24044: आत्मनेपदेष्वन्यतरस्याम्

Padacheda: आत्मनेपदेषु | S | 7 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

When आत्मनेपद affixes follow, वध् is optionally the substitute of हन् in the लुङ् (Aorist).

Vasu English Translation

When आत्मनेपद affixes follow, वध् is optionally the substitute of हन् in the लुङ् (Aorist). Thus आवधिष्ट or आहत; आवधिषाताम् or आहसाताम्; आवधिशत or आहसत.

The verb हन् becomes Atmanepadi when preceded by आ (1.3.28) By sutra (1.1.14), the Aorist-affixes in the Atmanepada are कित् and हन् and by (6.4.37) the न is elided before कित् affixes then by (8.2.27) the स is elided. Thus आहन् + सिच् + त = आहत.

Kashika

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति — आहत, आहसाताम्, आहसत॥

Siddhanta Kaumudi

हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥

Tattvabodhini

आत्मनेपदेष्वन्यतरस्याम् - आत्मनेपदेष्विति ।तङी॑त्येव सुवचम् ।समो गम्यृच्छिस्वरत्यर्तिविदिभ्यः॑ इति वृत्तिस्थं पाठमुपेक्ष्य भाष्यर्थं पाठमनुसरति — समोगम्यृच्छिभ्यामिति ।

Padamanjari

आत्मनेपदेष्वन्यतरस्याम्॥ आहसतेति। ठाङे यमहनःऽ इत्यात्मनेपदम्। ठात्मनेपदेष्वनतः,’हनः सिच्’ इति सिचः कित्वात् ठनुदातोपदेशऽ इत्यनुनासिकलोपः॥

Nyaas

आवधिष्ट इति। आङो यमहनः (1.3.28) इत्यात्मनेपदम्। आफधिषत इति। आत्मनेपदेष्वनतः (7.1.5) इत्यवादेशः। आहत इति। हनः सिच् (1.2.14) इति कित्त्वम्, अनुदात्तोपदेश (6.4.37) इत्यादिनाऽनुनासिकलोपः, ह्रस्वादङ्गात् (8.2.27) इति सिचो लोपः॥

Prakriyasarvasvam

लुङि तङि हनो वा वधः स्यात् । चिणि अतो लोपस्य स्थानिवत्त्वाद्वृद्धिः । ‘जनिवध्योश्च’ इति निषेधस्तु वधेः प्रकृत्यन्तरस्यैव । अवधि । वधाभावे— ‘अचिण्णलोः’ इति तत्त्वाभावात् अघानि । ‘हनग्रह—’ (६-४-६२) इति वा चिण्वदिट् । ‘चिण्वदिटि वधभावो नेष्टः ।’ अघानिषाताम् । चिण्वत्त्वाभावे वा वधादेशः । अवधिषाताम् । वधाभावे,

Sutra Prayogas

  • न्यवधि (शिशुपालवधम्): आत्मनेपदेष्वन्यतरस्याम् इति हन्तेर्लुङि विकल्पाद्वधादेशः।

  • आह्वत (भट्टिकाव्यम्): आ- त्मनेपदेष्वन्यतरस्याम् इति चलेरङ्।

  • अवधिष्टाऽथ (भट्टिकाव्यम्): आत्मनेपदेष्वन्यतरस्याम् इति हनो वधादेशः।

  • अङ्गदेनाऽहसातां (भट्टिकाव्यम्): आत्मनेपदेष्वन्यतरस्याम् इति वधादेशाभावपक्षे रूपम्।