्य स्थाने यस्तशब्दः'तस्थस्थमिपाम्' इति विहितः, तस्यास्मिन्विषयेऽसम्भवः। सामर्थ्यादुदपादीति।'चिणो लुक्' । उदपत्सतेति। ठात्मनेपदेष्वनतःऽ इत्यदादेशः। इह वेति निवृतम्; उतरत्रान्यतरस्यां ग्रहणात्॥ Nyaas ----- `सामर्थ्यात्` इत्यादि। तशब्दो। ञयमस्त्येवात्मनेपदैकवचम्, अस्ति च परस्मैपदमध्यमपुरुषबहुवचनं यस्यस्य स्थाने विधीयते; तत्रास्य धातोरात्मनेपदित्वात् परस्मैपदबहुवचनं न सम्भवति, अतः पारिशेष्यावात्मनेपदैकवचनस्य ग्रहणम्। इयमेव च पारिशेष्यसिद्धिः सामर्थ्यम्। `उदपादि` इति। **चिणो लुक्** (6.4.104) इति तशब्दस्य लुक्। `उदपत्साताम्` इति। आताम्, `खरि च` (8.4.54) इति चत्त्र्वम्। `उदपत्सत` इति। झे **आत्मनेपदेष्वनतः** (7.1.5) इत्यदादेशः। इह वेति निवृत्तम्। उत्तरत्रान्यतरस्यांग्रहणात्॥ Prakriyasarvasvam ----------------- एकवचने तशब्दे पदे पदश्च्लेः चिण् स्यात् । अपादि । अपत्साताम् । अपस्तत । 'झलो झलि' । अपत्थाः । अपद्ध्वम् । अपत्सि । अपत्स्वहि । लिटि पेदे । पेदिषे । पेदिध्वे । पत्सीष्ट । पत्ता । पत्स्यते । अस्य कर्मण्यपि न भेदः । असु क्षेपणे । अस्यति । (वा०) इति वा तङ् । निरस्यति, निरस्यते । लुङि 'अस्यतिवक्ति—' इत्यङ् । स च तङ्यपि स्यादित्युक्तम् । Sutra Prayogas -------------- * **व्युदपादि** (शिशुपालवधम्): `चिण् ते पदः` इति चिण्प्रत्ययः। * **समपादि** (शिशुपालवधम्): `चिण् ते पदः` इति चिण् प्रत्ययः। * **आपादि** (भट्टिकाव्यम्): `चिण् ते पदः` इति च्लेश्चिणादेशः। * **आपादि** (भट्टिकाव्यम्): `चिण् ते पदः` इति चिण्।