31034: सिब्बहुलं लेटि ===================== **Padacheda:** सिप् | S | 1 | 1 | बहुलम् | S | 1 | 1 | लेटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- सिप् is diversely the affix of a verbal root when लेट् follows. Vasu English Translation ------------------------ सिप् is diversely the affix of a verbal root when लेट् follows. The tense called लेट् or subjunctive is found in the *Vedas* only. When the subjunctive tense is employed, the affix सिप् is diversely added. Thus जोषिषत्, तारिषत्, मन्दिषत्. Sometimes this augment is not employed; thus पताति दिद्युत् उदधिं ज्यावयाति. Thus in *Rig Veda* (1.1.2), वक्षति is an example of लेट् with सिप् ॥ Bhashya ------- सिब्बहुलं लेटि (659) (407 सिब्विकरणविधिसूत्रम् ॥ 3.1.3 आ. 6) (1799 छान्दसत्वनियमवार्तिकम् ॥ 1 ॥) - सिबुत्सर्गः छन्दसि- (भाष्यम्) सिबुत्सर्गश्छन्दसि कर्तव्यः ॥ (1800 सनादिषु विधानवार्तिकम् ॥ 2 ॥) - सनाद्यन्तेनेषत्वाद्यर्थः- (भाष्यम्) सनाद्यन्ताधिकारे च कर्तव्यः। किं प्रयोजनम्?। नेषत्वाद्यर्थः। इन्द्रो नस्तेन नेषतु। गावो नेष्टादिति ॥ (1801 सनादिवर्गीयत्ववैर्यथ्यवार्तिकम् ॥ 3 ॥) - प्रकृत्यन्तरत्वात्सिद्धम्- (भाष्यम्) प्रकृत्यन्तरत्वात्सिद्धमेतत् ॥ कथं प्रकृत्यन्तरं नेषः? ॥ (पित्करणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थः पकारः? ॥ (आक्षेपबाधकभाष्यम्) स्वरार्थः अनुदात्तौ सुप्पितौ इत्येष स्वरो यथा स्यादिति ॥ (1803 प्रत्याख्यानवार्तिकम् ॥ 5 ॥) - पित्करणानर्थक्यं चानच्कत्वात्- (भाष्यम्) पित्करणं चानर्थकम्। कुतः?। अनच्कत्वात्। अनच्कोऽयम्। तत्र नार्थः स्वरार्थेनानुबन्धेन पकारेण ॥ (प्रत्याख्यानबधकभाष्यम्) इटि कृते साच्को भविष्यति ॥ (1804 प्रत्याख्यानसाधकवार्तिकम् ॥ 6 ॥) - इटोऽनुदात्तार्थमिति चेदागमानुदात्तत्वात्सिद्धम्- (भाष्यम्) आगमानुदात्तत्वेनेटोऽनुदात्तत्वं भविष्यति ॥ (प्रत्याख्यानबाधकभाष्यम्) एवं तर्हि सबयं कर्तव्यः। किं प्रयोजनम्?। यदवयासिसीष्ठाः एकाज्लक्षण इट्प्रतिषेधो मा भूदिति ॥ (आक्षेपभाष्यम्) क्वायमकारः श्रूयते?। (समाधानभाष्यम्) न क्वचिच्छ्रूयते। लोपोऽस्य भविष्यति। अतो लोपः आर्धधातुक इति ॥ (प्रत्याख्यानसाधकभाष्यम्) यदि न क्वचिच्छ्रूयते। नार्थः स्वरार्थेन पकारेणानुबन्धेन ॥ (पकारप्रयोजनभाष्यम्) एवमपि कर्तव्यः?। किं प्रयोजनम्। अनुदात्तस्य लोपो यथा स्यादुदात्तस्य लोपो मा भूदिति। किं च स्यात्?। उदात्तनिवृत्तिस्वरः प्रसज्येत ॥ (1805 सिपो णित्त्वविधिवार्तिकम् ॥ 7 ॥) - सिब् बहुलं छन्दसि णित्- (भाष्यम्) सिब् बहुलं छन्दसि णिद् वक्तव्यः सविता धर्मे साविषत्। प्र ण आयूंषि तारिषत् ॥ सिब्बहुलम् ॥ 34 ॥ (आम्विकरणप्रकरणम्) Kashika ------- धातोः सिप् प्रत्ययो भवति बहुलं लेटि परतः। जोषि॑ष॒त् (ऋ०२.३५.१)। तारिषत् (ऋ०२.२५.१२)। मन्दिषत् । न च भवति — पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वया॒ति। (तै०सं० ३.५.५.२)॥ Padamanjari ----------- सिब्बहुलं लेटि॥ जोषिषन्मन्दिषदिति।'जुषी प्रीतिसेवनयोः' 'मदि स्तुतिमोदस्वप्नगतिषु' , अनुदातौ, व्यत्ययेन परस्मैपदम्, सिच इट्'लेटो' डाटौऽ इति तिपोऽट्, ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति।'तृ प्लवनतरणयोः' 'सिब्बहुलं च्छन्दसि णिद्वक्तव्यः' इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति।'शल हुल पत्लृ गतौ' , लेटोऽडाटौऽ इत्याट् शपासहैकादेशः। च्यावयातीति।'च्युङ् प्रुह् प्लुङ् गतौ' ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङ् बिहुलवचनास्तिप्, थासः सीयुट्, इट्। ठेकाच उपदेशेऽनुदातात्ऽ इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्॥ Nyaas ----- `जोषिषत्` इति।`जुषी प्रीतिसेवनयोः` (धातुपाठः-1288) लिङर्थे लेट्। सिप इकार उच्चारणार्थः, पकारः स्वरार्थः, **लेटोऽडाटौ** (3.4.94) इत्यट्। **इतश्च लोपः परस्मैपदेषु** (3.4.97) इतीकारलोपः, `आर्धधातुकस्येडवलादेः` (7.2.35) इतीट्, लघूपधगुणः, **आदेशप्रत्यययोः** (8.3.59) इति षत्वम्। `तारिषत्` इति। `तृ? प्लवनतरणयोः` (धातुपाठः-969) **सार्वधातुकार्धधातुकयोः** (7.3.84) **व्यत्ययो बहुलम्** (3.1.85) इति वर्णव्यत्ययेन धात्वकारस्याकारः। शेषं पूर्ववत्। `मन्दिषत्` इति। `मदि {स्तुतिमोदमदस्वप्नकान्तिगतिषृ` धातुपाठः-} स्तुतिमोदनस्वप्नगितषृ` (धातुपाठः-13), **इदितो नुम् धातोः** (7.1.58) इति नुम्। `पदाति` इति। `पद गतौ` (धातुपाठः-1169), दिवादिरनुदात्तेत्, व्यत्ययेन परस्मैपदम्, शप्प्रत्ययश्च, अटा सह सवर्णदीर्घत्वम्। तिप इकारलोपोऽत्र न भवति; तद्विधौ **वैतोऽन्यत्र** (3.4.96) इत्यतो वेत्यनुवृत्तेः। `च्यावयाति` इति। `च्यङ {न स्तो धातुपाठे} छ्युङ ज्युङ {न स्तो धातुपाठे} झयुङ प्रुङ प्लुङ गतौ` (धातुपाठः-955,956,957,958)। हेतुमण्णिच्। सिपः पित्करणं बोभूयिषातामित्यत्रोदात्तनिवृत्तिस्वरेणोदात्तत्वे प्राप्तेऽनुदात्तार्थम्। यङन्तात् बोभूयशब्दाल्लेट आत्मनेपदम्, त, टेरेत्वम्। `एत ऐ` (3.4.93) **लेटोऽडाटौ** (3.4.94) इत्याट् **तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः** (6.1.186) इति सार्वधातुकस्यानुदात्तत्वं पित्करणसामर्थ्यादन्तरङ्गोऽपि सिप्स्वरं प्रतीक्षते। तेन कृते तस्मिन् सिप इडागमः। स चागमानुदात्तत्वेनानुदात्तः। **अतो लोपः** (6.4.48) इति यङोऽकारस्योदात्तस्य लोपः। उदात्तत्वं तु तस्य धातुस्वरेण च। **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्युदात्तत्वे प्राप्ते पित्करणादनुदात्तत्वमिटो भवति॥ Vartika ------- सिब्बहुलं छन्दसि णिद्वक्तव्यः ।