24057: वा यौ¶
Padacheda: वा | S | 0 | 0 |
यौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
वी is optionally the substitute of अज् when the affix – अनद्यतने लुट् (3.3.15) etc. follows.
Vasu English Translation¶
वी is optionally the substitute of अज् when the affix – अनद्यतने लुट् (3.3.15) etc. follows. This declares an option in case of the affix ल्युट्, the word यु in the Sutra referring to this affix; as, प्रवयणः or प्राजनो दण्डः ‘driving stick or whip.’
Kashika¶
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। यु इति ल्युटो ग्रहणम्। यौ परभूते अजेर्वा वी इत्ययमादेशो भवति। प्रवयणो दण्डः। प्राजनो दण्डः। प्रवयणमानय। प्राजनमानय॥
Siddhanta Kaumudi¶
अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥
Nyaas¶
यु इति ल्युटो ग्रहणम्` इति। अन्यस्यासम्भवात्। प्रवयणो दण्डः इति। प्राज्यतेऽनेनेति करणे ल्युट्। पूर्ववण्णत्वम्॥
Prakriyasarvasvam¶
ल्युटचजेर्वा वीत्वम् । वयनम् । अजनम् । वयतेस्तु ‘आदेच—’ (६-१-४५) इत्यात्वाद् वानमेव । ष्ठिवुसिवोर्दीर्घश्च ल्युटि वेति भोजः । ष्ठीवनम् । सीवनम् । अदीर्घे लघूपधगुणः । ष्ठेवनम् । सेवनम् । ष्ठिवेर्घञ्यपि दीर्घ इति केचित् । निष्ठीवः । निष्ठेवः । अतिशीङो ल्युटि अतिशयने तमविष्ठनौ (५-३-५५) इति निपातनात् दीर्घोऽपि । अत एव सुखशयनमित्यादावप्याह हरः । ‘मीनाति- मिनोतिदीङां ल्यपि च’ (६-१-५०) ‘विभाषा लीयतेः’ (६-१-५१) इति चात्वम् । मानं हिंसा । निमानं प्रक्षेपः । उपदानं क्षयः । आत्वाभावे गुणः । निलानम् । निलयनम् । मिमील्यां खलचोरात्वप्रतिषेधः । तस्मादेरचि निमयः । प्रमयः । लयः ॥
Sutra Prayogas¶
प्रवयणं (शिशुपालवधम्): वा यौ इति विकल्पादजेर्वीभावः।