31032: सनाद्यन्ता धातवः
=======================
**Padacheda:** सनाद्यन्ताः | S | 1 | 3 |
धातवः | S | 1 | 3 |
Sutrartha
---------
**सनादिप्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति ।**
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति **धातु:** इति संज्ञा । धातुपाठे परिगणितानां प्रायेण 2000 शब्दानां इयं संज्ञा **भूवादयो धातवः** (1.3.1) इत्यनेन सूत्रेण दीयते । परन्तु एतान् विहाय संस्कृते अन्ये अपि शब्दाः धातुरूपेण प्रयुक्ताः दृश्यन्ते । यथा, 'असूय', 'सत्याप', 'जुगुप्स' एत्येते भिन्नाः शब्दाः संस्कृते धातुसंज्ञकाः एव सन्ति । **एते सर्वे शब्दाः भिन्नेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च 'सनादिः' इत्याख्यान् प्रत्ययान् योजयित्वा सिद्ध्यन्ति** । एतादृशानाम् सर्वेषाम् शब्दानाम् परिगणनम् धातुपाठे नैव सम्भवति, अतः एतेषाम् धातुसंज्ञां विधातुम् पाणिनिना प्रकृतसूत्रम् निर्मितम् अस्ति । **ये शब्दाः सनादि-प्रत्ययान्ताः सन्ति, तेषाम् धातुसंज्ञा भवति**— इति प्रकृतसूत्रस्य अर्थः । एते एव धातवः **आतिदेशिकधातवः** नाम्ना अपि ज्ञायन्ते ।
**सनादिप्रत्ययाः** — अष्टाध्याय्याम् **गुप्तिज्किद्भ्यः सन्** (3.1.5) इत्यतः **कमेर्णिङ्** (3.1.30) इति यावद्भिः सूत्रेः आहत्य द्वादश प्रत्ययाः पाठ्यन्ते । एतेषु प्रत्ययेषु प्रथमः प्रत्ययः **सन्** इति अस्ति, अतः एतेषां सर्वेषाम् **सनादिप्रत्ययाः** इति अपि नाम दीयते । एतेभ्यः केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन अन्ये च धातुभ्यः विधीयन्ते । परन्तु एतेषाम् सर्वेषाम् योजनेन नित्यम् **सनाद्यन्ता धातवः** (3.1.32) इति प्रकृतसूत्रम् अनुसृत्य धातुनिर्माणम् एव भवति । एतेषाम् द्वादशानाम् प्रत्ययानाम् प्रत्येकम् एकम् उदाहरणम् अधः दीयते । सूत्राणाम् विस्तरः तु तत्तत्स्थले एव द्रष्टव्यः ।
1. सन्-प्रत्ययः
सन्-प्रत्ययः **गुप्तिज्किद्भ्यः सन्** (3.1.5), **मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य** (3.1.6) तथा च **धातोः कर्मणः समानकर्तृकादिच्छायां वा** (3.1.7) इति त्रिभिः सूत्रैः पाठ्यते । अयं प्रत्ययः केवलम् **धातुभ्यः** एव विधीयते । अस्य योजनेन धातूनाम् एव निर्माणं भवति । यथा —
.. code-block:: text
गुपँ (निन्दायाम्, भ्वादिः, (1.1125))
→ गुप् + सन् [**गुप्तिज्किद्भ्यः सन्** (3.1.5) इति स्वार्थे सन्-प्रत्ययः]
→ गुप् गुप् + स [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ गु गुप् + स [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते ।]
→ जुगुप्स [**कुहोश्चुः** (7.4.62) इति अभ्यासस्य चुत्वम् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "जुगुप्स" इति सन्-प्रत्ययान्तः धातुः सिद्ध्यति ।
2. क्यच्-प्रत्ययः
**सुप आत्मनः क्यच्** (3.1.8), **उपमानादाचारे** (3.1.10) तथा च **नमोवरिवश्चित्रङः क्यच्** (3.1.19) इत्येतैः त्रिभिः सूत्रैः क्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् **प्रातिपदिकेभ्यः** एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —
.. code-block:: text
आत्मनः पुत्रम् इच्छति
= पुत्र + क्यच् [**सुप आत्मनः क्यच्** (3.1.8) इति क्यच्]
→ पुत्री + य [**क्यचि च** (7.4.33) इति ईकारादेशः]
→ पुत्रीय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "पुत्रीय" इति क्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।
