24045: इणो गा लुङि ================== **Padacheda:** इणः | S | 6 | 1 | गा | S | | | 1 लुङि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- गा is the substitute of the root इण् when लुङ् (Aorist) follows. Vasu English Translation ------------------------ गा is the substitute of the root इण् when लुङ् (Aorist) follows. अगात् 'he went' (2.4.77) अगाताम् 'they two went' जगुः 'they all went.' The repetition of the words लुङ् in this *sutra* though is *anuvritti* was coming from the last aphorisms, indicates that there is no option allowed even in the *Atmanepada*, गा being the invariable substitute in all the *Padas*. Thus अगायि भवता 'you, went.' The form अगात् is thus evolved आ + गा + सिच् + त् =, जगात् (2.4.77) Vart:- गा is the substitute of इक् 'to remember' in the Aorist as it is of इण्. Thus अध्यगात् 'he remembered.' अध्यागाताम्, अध्यगुः. The root इक् belongs to *Adadi* class. Bhashya ------- इणो गा लुङि (576) (359 आदेशसूत्रम् ॥ 2.4.1 आ. 24) (1604 अतिदेशवार्तिकम् ॥ 1 ॥) - इण्वदिकः - (भाष्यम्) इण्वदिक इति वक्तव्यम्। इहापि यथा स्यात् - अध्यगात्। अध्यगाताम्। अध्यगुः ॥ इणो गा ॥ 45 ॥ Kashika ------- इणो गा इत्ययमादेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङीति वर्तमाने पुनर्लुङ्ग्रहणम् **आत्मनेपदेष्वन्यतरस्याम्** (२.४.४४) इत्येतद् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता॥ इण्वदिक इति वक्तव्यम्॥ अध्यगात्, अध्यगाताम्, अध्यगुः॥ Siddhanta Kaumudi ----------------- गातिस्था (SK2223) इति सिचो लुक् । अगात् । अगाताम् । अगुः ।{$ {!1046 इङ्!} अध्ययने$} । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥ Laghu Siddhanta Kaumudi ----------------------- गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्॥ {$ {! 19 शीङ् !} स्वप्ने $} (धातुपाठे (02.0026)) ॥ Balamanorama ------------ **इणो गा लुङि** - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे । Padamanjari ----------- इणो गा लुङ्॥ इगुरिति।'गातिस्था' इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ् - ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे - सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति - अधियन्ति, अधीत्येति॥ Nyaas ----- `अगात्` इति। `गतिस्था` (2.4.77) इत्यादिना सिचो लुक्। `अगुः` इति। `आतः` (3.4.110) इति झेर्जुस, **उस्यपदान्तात्** (6.1.96) इति पररूपत्वम्। `लुङीति वर्तमाने` इत्यादि। `लुङि च` (2.4.43) इत्योत लुङगर्हणेऽनुवर्तमाने यत्पुनः लुङग्रहणं कृतं तस्यैततप्रयोजनम् - परस्मैपदेष्वपि यथा स्यात्। नित्यञ्चात्मनेपदेषु। एतेनैतद्दर्शयति - पूर्वकं हि लुङग्रहणमात्मनेपदग्रहणेनान्यतरस्याग्रहणेन च सम्बद्धम्, अतस्तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तथा चात्मनेपदष्वेव विकल्पेनादेशः स्यात्। तस्मादविशेषेण, नित्यञ्च यथा स्यादित्येवमर्थं पुनर्लुङग्रहणं क्रियते। `अगायि` इति। **चिण् भावकर्मणोः** (3.1.66) इति चिण्। **आतो युक् चिण्कृतोः** (7.3.33) इति युक्। **चिणो लुक्** (6.4.104) इति तकारस्य लुक्।`इण्वदिक इति वक्तव्यम्` इति। यथेणो गादेशो लुङि भवति, तथा `इक् स्मरणे` (धातुपाठः-1047) इत्यस्यापि भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - **बहुलं छन्दसि** (7.4.78) इत्यतो बहुलग्रहणमनुवर्तते मण्डूकप्लुतिन्यायेन। तेनेकोऽपि लुङि गादेशो भविष्यतीति॥ Vartika ------- इण्वदिक इति वक्तव्यम् । Sutra Prayogas -------------- * **निरगात्** (शिशुपालवधम्): `इणो गा लुङि` इति गादेशः। * **मावगाः** (शिशुपालवधम्): `इणो गा लुङि` इति गादेशः। * **उदगुः** (शिशुपालवधम्): `इणो गा लुङि` इति गादेशे। * **अगात्** (भट्टिकाव्यम्): `इणो गा लुङि` इति गादेशः। * **गाः** (भट्टिकाव्यम्): `इणो गा लुङि` इति सिचो लुक्। * **** (भट्टिकाव्यम्): `इणो गा लुङि` इति सिचो लुक्। * **निरगाद्** (भट्टिकाव्यम्): `इणो गा लुङि` इति गा-आदेशः। * **निरगुः** (भट्टिकाव्यम्): `इणो गा लुङि` इति गादेशः। * **निरगातां** (भट्टिकाव्यम्): `इणो गा लुङि` इति इणो गादेशः।