24055: वा लिटि¶
Padacheda: वा | S | 0 | 0 |
लिटि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
ख्याञ् is optionally the substitute of चक्षिङ् when लिट् (Perfect Tense) follows.
Vasu English Translation¶
ख्याञ् is optionally the substitute of चक्षिङ् when लिट् (Perfect Tense) follows. The लिट् also is an ardhadhatuka affix and by the last sutra ख्या would always have been the substitute of चक्ष्; the present sutra makes this substitution optional, as आचख्यौ, आचख्यतुः and आचख्युः. In the alterative we have आचचक्षे, आचचक्षाते and आचचक्षिरे ‘he told &c.’
Kashika¶
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञ् आदेशो वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति — आचचक्षे, आचचक्षाते, आचचक्षिरे॥
Siddhanta Kaumudi¶
अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे ।<!शस्य यो वा इति स्थितम् !> (वार्तिकम्) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया - (SK5023) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥
Balamanorama¶
वा लिटि - वा लिटि । चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति ।चक्षिङः ख्या॑ञिति सूत्रभाष्ये ‘ख्शादिरयमादेश’ इति,पूर्वत्रासिद्ध॑मित्यधिकारेख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः । तेनपुंख्यान॑मित्यत्र यत्वस्याऽसिद्धत्वात् ‘पुनः खय्यम्परे’ इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम् । ञित्त्यात्पदद्वयमिति । परस्मपैदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य वत्वपक्षे ‘आत औ णलः’ इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट् — चख्यिथ-चख्याथ, चख्यथुः चख्य । चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट् । लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह - चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये । चख्यिवहे । चख्यिमहे । शस्य वत्वाऽभावपक्षे त्वाह - चक्शौ चक्शे इति । खस्य चर्त्वेन क इति भावः । कृते चर्त्वे तस्य ‘चयो द्वितीयाः शरि’ इति खकारमाशह्क्य निराकरोति — खय इति । अथ ख्यानादेशाऽभावपक्षे आह — चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यतीति । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ढ्वम् ।चक्षै चक्षावहै चक्षामहै । लडआह — अचष्टेति । अचक्षातामचक्षत ।अचष्ठ#आ#ः अचक्षाथामचड्ढ्वम् । अचक्षि अचक्ष्वहि अचक्ष्महि । विधिलिडआह — चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह - ख्यायात् ख्येयादिति ।वाऽन्यस्ये॑त्येत्वविकल्पः । शस्य यत्वाऽभावपक्षे आह — क्शायात् क्शेषादिति । लुङि च्लेः सिचि प्राप्ते आह —
Tattvabodhini¶
वा लिटि - असिद्धकाण्डे इति ।णत्वप्रकरणानन्तर॑मिति शेषः । तेनपर्याख्यान॑मित्यत्र शकारेण व्यवधानात्कृत्यचः इति णत्वं न । तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं,तत्र भवः सौप्रख्यीयः । यत्वस्याऽसिद्धत्वात्धन्वयोपधा॑दिति वुञ् न, किं तु छ एवेति बोध्यम् । अचष्टेति ।स्को॑रिति कलोपः । ष्टुत्वम् ।अस्यतिवक्तिख्याती॑त्यत्र विधिसामर्थ्याद्यत्त्वं नाऽसिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयतया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादङि सिद्धं तङर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति ।
Prakriyasarvasvam¶
लिटि चक्षिङ ख्याञ् क्शाञौ वा स्तः । चचक्षे चचक्षाते । चचक्षिषे । चचक्षिध्वे । चचक्षे । चचक्षिवहे, चख्ये । चख्याते । चख्यिषे । चख्यिध्वे । यस्य शवद्भावाद्विणः परत्वं नेति ‘विभाषेटः’ इति ढत्वं न । चख्ये* । चख्यिवहे; चख्यौ । चख्यतुः । चख्यिथ, चख्याथ । चख्यिव; चक्शे । चक्शाते । चक्शिषे; चक्शौ । चक्शतुः । चक्शिथ, चक्शाथ । कर्मणि तद्ववत् । आशिषि ख्यासीष्ट । ख्यासीयास्ताम् । ख्यासीध्वम् ।
Sutra Prayogas¶
प्रत्याचचक्षे (शिशुपालवधम्): वा लिटि इति विकल्पान्न चक्षिङः ख्याजादेशः।
आचख्यौ (भट्टिकाव्यम्): वा लिटि इति चक्षिङः ख्याञ्।