3. काम्यच्-प्रत्ययः
**काम्यच्च** (3.1.9) इति सूत्रेण काम्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् **प्रातिपदिकेभ्यः** एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —
.. code-block:: text
आत्मनः पुत्रम् इच्छति
= पुत्र + काम्यच् [**काम्यच्च** (3.1.9) इति काम्यच्]
→ पुत्रकाम्य [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
→ पुत्रीय
अनेन प्रकारेण "पुत्रकाम्य" इति काम्यच्-प्रत्ययान्तः धातुः सिद्ध्यति ।
4. क्यङ्-प्रत्ययः
**कर्तुः क्यङ् सलोपश्च** (3.1.11), **भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः** (3.1.12), **कष्टाय क्रमणे** (3.1.14), **कर्मणो रोमन्थतपोभ्यां वर्तिचरोः** (3.1.15), **बाष्पोष्मभ्यामुद्वमने** (3.1.16), **शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे** (3.1.17) तथा च **सुखादिभ्यः कर्तृवेदनायाम्** (3.1.18) इत्येतैः सूत्रैः विधीयते । अयं प्रत्ययः केवलम् **प्रातिपदिकेभ्यः** एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
श्येनः इव आचरति
→ श्येन + क्यङ् [**कर्तुः क्यङ् सलोपश्च** (3.1.11) इति क्यङ्]
→ श्येना + य [**अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः]
→ श्येनाय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "श्येनाय" इति क्यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।
5. क्यष्-प्रत्ययः
**लोहितादिडाज्भ्यः क्यष्** (3.1.13) इत्यनेन विहितः क्यष्-प्रत्ययः विशिष्टेभ्यः **प्रातिपदिकेभ्यः** एव विधीयते । अस्य प्रयोगेण धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
लोहितः भवति
→ लोहित + क्यष् [**लोहितादिडाज्भ्यः क्यष्** (3.1.13) इति क्यष्]
→ लोहिता + य [**अकृत्सार्वधातुकयोर्दीर्घः** (7.4.25) इति दीर्घः]
→ लोहिताय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "लोहिताय" इति क्यष्-प्रत्ययान्तः धातुः सिद्ध्यति ।
6. णिङ्-प्रत्ययः
**पुच्छभाण्डचीवराण्णिङ्** (3.1.20) इत्यनेन त्रिभ्यः **प्रातिपदिकेभ्यः** णिङ्-प्रत्ययः भवति । **कमेर्णिङ्** (3.1.30) इत्यनेन "कम्" इति **धातोः** अपि स्वार्थे णिङ्-प्रत्ययः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
भाण्डानि समाचिनोति (राशीकरोति / एकत्रीकरोति इत्यर्थः)
→ भाण्ड + णिङ् [**पुच्छभाण्डचीवराण्णिङ्** (3.1.20) इति णिङ्-प्रत्ययः]
→ भाण्ड + इ [णकारङकारयोः इत्संज्ञा, लोपः]
→ भाण्ड् + इ [**णेरनिटि** (6.4.51) इति अकारलोपः]
→ भाण्डि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "भाण्डि" इति णिङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।
7. णिच्-प्रत्ययः
**मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्** (3.1.21), **सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्** (3.1.25), **हेतुमति च** (3.1.26) इत्येतैः त्रिभिः सूत्रैः, तथा च इत्येतेन वार्त्तिकेन प्रायेण सर्वेभ्यः **धातुभ्यः, प्रातिपदिकेभ्यः च** णिच्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + णिच् [**हेतुमति च** (3.1.26) इति णिच्]
→ पठ् + इ [णकारचकारयोः इत्संज्ञा, लोपः]
→ पाठ् + इ [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः]
→ पाठि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "पाठि" इति णिच्-प्रत्ययान्तः धातुः सिद्ध्यति ।
8. यङ्-प्रत्ययः
