31028: गुपूधूपविच्छिपणिपनिभ्य आयः ================================= **Padacheda:** गुपू-धूप-विच्छि-पणि-पनिभ्यः | S | 5 | 3 | आयः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix आय comes after गुपू 'to protect', धूप 'to heat', विच्छ 'to approach', पण 'to contract or praise' and पन 'to praise'. Vasu English Translation ------------------------ The affix आय comes after गुपू 'to protect', धूप 'to heat', विच्छ 'to approach', पण 'to contract or praise' and पन 'to praise'. Thus गोपायति 'he protects'; धूपायति 'he heats'; so also, विच्छायति, पणायति, and पनायति. The verb पण् being read along with पन् 'to praise,' has here the sense of praise only; so that the affix does not come after the verb पण् when it means 'to make a contract'; as शतस्य पणते, सहस्रस्य पणते. The verbs in आय do not take *Atmanepada* affixes, as there is no indicatory letter to show that. Kashika ------- **गुपू रक्षणे**, **धूप सन्तापे** , **विच्छ गतौ** , **पण व्यवहारे स्तुतौ च**, **पन च** इत्येतेभ्यो धातुभ्य आयप्रत्ययो भवति। गोपायति। धूपायति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययमुत्पादयति, न व्यवहारार्थः। शतस्य पणते। सहस्रस्य पणते। अनुबन्धश्च केवले चरितार्थः, तेनायप्रत्ययान्ताद् नात्मनेपदं भवति॥ Siddhanta Kaumudi ----------------- एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-(SK2189) इति गुणः ॥ Laghu Siddhanta Kaumudi ----------------------- एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥ Balamanorama ------------ **गुपूधूपविच्छिपणिपनिभ्य आयः** - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाच' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह - पुगन्तेति गुण इति । Padamanjari ----------- गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा - जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः -'न चपोलेभे वणिजां पणायान्' इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा - गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥ Nyaas ----- `स्तुत्यर्थेन` इत्यादि। `पण व्यवहारे स्तुतौ च` (धातुपाठः- 439) `पन च` (धातुपाठः-440) इत्यनयाऽनुपूर्व्या गणे पाठः। तत्र `पन च` (धातुपाठः-440) इत्यत्र स्तुतावित्यनुवर्तते, न व्यवहारार्थः तेन पणिव्र्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्रते। तेनासौ स्तुतावेव वर्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। `शतस्य` इति। `व्यवह्मपणोः समर्थयोः` (2.3.57) इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठते? तत्र `अनुदात्तङितः` (1.3.12) इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह - `अनुबन्धः` इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्॥ Prakriyasarvasvam ----------------- एभ्यः स्वार्थे आयप्रत्ययः स्यात् । गुणः । 'सनाद्यन्ता धातवः' इति धातुत्वे लट् । तिबादिः शप् च । 'अतो गुणे' । गोपायति । कर्मणि यकि Sutra Prayogas -------------- * **गोपितुम्** (किरातार्जुनीयम्): `गुपूधूपविच्छिपणिपनिभ्य आयः` इति आयप्रत्ययप्राप्तिः। * **गोपायकानां** (किरातार्जुनीयम्): `गुपूधूपविच्छिपणिपनिभ्य आयः` इति आयप्रत्ययः। * **प्राणानामपणिष्टाऽयं** (भट्टिकाव्यम्): `गुपू- धूप` इत्यादिना आयप्रत्ययो न भवति। * **अगोपायच्च** (भट्टिकाव्यम्): `गुप्धूपविच्छिपणिपनिभ्य आयः` इति आयप्रत्ययः।