31045: शल इगुपधादनिटः क्सः ========================== **Padacheda:** शलः | S | 5 | 1 | इगुपधात् | S | 5 | 1 | अनिटः | S | 6 | 1 | क्सः | S | 1 | 1 | Sutrartha --------- **यः शल्-वर्णान्तः इगुपधः अनिट्-धातुः, तस्मात् परस्य च्लि-प्रत्ययस्य क्स-आदेशः भवति ।** लुङ्लकारस्य विषये धातोः **च्लि लुङि** (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य **च्लेः सिच्** (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु यः धातुः अनिट् अस्ति, यस्य अन्ते शल्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - श्/ ष् / स् / ह् - एतेषु कश्चन वर्णः अस्ति) तथा उपधायाम् इक्-प्रत्याहारस्य वर्णः अस्ति (इत्युक्ते - इ, उ, ऋ, ऌ - एतेषु कश्चन वर्णः अस्ति), तस्मात् परस्य च्लि-विकरणस्य वर्तमानसूत्रेण 'क्स' आदेशः भवति । धातुपाठे एतादृशाः अनिट्-इगुपध-शलन्त-धातवः आहत्य सप्तदश सन्ति - [शकारान्ताः] - दिश्, विश्, रिश्, लिश्, मुश्, क्रुश् , रुश्, स्पृश् [षकारान्ताः] - त्विष्, द्विष्, श्लिष्, कृष् [सकारान्ताः न सन्ति ।] [हकारान्ताः] - मिह्, लिह्, दिह्, दुह्, रुह् । एतेषां सर्वेषां विषये अनेन सूत्रेण च्लि-इत्यस्य क्स-आदेशः भवति । धातुपाठे गुह्, गृह्, बृह्, तृह् स्तृह् - एते पञ्च वेट्-धातवः अपि इगुपध-शलन्ताः सन्ति । अतः एतेषां प्रयोगः यदा 'अनिट्' रूपेण क्रियते तदा एतेषां परस्य च्लि-प्रत्ययस्य क्स-आदेशः विधीयते । अत्र त्रयः बिन्दवः ज्ञातव्याः - 1. **श्लिष आलिङ्गने** (3.1.46) इत्यनेन श्लिष्-धातोः केवल् 'आलिङ्गन' अस्मिन् अर्थे एव क्स-आदेशः विधीयते, अन्येषु अर्थेषु न । 2. **न दृशः** (3.1.47) इत्यनेन दृश्-धातोः क्स-प्रत्ययः न भवति । 3. । अनेन वार्तिकेन स्पृश्, मृश्, कृष्, तृप्, दृप् - एतेषां विषये च्लि-इत्यस्य विकल्पेन 'सिच्' आदेशः अपि भवति । (स्पृश्, मृश् कृष् - एतेषाम् विषये वर्तमानसूत्रेण च्लि-इत्यस्य क्स-आदेशे प्राप्ते अनेन वार्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति । तृप्, दृप् - एतयोः विषये **पुषादिद्युताद्यॢदितः परस्मैपदेषु** (3.1.55) इत्यनेन अङ्-आदेशे प्राप्ते तस्य अपवादत्वेन अनेन वार्त्तिकेन विकल्पेन 'सिच्' आदेशः अपि भवति ।) 'क्स' अयमादेशः 'कित्' अस्ति, अतः गुणवृद्धिनिषेधादीनि कार्याणि अस्मिन् प्रत्यये परे दृश्यन्ते । कानिचन उदाहरणानि एतानि - 1. लिह्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लिह् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → लिह् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → लिह् + क्स + ल् [**शल इगुपधादनिटः क्सः** (3.1.45) इति क्स-आदेशः । कित्वात् **क्ङिति च** (1.2.5) इति लघूपधगुणनिषेधः ] → लिह् + स + ल् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → अट् + लिह् + स + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ + लिह् + स + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + लिह् + स + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अ + लिढ् + स + त् [**हो ढः** (8.2.31) इति हकारस्य ढकारः] → अ + लिक् + स + त् [**षढोः क सि**(8.2.41) इति ककारः] → अ + लिक् + ष + त् [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] → अलिक्षत् । 2. द्विष् -धातोः लुङ्लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् - द्विष् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → द्विष् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → द्विष् + क्स + ल् [**शल इगुपधादनिटः क्सः** (3.1.45) इति क्स-आदेशः । कित्वात् **क्ङिति च** (1.2.5) इति लघूपधगुणनिषेधः ] → द्विष् + स + ल् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → अट् + द्विष् + स + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ + द्विष् + स + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → अ + द्विक् + स + त [**षढोः क सि**(8.2.41) इति ककारः] → अ + द्विक् + ष + त [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] → अद्विक्षत 3. दिश्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - दिश् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → दिश् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → दिश् + क्स + ल् [**शल इगुपधादनिटः क्सः** (3.1.45) इति क्स-आदेशः । कित्वात् **क्ङिति च** (1.2.5) इति लघूपधगुणनिषेधः ] → दिश् + स + ल् [ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → अट् + दिश् + स + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ + दिश् + स + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + दिश् + स + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अ + दिष् + स + त् [**व्रस्चभ्रस्ज...** (8.2.36) इति षत्वम्] → अ + दिक् + स + त् [**षढोः क सि**(8.2.41) इति ककारः] → अ + दिक् + ष + त् [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] → अदिक्षत् Sutrartha (English) ------------------- The च्लि प्रत्यय that follows a शल्-वर्णान्त, इगुपध and अनिट्-धातु is converted to 'क्स. Vasu English Summary -------------------- After a verb that ends in a शल consonant and has an इक् vowel for its penultimate letter and does not take इट् -- एकाच उपदेशेऽनुदात्तात् (7.2.10), क्स is the substitute of च्लि। Vasu English Translation ------------------------ After a verb that ends in a शल consonant and has an इक् vowel for its penultimate letter and does not take इट् -- एकाच उपदेशेऽनुदात्तात् (7.2.10), क्स is the substitute of च्लि। The forms of the terminations of the Aorist with क्स are as follow: *Parasmaipada*. - 1st person, सं, साव, साम् - 2nd person, सः, सत, सत - 3rd person, सत्, सतां, सत् *Almanepada*. - सि, सीवहि, सीमहि - सथाः, थाः, साथाम्, सध्वम्, ध्वम् - सत, त, सातां, सन्त As, मृश and कृष् in the last *sutra* have their Aorist with क्स as अमृक्सत् and अकृषत्; so दुह 'to milk' forms अधुक्षत् 'he milked', लिड् 'to lick' अलिक्षत्. Why do we say 'when ending in श, ष, and ह'? Observe अभैत्सीत्, अच्छैत्सीत्; here सिच् is employed. Why do we say 'having for its penultimate इ, उ, ऋ or लृ'? Observe अधाक्षीत्. Why do we say 'not having an intermediate इ'? Observe अकोषीत् an अमोषीत्. See (7.2.4) and (8.2.28). Bhashya ------- शल इगुपधादनिटः क्सः (662) (415 च्लेः क्सादेशविधिसूत्रम्॥ 3.1.4 आ. 3) (1839 आक्षेपवार्तिकम्॥ 1 ॥) - क्सविधान इगुपधाभावः च्लेर्गुणनिमित्तत्वात्- (भाष्यम्) क्सविधाने इगुपधत्वस्याभावः। किं कारणम्?। च्लेर्गुणनिमित्तत्वात्। च्लिर्गुणस्य निमित्तम्। तत्र च्लावेव गुणे कृते इगुपधात् - इति क्सो न प्राप्नोति॥ (1840) समाधानवार्तिम्॥ 2 ॥) - न वा क्सस्याऽनवकाशत्वादपवादो गुणस्य- (भाष्यम्) न वा एष दोषः। किं कारणम्?। क्सस्यानवकाशत्वात्। अनवकासः क्सो गुणं बाधिष्यते॥ (1841 आक्षेपवार्तिकम्॥ 3 ॥) - अनिड्वचनमविशेषणं च्लेर्नित्यादिष्टत्वात्- (भाष्यम्) अनिड्वचनमविशेषणम्। किं कारणम्। च्लेर्नित्यादिष्टत्वात्। नित्यादिष्टः च्लिः न क्वचित् श्रूयते। तत्र च्लेरनिट इति क्सो न प्राप्नोति। (1842 दूषणपरिहारवार्तिकप्रथमखण्डम्॥ 4 ॥) - न वा क्सस्य सिजपवादत्वात् तस्य चानिडाश्रयत्वादनिटि प्रसिद्धे क्सविधिः- (भाष्यम्) न वैष दोषः। किं कारणम्?। क्सस्य सिजपवादत्वात्। सिजपवादः क्सः। स चानिडाश्रयः। नचापवादविषयमुत्सर्गोऽभिनिविशते। पूर्वं ह्यपवादाः प्रवर्तन्ते पश्चादुत्सर्गाः प्रकल्प्य चापवादविषयमुत्सर्गो भिनिविशते। तन्न तावदत्र कदाचित् सिज् भवति क्समपवादं प्रतीक्षते। क्सस्य सिजपवादत्वात्॥ तस्य चानिडाश्रयत्वाद् अनिट् प्रसिद्धः। अनिटि प्रसिद्धे क्सविधिः । अनिटि प्रसिद्धे क्सो भविष्यति॥ सिजिदानीं क्व भविष्यति?। (1842 वार्तिकद्वितीयखण्डम्॥ 5 ॥) - शेषे सिज्विधानम्- (भाष्यम्) शेषे सिज्विधानं भविष्यति अकोषीद् अमोषीद् इति॥ शल इगुपधा॥ 45 ॥ Kashika ------- शलन्तो यो धातुरिगुपधः, तस्मात् परस्य च्लेरनिटः क्स आदेशो भवति। दुह — अधुक्षत्। लिह — अलिक्षत्। शल इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधादिति किम्? अधाक्षीत्। अनिट इति किम्? अकोषीत्। अमोषीत्॥ Siddhanta Kaumudi ----------------- इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥ Laghu Siddhanta Kaumudi ----------------------- इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥ Balamanorama ------------ **शल इगुपधादनिटः क्सः** - शल इगुपधा । शलन्त इति । 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः । Tattvabodhini ------------- **शल इगुपधादनिटः क्सः** - शल इगुपधा ।शल॑ इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् । अतिप्त । इगिति किम् । अगाढ । अनिटः किम् । औहिष्ट । क्सस्याचि । अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः ।तङी॑ति तु केषांचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः । अन्ये तुलुग्वा दुहे॑त्यत्र आत्मनेपदे इत्यपकर्षणात्तङीति लभ्यते । तेनदृशे क्सः॑ इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति, सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः । Padamanjari ----------- शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्?'क्सस्याचि' इति विशेषणार्थम्।'सस्याचि' इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः - अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः - तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्;'घोर्लोपो लेटि वा' इति प्रकरणे - धातुप्रत्ययानां ग्रहणम्, किं च'लुग्वादुहदिह' इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि।'दादेर्द्धातोर्घः' , ठेकाचो वशो भष्ऽ। अलिक्षदिति।'लिह आस्वादने' 'हो ढः' ।'भिदिर्विदारणे' 'च्छिदिर्द्वैधीकरणे' 'कुष निष्कर्षे' 'मुष स्तेये' ॥ Nyaas ----- `अघुक्षत्` इति। `दुह प्रपूरणे` (धातुपाठः-1014), **दादेर्धातोर्घः** (8.2.32) , `एकाचो बशो भष्` (8.2.37) इत्यनेन दकारस्य भष्भावेन धकारः, धकारस्य `खरि च` (8.4.54) इति चर्त्वम् - ककारः। `अलिक्षत्` इति। `लिह आस्वादने` (धातुपाठः-1016), `हो ढः` (8.2.31) इति ढत्वम्, पूर्ववत् षत्वकत्वे। `अधाक्षीत्` इति।` दह भस्मीकरणे` (धातुपाठः-991), पूर्ववत् ढत्वकत्वषत्वभष्भावचर्त्वानि। `अकोषीत्` इति। `कुष निष्कर्षे` (धातुपाठः- 1518) लघूपधगुणः॥ Prakriyasarvasvam ----------------- शलन्तादिगुपधादनिटः परस्य च्लेः क्सः स्यात् । क्सस्य कित्त्वादगुणः । षस्य कत्वम् । अद्विक्षत् । अद्विक्षताम् । झस्य अन्तादेशे कृते । Sutra Prayogas -------------- * **न्यविक्षत** (शिशुपालवधम्): `शल इगुपधादनिटः क्सः` इति लुङि क्सप्रत्ययः। * **आदिक्षद्** (भट्टिकाव्यम्): `शल इगुपधात्...` इत्यादिना चलेः क्सः । * **अदृक्षता** (भट्टिकाव्यम्): `शल इगुपधा` इति प्रातस्य क्सादेशस्य। * **न्यविक्षत** (भट्टिकाव्यम्): `विशे: शल इगुपधादनिटः क्सः` इति क्सः। * **घुक्षः** (भट्टिकाव्यम्): `शल इगुपधादनिटः क्सः` इति क्सः । * **द्राक्षीर्मृषा** (भट्टिकाव्यम्): `शल इगुपधादनिटः क्सः` इति क्सस्य निषेधः । * **न्यविक्षत** (भट्टिकाव्यम्): `शल इगुपधा- दनिट: क्सः` इति क्सप्रत्ययः। * **व्यक्रुक्षद्** (भट्टिकाव्यम्): `शल इगुपधादनिटः क्सः` इति क्सः। * **निरदिक्षच्च** (भट्टिकाव्यम्): `शल इगुपधादनिटः क्सः` इति क्सः । * **समाश्लिक्षच्च** (भट्टिकाव्यम्): `शलः` इति क्सः।