**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22), **नित्यं कौटिल्ये गतौ** (3.1.23), तथा च **लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्** (3.1.24) इत्येतैः त्रिभिः सूत्रैः भिन्नेभ्यः **धातुभ्यः** यङ्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
पुनः पुनः पचति
→ पच् + यङ् [**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङ्]
→ पच् पच् + य [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ प पच् + य [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते]
→ पा पच् + य [**दीर्घोऽकितः** (7.4.83) इति अभ्यासस्य दीर्घः]
→ पापच्य [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "पापच्य" इति यङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।
9. यक्-प्रत्ययः
**कण्ड्वादिभ्यो यक्** (3.1.27) इति सूत्रेण विशिष्टेभ्यः **धातुभ्यः** यक्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
कण्डूञ् (गात्रविघर्षणे, कण्ड्वादिगणस्य धातुः, धातुपाठे नैव विद्यते ।)
→ कण्डू + यक् [**कण्ड्वादिभ्यो यक्** (3.1.27) इति स्वार्थे यक्]
→ कण्डूय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "कण्डूय" इति यक्-प्रत्ययान्तः धातुः सिद्ध्यति ।
**सार्वधातुके यक्** (3.1.67) इत्यनेन विहितः यक् इति विकरणप्रत्ययः भिन्नः अस्ति ।
10. आय-प्रत्ययः
**गुपूधूपविच्छिपणिपनिभ्य आयः** (3.1.28) इति सूत्रेण विशिष्टेभ्यः **धातुभ्यः** स्वार्थे आय-प्रत्ययः भवति । अस्य योजनेन नूतनधातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
.. code-block:: text
गुपूँ (रक्षणे, भ्वादिः, (1.461))
→ गुप् + आय [**गुपूधूपविच्छिपणिपनिभ्य आयः** (3.1.28)]
→ गोप् + आय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ गोपाय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "गोपाय" इति आय-प्रत्ययान्तः धातुः सिद्ध्यति ।
11. ईयङ्-प्रत्ययः
**ऋतेरीयङ्** (3.1.29) इति सूत्रेण "ऋत्" इति **धातोः** स्वार्थे ईयङ्-प्रत्ययः भवति । अस्य योजनेन नूतनधातोः निर्माणं भवति । प्रक्रिया एतादृशी —
.. code-block:: text
ऋति (जुगुप्सायां कृपायां च । (1.1166) इत्यत्र निर्दिष्टः अयं धातुः वस्तुतः सौत्रः अस्ति, यतः पाणिनेः मूलधातुपाठे अयं न दृश्यते ।)
→ ऋत् + ईयङ् [**ऋतेरीयङ्** (3.1.29) इति ईयङ्-प्रत्ययः]
→ ऋतीय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "ऋतीय" इति ईयङ्-प्रत्ययान्तः धातुः सिद्ध्यति ।
12. क्विप्-प्रत्ययः
इति वार्तिकेन क्विप्-प्रत्ययः सर्वेभ्यः **प्रातिपदिकेभ्यः** विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् इत्थम् —
.. code-block:: text
क्लीबः इव आचरति
→ क्लीब + क्विप्
→ क्लीब + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]
→ क्लीब [**वेरपृक्तस्य** (6.1.67) इति अपृक्त-वकारस्य लोपः ।**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।]
अनेन प्रकारेण "क्लीब" इति क्विप्-प्रत्ययान्तः धातुः सिद्ध्यति ।
कृदधिकारे भिन्नैः सूत्रैः "क्विप्" इति कश्चन कृत्प्रत्ययः अपि पाठ्यते । परन्तु सः केवलम् धातुभ्यः विधीयते, तस्य योजननेन च प्रातिपदिकानाम् निर्माणं भवति । सः प्रत्ययः अत्र निर्दिष्टात् सनादिसंज्ञक-क्विप्-प्रत्ययात् सम्पूर्णरूपेण भिन्नः अस्ति ।
