24045: इणो गा लुङि

Padacheda: इणः | S | 6 | 1 |

गा | S | | | 1

लुङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

गा is the substitute of the root इण् when लुङ् (Aorist) follows.

Vasu English Translation

गा is the substitute of the root इण् when लुङ् (Aorist) follows. अगात् ‘he went’ (2.4.77) अगाताम् ‘they two went’ जगुः ‘they all went.’ The repetition of the words लुङ् in this sutra though is anuvritti was coming from the last aphorisms, indicates that there is no option allowed even in the Atmanepada, गा being the invariable substitute in all the Padas. Thus अगायि भवता ‘you, went.’ The form अगात् is thus evolved आ + गा + सिच् + त् =, जगात् (2.4.77)

Vart:- गा is the substitute of इक् ‘to remember’ in the Aorist as it is of इण्. Thus अध्यगात् ‘he remembered.’ अध्यागाताम्, अध्यगुः. The root इक् belongs to Adadi class.

Bhashya

इणो गा लुङि (576) (359 आदेशसूत्रम् ॥ 2.4.1 आ. 24) (1604 अतिदेशवार्तिकम् ॥ 1 ॥) - इण्वदिकः - (भाष्यम्) इण्वदिक इति वक्तव्यम्। इहापि यथा स्यात् - अध्यगात्। अध्यगाताम्। अध्यगुः ॥ इणो गा ॥ 45 ॥

Kashika

इणो गा इत्ययमादेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङीति वर्तमाने पुनर्लुङ्ग्रहणम् आत्मनेपदेष्वन्यतरस्याम् (२.४.४४) इत्येतद् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता॥ इण्वदिक इति वक्तव्यम्॥ अध्यगात्, अध्यगाताम्, अध्यगुः॥

Siddhanta Kaumudi

गातिस्था (SK2223) इति सिचो लुक् । अगात् । अगाताम् । अगुः ।{$ {!1046 इङ्!} अध्ययने$} । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥

Laghu Siddhanta Kaumudi

गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्॥ {$ {! 19 शीङ् !} स्वप्ने $} (धातुपाठे (02.0026)) ॥

Balamanorama

इणो गा लुङि - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे ।

Padamanjari

इणो गा लुङ्॥ इगुरिति।’गातिस्था’ इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ् - ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे - सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति - अधियन्ति, अधीत्येति॥

Nyaas

अगात् इति। गतिस्था (2.4.77) इत्यादिना सिचो लुक्। अगुः इति। आतः (3.4.110) इति झेर्जुस, उस्यपदान्तात् (6.1.96) इति पररूपत्वम्। लुङीति वर्तमाने इत्यादि। लुङि च (2.4.43) इत्योत लुङगर्हणेऽनुवर्तमाने यत्पुनः लुङग्रहणं कृतं तस्यैततप्रयोजनम् - परस्मैपदेष्वपि यथा स्यात्। नित्यञ्चात्मनेपदेषु। एतेनैतद्दर्शयति - पूर्वकं हि लुङग्रहणमात्मनेपदग्रहणेनान्यतरस्याग्रहणेन च सम्बद्धम्, अतस्तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तथा चात्मनेपदष्वेव विकल्पेनादेशः स्यात्। तस्मादविशेषेण, नित्यञ्च यथा स्यादित्येवमर्थं पुनर्लुङग्रहणं क्रियते। अगायि इति। चिण् भावकर्मणोः (3.1.66) इति चिण्। आतो युक् चिण्कृतोः (7.3.33) इति युक्। चिणो लुक् (6.4.104) इति तकारस्य लुक्।इण्वदिक इति वक्तव्यम् इति। यथेणो गादेशो लुङि भवति, तथा इक् स्मरणे (धातुपाठः-1047) इत्यस्यापि भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - बहुलं छन्दसि (7.4.78) इत्यतो बहुलग्रहणमनुवर्तते मण्डूकप्लुतिन्यायेन। तेनेकोऽपि लुङि गादेशो भविष्यतीति॥

Vartika

इण्वदिक इति वक्तव्यम् ।

Sutra Prayogas

  • निरगात् (शिशुपालवधम्): इणो गा लुङि इति गादेशः।

  • मावगाः (शिशुपालवधम्): इणो गा लुङि इति गादेशः।

  • उदगुः (शिशुपालवधम्): इणो गा लुङि इति गादेशे।

  • अगात् (भट्टिकाव्यम्): इणो गा लुङि इति गादेशः।

  • गाः (भट्टिकाव्यम्): इणो गा लुङि इति सिचो लुक्।

  • **** (भट्टिकाव्यम्): इणो गा लुङि इति सिचो लुक्।

  • निरगाद् (भट्टिकाव्यम्): इणो गा लुङि इति गा-आदेशः।

  • निरगुः (भट्टिकाव्यम्): इणो गा लुङि इति गादेशः।

  • निरगातां (भट्टिकाव्यम्): इणो गा लुङि इति इणो गादेशः।