24075: जुहोत्यादिभ्यः श्लुः =========================== **Padacheda:** जुहोति-आदिभ्यः | S | 5 | 3 | श्लुः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verbs हू 'to sacrifice' and others there is श्लु elision of the विकरण शप् -- कर्तरि शप् (3.1.68). Vasu English Translation ------------------------ After the verbs हू 'to sacrifice' and others there is श्लु elision of the विकरण शप् -- कर्तरि शप् (3.1.68). These verbs belong to the *Juhotyadi* class. जुहोति 'he sacrifices' (7.1.10). श्लु causes the reduplication of the root. So also बिभेति 'he fears.' निनेक्ति from निज् 'to purify, he purifies.' Kashika ------- शबनुवर्तते, न यङ्। जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति। लुकि प्रकृते श्लुविधानं द्विर्वचनार्थम्। जुहोति। बिभर्ति। नेनेक्ति॥ Siddhanta Kaumudi ----------------- {$ {!1083 हु!} दानादनयोः $}। आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥ शपः श्लुः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- {$ {! 1 हु !} दानादनयोः $} (धातुपाठे (03.0001)) ॥ शपः श्लुः स्यात्॥ Balamanorama ------------ **जुहोत्यादिभ्यः श्लुः** - जुहोत्यादिभ्यः श्लुः । शप इति । 'अदिप्रभृतिभ्यः' इत्यस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु तीति स्थिते श्लुः । शप इत ।अदिप्रभृतिभ्यः॑इत्यतस्दनुवृत्तेरिति भावः । हु अ स्थिते शपः श्लौ कृते हु तीति स्थिते — Padamanjari ----------- जुहोत्यादिभ्यः श्लुः॥ शबनुवर्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृतौ हि श्लुना तत्र लुप्तेऽपि'सन्यङेः' इति षष्ठ।लश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति।'भृञामित्' इत्यभ्यासस्येत्वम्। नेनेक्तीति।'णिजिर्शौचपोषणयोः' 'णिजां त्रयाणां गुणः श्लौ' ॥ Nyaas ----- `शबनुवर्तते, न यङ` इति। शब एव स्वरितत्वप्रतिज्ञानात्। `जुहोति` इति। `श्लौ` (6.1.10) द्विर्वचनम्। बिभर्ति` इति। `उरत्ट (7.4.66) इत्यत्त्वम्। `रपरत्वम्। `भृञामित्` (7.4.76) इतीत्त्वम्। `नेनेक्ति` इति। `णिजिर् शौचपोषयोः` (धातुपाठः-1093) , `निजां त्रयाणां गुणः` (7.4.75) , `श्लौ` (6.1.10) इति द्वर्वचनम्॥ Prakriyasarvasvam ----------------- एभ्यः शपः श्लुः स्यात् । लोप इत्यर्थः ।