24056: अजेर्व्यघञपोः

Padacheda: अजेः | S | 6 | 1 |

वी | S | | | 1

अघञपोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

वी is the substitute of the verb अज् ‘to drive’, ‘to lead’, when an आर्धधातुक affix follows, with the exception of the affixes घञ् – भावे (3.3.18) and अप् – समुदोरजः पशुषु (3.3.69).

Vasu English Translation

वी is the substitute of the verb अज् ‘to drive’, ‘to lead’, when an आर्धधातुक affix follows, with the exception of the affixes घञ् – भावे (3.3.18) and अप् – समुदोरजः पशुषु (3.3.69). प्रवायकः ‘driver,’ प्रवायणीयः.

Why do we say ‘with the exception of घञ् and अप्’? Observe सम् + अज + घञ् = समाजः ‘society’; उदाजः ‘driving out.’ So also with अप्, as समजः ‘a multitude or herd of animals &c., उदजः ‘driving out of cattle.’ See (3.3.69).

Why have we used वी with a long ई? For the sake of forms like प्रवीताः &c.

Vart:- Prohibition must also be stated (along with घञ् and अप्) of the affix क्यप्, as समज्या ‘a meeting, fame.’

Vart:- The substitution is optional before ardhadhatukas beginning with a letter of वल् Pratyahara (all consonant except य) as प्रवेता or प्राजिता प्रवेतुम् or प्राजितुम्. See (6.2.144) for accent.

Bhashya

अजेर्व्यघञ्ञपोः (587) (364 आदेशसूत्रम् ॥ 2.4.1 आ.29) (क्यपि प्रतिषेधाधिकरणम्) (1623 वार्तिकम् ॥ 1 ॥) - घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानम् - (भाष्यम्) घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्। इहापि यथा स्यात् - समजनं समज्येति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। अपीत्येव भविष्यति ॥ कथम्? अपीति नेदं प्रत्ययग्रहणम् ॥ किं तर्हि? प्रत्याहारग्रहणम् ॥ क्व सन्निविष्टानां प्रत्याहारः? अपो अकारात्प्रभृत्या क्यपः पकारात् ॥ (आक्षेपभाष्यम्) यदि प्रत्याहारग्रहणम्, संवीतिर्न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्हि नार्थ उपसंख्यानेन नापि घञ्ञपोः प्रतिषेधेन। इदमस्ति चक्षिङः ख्याञ्ञ् वा लिटि इति। ततो वक्ष्यामि अजेर्वी अजेर्वीभावो भवति वा। व्यवस्थितविभाषा वा इति। तेनेह च भविष्यति - प्रवेता, प्रवेतुम्, प्रवीतोरथः, सवीतिः। इह च न भविष्यति - समाजः समजः, उदाजः उदजः, समजनमुदजनं समज्येति। तत्रायमप्यर्थः - इदमपि सिद्धं भवति प्राजितेति ॥ (आक्षेपभाष्यम्) किंच भो इष्यत एतद्रूपम्? (समाधानभाष्यम्) बाढमिष्यते। एवं हि कश्चिद्वैयाकरण आह - कोस्य रथस्य प्रवेतेति ॥ सूत आह - अहमायुष्मन्नस्य रथस्य प्राजितेति ॥ वैयाकरण आह - अपशब्द इति ॥ सूत आह - प्राप्तिज्ञो देवानांप्रियः, न त्विष्टिज्ञः इष्यत एतद्रूपमिति ॥ वैयाकरण आह - अहो नु खल्वनेन दुरुतेन बाध्यामह इति ॥ सूत आह - न खलु वेञ्ञः सूतः, सुवतेरेव सूतः। यदि सुवतेः कुत्सा प्रयोक्तव्या, दुःसूतेनेति वक्तव्यम् ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं वक्तव्यम् वा यौ इति ॥ (समाधानभाष्यम्) वक्तव्यं च ॥ किं प्रयोजनम्? नेयं विभाषा। किं तर्हि? आदेशो विधीयते - वा इत्ययमादेशो भवत्यजेर्यौ परतः। वायुरिति ॥ अजेर्व्य ॥ 56 ॥

Kashika

अजेर्धातोर्वीत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवायकः। प्रवयणीयः। अघञपोरिति किम्? समाजः। उदाजः। अपि तु — समजः। उदजः। समुदोरजः पशुषु (३.३.६९) इत्यप्। दीर्घोच्चारणं किम्? प्रवीताः॥ घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्॥ समज्या॥ वलादावार्धधातुके विकल्प इष्यते॥ प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्॥

Siddhanta Kaumudi

अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ।<!वलादावार्धधातुके वेष्यते !> (वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च (SK2265) इति दीर्घ प्राप्ते अचः परस्मिन्-(SK50) इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-(SK51) इति निषेधः ।<!स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः !> (वार्तिकम्) ॥ थलि एकाचः (SK2246) इतीण्निषेधे प्राप्ते ॥

Tattvabodhini

अजेर्व्यघञपोः - अजेव्र्य । वी- इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति । आर्धधातुकविषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाऽभावाद्यह् न स्यादिति भावः । यङ्लुक् त्वस्मान्न भवति, लुका यङोऽपहारे आर्धधातुकविषयत्वाऽभावान्नाद्र्धधातुकाभिव्यक्तिरित वीभावस्यैवाऽप्रसक्तेः । एतच्चन लुमते॑ति सूत्रे कैयटे स्पष्टम् । अघञपोः किम् । समाजः ।समुदोरजः पशुषु॑ इत्यप् । समजः । उदजः । विव्यतुरिति ।एरनेकाचःर॑ इति यण् । लोपाजादेश एवेति । एतच्चन पदान्ते॑ ति सूत्रएवास्माभिरुपपादितम् । एकाच इतीति । अजेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, ऊदृदन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यभ्युपगमात् ।

Padamanjari

अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति - दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह - अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि’वा यौ’ इति सूत्रेण; एतावदस्तु -‘वा लिटि’ , अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥

Nyaas

प्रवायकः इति। ण्वल्। प्रवयणीयम् इति। अनीयर्। कृत्यचः (8.4.29) इति णत्वम्। घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम् इति। घञपोः कर्तव्ये क्यपः प्रतिषेधस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। क्यपः प्रतिषेधनिमित्तत्वेन प्रतिषेधं प्रति सम्बन्धित्वेन विवक्षितत्वात् क्यप इति षष्ठी। तत्रेदं प्रतिपादनम् - संज्ञायां समजनिपतमनविद (3.3.99) इत्यादिना संज्ञायां गम्यमानायामजेः क्यप् विधास्यते। नियतवर्णानुपूर्वीका च संज्ञा भवति, न चादेशे कृते संज्ञा गम्यते, तस्मात् संज्ञायां विधानात् क्यपि वीभावो न भवति। वलादावर्धधातुके विकल्प इष्यते इति। कथं पुनरिष्यमाणोऽपि लभ्यते? अजेरुदात्तत्वात्, स हीडर्थो धातुषूदात्तः पठते। यदि चास्य नित्यं वीभावः स्यात्, तदा तस्योदात्तपाठोऽनर्थकः स्यात्। न हि वीभावे विहित इट् प्राप्नोति;तस्यानुदात्तत्वात्।

Prakriyasarvasvam

घञप्‌वर्जित आर्धधातुके कर्तव्ये अजेर्वी इत्यादेशः स्यात् । तस्माद् ‘अचो यदि’ति वक्ष्यमाणो यदेव । आर्धधातुकत्वाद् गुणः । वेयम् ।

Vartika

घञपोः प्रतिषेधे क्य उपसंख्यानम् ।