**सूत्रे अन्तग्रहणस्य प्रयोजनम्**
यदि अस्मिन् सूत्रे "अन्त"शब्दः न स्यात्, तर्हि "सनाद्यः धातवः" इत्यनेन केवलम् सनादिप्रत्ययानाम् एव धातुसंज्ञा अभविष्यत्, न हि तदन्तानाम् । परन्तु अत्र सनादिप्रत्ययान्तानाम् धातुसंज्ञा इष्यते, न हि केवलप्रत्ययानाम् । अतएव अस्मिन् सूत्रे "अन्त"-शब्दस्य ग्रहणं कृतम् अस्ति । अस्मिन्नेव सन्दर्भे **संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधः** इति काचित् परिभाषा अपि परिभाषेन्दुशेखरे पाठ्यते । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र "अन्त"शब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः आशयः ।
Sutrartha (English)
-------------------
The words ending in a सनादि प्रत्यय are called 'धातु'.
Vasu English Summary
--------------------
All the roots ending with the affixes सन् and others are called धातु ।
Vasu English Translation
------------------------
All the roots ending with the affixes सन् and others are called धातु ।
This extends the sphere of *Dhatu* or roots already defined in *sutra* (1.3.1). These roots may be called derivative roots. They are separate independent roots, and have all the functions of a root, as taking tense-affixes &c. as shown in the above examples. Thus चिकीर्षा 'to wish to do', कारि 'to cause to do'; चेक्रिय 'to do repeatedly' are separate roots and not the same as कृ 'to do' and thus take शप् &c.
Bhashya
-------
सनाद्यन्ता धातवः (649) (405 धातुसंज्ञासूत्रम् ॥ 3.1.3 आ.4) (अतग्रहणप्रयोजनाधिकरणम्।) (आक्षेपभाष्यम्) अन्तग्रहणं किमर्थम्, न सनादयो धातवः इत्येवोच्येत?। (प्रत्याक्षेपभाष्यम्) केनेदानीं तदन्तानां भविष्यति ॥ (प्रत्याक्षेपसमाधानभाष्यम्) तदन्तविधिना ॥ (समाधानभाष्यम्) अत उत्तरं पठति - - (1795 समाधानवार्तिकम् ॥ 1 ॥) - सनादिष्वन्तग्रहण उक्तम्- किमुक्तम्। पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति। इदं चापि प्रत्ययग्रहणम्। अयं चापि संज्ञाविधिः ॥ (सूत्रारभ्यप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते। न भूवादयो धातव इत्येव सिद्धम् ॥ (सूत्रारभ्यसाधकभाष्यम्) न सिध्यति। पाठेन धातुसंज्ञा क्रियते। न चैते तत्र पठ्यन्ते ॥ (सूत्रप्रत्याख्यानसाधकप्रत्याक्षेपभाष्यम्) कथं तर्ह्यन्येषामपठ्यमानानां धातुसंज्ञा भवति - अस्तेर्भूः ब्रुवो वचिः चक्षिङ ख्याञ्ञिति ॥ (सूत्रारम्भसाधकप्रत्याक्षेपसमाधानभाष्यम्) यद्यप्येते तत्र न पठ्यन्ते। प्रकृतयस्त्वेषां पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम् ॥ (सूत्रप्रत्याख्यानभाष्यम्) इमेऽपि तर्हि यद्यपि तत्र न पठ्यन्ते। येषां त्वर्थे आदिश्यन्तेउते तत्र पठ्यन्ते। तत्र स्थानिवद्भावात्सिद्धम् ॥ (सूत्रारम्भसाधकभाष्यम्) न सिध्यति। आदेशाः स्थानिवदित्युच्यते। न चेमे आदेशाः ॥ (सूत्रप्रत्याख्यानसाधकभाष्यम्) इमे अप्यादेशाः ॥ कथम्?। आदिश्यते यः स आदेशः। इमे चाप्यादिश्यन्ते ॥ (स्थानिवत्त्वानुपपत्तिभाष्यम्) एवमपि षष्ठीनिर्दिष्टस्यादेशाः स्थानिवद्भवन्तीत्युच्यते। न चेमे षष्ठीनिर्दिष्टस्यादिश्यन्ते ॥ (स्थानिवत्त्वोपपादनभाष्यम्) षष्ठीप्रहणं निवर्तिष्यते ॥ (निवृत्तिदूषणभाष्यम्) यदि निवर्तते। अपवादे उत्सर्गकृतं प्राप्नोति। कर्मण्यण् आतोऽनुपसर्गे कः इति केऽप्यण्कृतं प्राप्नोति ॥ (दूषणपरिहारभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नापवादे उत्सर्गकृतं भवतीति। यदयं श्यन्नादीन् कांश्चिच्छ्रितः करोति श्यन्श्नम्श्नाश्नुरिति ॥ सनाद्यन्ता धातवः ॥ 32 ॥ (विधिप्रकरणे प्रत्ययप्रकरणे विकरणप्रकरणम्)
