24046: णौ गमिरबोधने

Padacheda: णौ | S | 7 | 1 |

गमिः | S | 1 | 1 |

अ-बोधने | S | 7 | 1 |

Sutrartha


Vasu English Summary

When the affix णि (causal follows, गामि is the substitute of इण् when the sense is not that of ‘informing’ but that of ‘going’.

Vasu English Translation

When the affix णि (causal follows, गामि is the substitute of इण् when the sense is not that of ‘informing’ but that of ‘going’. गमयति ‘makes him go’ गमयतः, गमयन्ति &c. But प्रत्याययति ‘causes to believe.’ अधिगामयति. The इ of गमि is for articulation. So also इक् to ‘remember’; as, अधिगमयति ॥

Bhashya

णौ गमिरबोधने। इण्वदिक इत्येव। अधिगमयति। अधिगमयतः। अधिगमयन्ति ॥ णौ गमि ॥ 46 ॥

Kashika

णौ परत इणोऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधन इति किम्? प्रत्याययति। इण्वदिक इत्येव — अधिगमयति॥

Siddhanta Kaumudi

इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥<!इण्वदिकः !> (वार्तिकम्) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः (SK2574) । हो हन्तेः - (SK358) इति कुत्वम् । घातयति । ईर्ष्ययति ।<!ईर्ष्यतेस्तृतीयस्येति वक्तव्यम् !> (वार्तिकम्) ॥ तृतीयव्यञ्जनस्य तृतीयैकाचेति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य (SK2176) इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥

Balamanorama

णौ गमिरबोधने - णौ गमिरबोधने ।इणो गा लुङी॑त्यत इण इत्यनुवर्तते । तदाह — इणो गमिरिति । मकारादिकार उच्चारणार्थः । गमयतीति । प्रापयतीत्यर्थः । प्रत्याययतीति । बोधयतीत्यर्थः । लुङि- प्रत्यायियत् । इणो णिचिइणो य॑णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थितेयी॑त्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, ‘अजादेर्द्वितीयस्य’ इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात् । ‘इक स्मरणे’ इत्यस्य इण्वत्त्वमुक्तं स्मारयति — इण्वदिक इति.अधिगमयतीति । स्मारयतीत्यर्थः । हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति — हनस्तोऽतचिण्णलोरिति । कुत्वमिति ।हस्ये॑ति शेषः । उपधावृदिंध मत्वाह — घातयतीति । लुङि अजीघतत् । ईष्र्ययतीति । ईष्र्यतेर्णौ रूपम् । वक्तव्यमिति ।द्वित्व॑मिति शेषः । इति वाऽर्थ इति । ‘न न्द्राः’ इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ।तृतीयस्य व्यञ्जनस्ये॑ति पक्षे इत्यर्थः । षकारस्येति । अन्यथा इर्ष्य् इ अ त् इति स्थिते ‘न न्द्राः’ इति रेफं वर्जयित्वा षकारसहितस्य ‘ष्यि’ इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः । द्वितीये इति ।तृतीयैकाच॑इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ।उक्तवार्तिक॑मिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, ‘ष्यिस्’ इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः । अन्यथाअजादेर्द्वितीयस्ये॑ति स्यादिति भाव) । ऐर्ष्य्यदिति । यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह — ऐर्षिष्यदिति । तदुपपादयति — द्वितीयव्याख्यायामिति । ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते ‘न न्द्राः’ इति निषेधाद्रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति ‘ष्यि’ इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र ‘ष्यि’ इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह — हलादिशेषादिति । नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह — द्वित्वं तु द्वितीयस्यैवेति । ‘एकाच’ इति शेषः । कुत इत्यत आह — तृतीयाभावेनेति । ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति । अतोऽत्र ‘तृतीयैकाच’ इति वार्तिकं न प्रवर्तते । तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च ‘तृतीयस्यैकाच’ इति वार्तिकं सन्नन्त एव प्रवर्तते । ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम् । ननुप्रार्थयन्ति शयनोत्थितं प्रियाः॑ इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽऽगर्वीयतया आत्मनेपदप्रसङ्गात् । नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात् । नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह — निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः । संप्रति अविवक्षितप्रेषण इत्यर्थः । त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तं — ॒निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते॑इति । इदं च ‘णेरणौ’ इति सूत्रे भाष्ये स्पष्टम् ॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥अथ पाञ्चमिकास्तत्र छयद्विधिः । — — — — — — — — — — —

Tattvabodhini

णौ गमिरबोधने - प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि — प्रत्यायियत् । इह इणो णिचि कृतेइणो य॑णिति यणं बाधित्वा परत्वाद्धृद्धिः । न चओः पुयण्जी॑ति ज्ञापकात्पूर्वं द्वित्वं, पश्चाद्वृद्धिरिति शङ्क्यम्,अजादेर्द्वितीयस्ये॑ति णिचो द्वित्वेऽब्यासोत्तरखण्डस्याऽवर्णपरत्वाऽभावात् । इति वाऽर्थ इति । व्याख्यानद्वयमप्याकरारूढमिति भावः । * ईष्र्यतेस्तृतीयस्येति वक्तव्यम् । षकारस्येति । रेफस्य तुन न्द्राः॑ इत्यनेन निषेधादिति भावः । द्वितीये त्विति ।तृतीयस्यैकाच ॑ इति पक्षे । सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः । ऐर्ष्यियदिति ।तृतीयव्यञ्जनस्ये॑ति पक्षे इदमुदाहरणम् ।ऐर्षिष्य॑दिति रूपस्याऽसाधुत्वमाशङ्क्योपपादयति — द्वितीयव्याख्यायामित्यादिना । द्वितीयस्यैवेति ।एकाच॑ इति शेषः । अप्रवृत्तेरिति । किंतु सन्नन्त एव प्रवर्तते । तत्र ह्रनुपदमीर्ष्यियिषतीत्युदाहरिष्यति ।अर्थ उपयाच्ञाया॑मित्यस्य आगर्वीयत्वादात्मनेपदेन भाव्यमितिप्रार्थयन्ती॑ति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्क्य तत्समर्थनायाह — निवृत्तप्रेषणादिति । उक्तं च — निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॑ इति । तेनेत्यादि ।प्रार्थना कुर्वन्ती॑ ति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थं — प्रार्थनं प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति वयाचक्षते, तदसत् । धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करमस्य वक्ष्यमाणतयाअर्थवेदे॑ त्यापुगागमस्य दुर्वारत्वात् । इति ण्यन्तप्रक्रिया॥

Nyaas

गमयति इति। जनीजृष्क्नसुरञ्जोऽमन्ताश्च (धातुपाठः-ग।सू।817) इति मित्त्वात् ह्रस्वत्वम्॥

Prakriyasarvasvam

<karika>अबोधनार्थस्येणो णौ गमिः स्यात् स च मित् खलु । गमयत्यटवीं वत्सान् प्रत्याययति बोधने ॥ ७४७ ॥ तथेण्वदिक इत्युक्तेः कथाऽधिगमयेद्धरिम् । चङि त्वजीगमत् तद्वत् प्रत्यायियदितीक्ष्य्ताम् ॥ ७४८ ॥</karika>

Sutra Prayogas

  • प्रत्याययतु (रघुवंशम्): णौ गमिरबोधने इति इणो गम्यादेशो नास्ति।