24056: अजेर्व्यघञपोः ==================== **Padacheda:** अजेः | S | 6 | 1 | वी | S | | | 1 अघञपोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- वी is the substitute of the verb अज् 'to drive', 'to lead', when an आर्धधातुक affix follows, with the exception of the affixes घञ् -- भावे (3.3.18) and अप् -- समुदोरजः पशुषु (3.3.69). Vasu English Translation ------------------------ वी is the substitute of the verb अज् 'to drive', 'to lead', when an आर्धधातुक affix follows, with the exception of the affixes घञ् -- भावे (3.3.18) and अप् -- समुदोरजः पशुषु (3.3.69). प्रवायकः 'driver,' प्रवायणीयः. Why do we say 'with the exception of घञ् and अप्'? Observe सम् + अज + घञ् = समाजः 'society'; उदाजः 'driving out.' So also with अप्, as समजः 'a multitude or herd of animals &c., उदजः 'driving out of cattle.' See (3.3.69). Why have we used वी with a long ई? For the sake of forms like प्रवीताः &c. Vart:- Prohibition must also be stated (along with घञ् and अप्) of the affix क्यप्, as समज्या 'a meeting, fame.' Vart:- The substitution is optional before *ardhadhatukas* beginning with a letter of वल् *Pratyahara* (all consonant except य) as प्रवेता or प्राजिता प्रवेतुम् or प्राजितुम्. See (6.2.144) for accent. Bhashya ------- अजेर्व्यघञ्ञपोः (587) (364 आदेशसूत्रम् ॥ 2.4.1 आ.29) (क्यपि प्रतिषेधाधिकरणम्) (1623 वार्तिकम् ॥ 1 ॥) - घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानम् - (भाष्यम्) घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्। इहापि यथा स्यात् - समजनं समज्येति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम्। अपीत्येव भविष्यति ॥ कथम्? अपीति नेदं प्रत्ययग्रहणम् ॥ किं तर्हि? प्रत्याहारग्रहणम् ॥ क्व सन्निविष्टानां प्रत्याहारः? अपो अकारात्प्रभृत्या क्यपः पकारात् ॥ (आक्षेपभाष्यम्) यदि प्रत्याहारग्रहणम्, संवीतिर्न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्हि नार्थ उपसंख्यानेन नापि घञ्ञपोः प्रतिषेधेन। इदमस्ति चक्षिङः ख्याञ्ञ् वा लिटि इति। ततो वक्ष्यामि अजेर्वी अजेर्वीभावो भवति वा। व्यवस्थितविभाषा वा इति। तेनेह च भविष्यति - प्रवेता, प्रवेतुम्, प्रवीतोरथः, सवीतिः। इह च न भविष्यति - समाजः समजः, उदाजः उदजः, समजनमुदजनं समज्येति। तत्रायमप्यर्थः - इदमपि सिद्धं भवति प्राजितेति ॥ (आक्षेपभाष्यम्) किंच भो इष्यत एतद्रूपम्? (समाधानभाष्यम्) बाढमिष्यते। एवं हि कश्चिद्वैयाकरण आह - कोस्य रथस्य प्रवेतेति ॥ सूत आह - अहमायुष्मन्नस्य रथस्य प्राजितेति ॥ वैयाकरण आह - अपशब्द इति ॥ सूत आह - प्राप्तिज्ञो देवानांप्रियः, न त्विष्टिज्ञः इष्यत एतद्रूपमिति ॥ वैयाकरण आह - अहो नु खल्वनेन दुरुतेन बाध्यामह इति ॥ सूत आह - न खलु वेञ्ञः सूतः, सुवतेरेव सूतः। यदि सुवतेः कुत्सा प्रयोक्तव्या, दुःसूतेनेति वक्तव्यम् ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं वक्तव्यम् वा यौ इति ॥ (समाधानभाष्यम्) वक्तव्यं च ॥ किं प्रयोजनम्? नेयं विभाषा। किं तर्हि? आदेशो विधीयते - वा इत्ययमादेशो भवत्यजेर्यौ परतः। वायुरिति ॥ अजेर्व्य ॥ 56 ॥ Kashika ------- अजेर्धातोर्वीत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवायकः। प्रवयणीयः। अघञपोरिति किम्? समाजः। उदाजः। अपि तु — समजः। उदजः। **समुदोरजः पशुषु** (३.३.६९) इत्यप्। दीर्घोच्चारणं किम्? प्रवीताः॥ घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्॥ समज्या॥ वलादावार्धधातुके विकल्प इष्यते॥ प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्॥ Siddhanta Kaumudi ----------------- अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । (वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च (SK2265) इति दीर्घ प्राप्ते अचः परस्मिन्-(SK50) इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-(SK51) इति निषेधः । (वार्तिकम्) ॥ थलि एकाचः (SK2246) इतीण्निषेधे प्राप्ते ॥ Tattvabodhini ------------- **अजेर्व्यघञपोः** - अजेव्र्य । वी- इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति । आर्धधातुकविषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाऽभावाद्यह् न स्यादिति भावः । यङ्लुक् त्वस्मान्न भवति, लुका यङोऽपहारे आर्धधातुकविषयत्वाऽभावान्नाद्र्धधातुकाभिव्यक्तिरित वीभावस्यैवाऽप्रसक्तेः । एतच्चन लुमते॑ति सूत्रे कैयटे स्पष्टम् । अघञपोः किम् । समाजः ।समुदोरजः पशुषु॑ इत्यप् । समजः । उदजः । विव्यतुरिति ।एरनेकाचःर॑ इति यण् । लोपाजादेश एवेति । एतच्चन पदान्ते॑ ति सूत्रएवास्माभिरुपपादितम् । एकाच इतीति । अजेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, ऊदृदन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यभ्युपगमात् । Padamanjari ----------- अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति - दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह - अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि'वा यौ' इति सूत्रेण; एतावदस्तु -'वा लिटि' , अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥ Nyaas ----- `प्रवायकः` इति। ण्वल्। `प्रवयणीयम्` इति। अनीयर्। **कृत्यचः** (8.4.29) इति णत्वम्। `घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्` इति। घञपोः कर्तव्ये क्यपः प्रतिषेधस्योपसंख्यानं प्रतिपादनं कर्तव्यमित्यर्थः। क्यपः प्रतिषेधनिमित्तत्वेन प्रतिषेधं प्रति सम्बन्धित्वेन विवक्षितत्वात् क्यप इति षष्ठी। तत्रेदं प्रतिपादनम् - `संज्ञायां समजनिपतमनविद` (3.3.99) इत्यादिना संज्ञायां गम्यमानायामजेः क्यप् विधास्यते। नियतवर्णानुपूर्वीका च संज्ञा भवति, न चादेशे कृते संज्ञा गम्यते, तस्मात् संज्ञायां विधानात् क्यपि वीभावो न भवति। `वलादावर्धधातुके विकल्प इष्यते` इति। कथं पुनरिष्यमाणोऽपि लभ्यते? अजेरुदात्तत्वात्, स हीडर्थो धातुषूदात्तः पठते। यदि चास्य नित्यं वीभावः स्यात्, तदा तस्योदात्तपाठोऽनर्थकः स्यात्। न हि वीभावे विहित इट् प्राप्नोति;तस्यानुदात्तत्वात्। Prakriyasarvasvam ----------------- घञप्‌वर्जित आर्धधातुके कर्तव्ये अजेर्वी इत्यादेशः स्यात् । तस्माद् 'अचो यदि'ति वक्ष्यमाणो यदेव । आर्धधातुकत्वाद् गुणः । वेयम् । Vartika ------- घञपोः प्रतिषेधे क्य उपसंख्यानम् ।