Kashika
-------
सन् आदिर्येषां ते सनादयः। सनादयोऽन्ते येषां ते सनाद्यन्ताः। सनाद्यन्ताः समुदाया धातुसंज्ञका भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिहान्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति॥
Siddhanta Kaumudi
-----------------
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥
Laghu Siddhanta Kaumudi
-----------------------
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥
Balamanorama
------------
**सनाद्यन्ता धातवः** - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गणे' इति पररूपम् ।
Tattvabodhini
-------------
**सनाद्यन्ता धातवः** - सनाद्यन्ताः । सदनादय इति ।सन्क्यच्काम्यचज्क्यङ्क्यषोऽथाचारक्विप्णिज्यङौ तथा । यगाय णिङ् चेति द्वादशीमी सनादयः॑ । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः ।सुप्तिङन्त॑मित्यनेनसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती॑तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् ।भूवादयो धातवः॑ इत्यस्यानन्तरंसनाद्यन्ताश्चे॑ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः । निर्धारणाऽलाभापत्तेः ।सनाद्यन्ता धातवः॑ इत्यस्यानन्तरं तुभूवादयंश्चे॑ति पठित्वाधातव॑ इत्येतत्तन्न त्यक्तुं शक्यम् ।
Padamanjari
-----------
सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा - वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्।'सुप्तिङ्न्तम्' इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह - प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः।'भूवादयः' इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि'सङ्न्ताश्च' इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि'सनाद्यन्ताः' इत्यस्यानन्तरम्'भूवादयश्च' इति वक्तव्यम्। स्यादेतत् - एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥
Nyaas
-----
`सनादयोऽन्ते येषाम्` इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा - कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। `समुदायाः` इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। `{धातुसंज्ञाः - काशिका, पदमञ्जरी च।}धातुसंज्ञकाः` इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। **सुप्तिङन्तं पदम्** (1.4.14) इत्यत्र चान्तग्रहणेन ज्ञापितमेतत - `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (पि।प।वृ।44) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहण#एनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह - यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह - `प्रत्ययग्रहणपरिभाषयैव` इत्यादि। न ह्रनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवर्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ **भूवादयो धातवः** (1.3.1) इत्यस्यानन्तरं `सनाद्यन्ताश्चेति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कर्तव्यं भवति? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि **सनाद्यन्ता धातवः** (3.1.32) इत्यस्यानन्तरं `भूवादयश्च` इति कस्मान्नोक्तम्? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्रेरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्॥