23031: एनपा द्वितीया¶
Padacheda: एनपा | S | 3 | 1 |
द्वितीया | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
With a word ending with the affix एनाप् – एनबन्यतरस्यामदूरेऽपञ्चम्याः (5.3.35), the 2nd case-affix is used, as well as the 6th.
Vasu English Translation¶
With a word ending with the affix एनाप् – एनबन्यतरस्यामदूरेऽपञ्चम्याः (5.3.35), the 2nd case-affix is used, as well as the 6th. Ex. दक्षिणेन ग्रामम् ग्रामस्य वा ‘south of the village.’
Kashika¶
एनबन्यतरस्यामदूरेऽपञ्चम्याः (५.३.३५) इति वक्ष्यति। तेन युक्ते द्वितीया विभक्तिर्भवति। पूर्वण षष्ठ्यां प्राप्तायामिदं वचनम्। दक्षिणेन ग्रामम्। उत्तरेण ग्रामम्। षष्ठ्यपीष्यते। दक्षिणेन ग्रामस्य। उत्तरेण ग्रामस्य। तदर्थं योगविभागः कर्तव्यः॥
Siddhanta Kaumudi¶
एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥
Balamanorama¶
एनपा द्वितीया - एनपा द्वितीया ।षष्ठतसर्थे॑ति षष्ठआ नित्य बाधे प्राप्ते आह — योगविभागादिति । एनपेति योगो विभज्यते ।षष्ठतसर्थे॑ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते । एनबन्तेनयोगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ।एनबन्यतरस्यामदूरेऽपञ्चम्याः॑ इत्येनप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः । भाष्ये तुषष्ठतसर्थे॑ति सूत्रात्प्राक् ‘एनपा द्वितीया’ इत्यस्य पाठ इति ‘पृथग्विना’ इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठसाधुरेवेति युक्तम् ।
Tattvabodhini¶
एनपा द्वितीया - एवपा । कथं तर्हितत्रागारं धनपतिगृहादुत्तरेणास्मदीयम् इति । उत्तरेणेत्येतत्दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तेरणेन॑ इति तोरणसमानाधिकरणं तृतीयान्त न त्वेनबन्तमित्याहुः ।धनपतिगृहानुत्तरेणास्मदीयम् इति कैश्चित्पटते, तदा तु सम्यगेव । दक्षिणेनेति । दक्षिणस्यामदूर इत्यर्थेएनबन्यतरस्याम् इत्यादिना एनप् । (५४०) दूरान्तिकार्थैः षष्ठन्यतरस्याम् ।२.३.३४ ।दूरान्तिकार्थैः । षष्ठआं प्राप्तायां पक्षे पञ्चम्यर्थं वचनम् । इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु सन्निहिते अपि द्वितीयातृतीये, तदेतदाह — पञ्चमी चेति । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । ज्ञानपूर्वीकायां प्रवृत्तौ जानातेर्लक्षणा ।
Padamanjari¶
एनपा द्वितीया॥’तत्रागारं धनपतिगृहादुतरेणास्मदीयम्’ - स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्॥
Praudhamanorama¶
कथं तर्हि ‘तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्’ इति? उत्तरेणेति तृतीयान्ततोरणेनेत्यनेन समानाधिकरणं बोद्ध्यम्।
Prakriyasarvasvam¶
एनपा योगे द्वितीया षष्ठी च स्यात् । दक्षिणेन ग्रामं, ग्रामस्य वा । ‘स्त्र्यधिकारात् परेणे’त्यादि चिन्त्यमिति हरः ॥
Sutra Prayogas¶
दण्डकान्दक्षिणेनाऽहं (भट्टिकाव्यम्): एनपा द्वितीया इति द्वितीया।