23031: एनपा द्वितीया ==================== **Padacheda:** एनपा | S | 3 | 1 | द्वितीया | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- With a word ending with the affix एनाप् -- एनबन्यतरस्यामदूरेऽपञ्चम्याः (5.3.35), the 2nd case-affix is used, as well as the 6th. Vasu English Translation ------------------------ With a word ending with the affix एनाप् -- एनबन्यतरस्यामदूरेऽपञ्चम्याः (5.3.35), the 2nd case-affix is used, as well as the 6th. Ex. दक्षिणेन ग्रामम् ग्रामस्य वा 'south of the village.' Kashika ------- **एनबन्यतरस्यामदूरेऽपञ्चम्याः** (५.३.३५) इति वक्ष्यति। तेन युक्ते द्वितीया विभक्तिर्भवति। पूर्वण षष्ठ्यां प्राप्तायामिदं वचनम्। दक्षिणेन ग्रामम्। उत्तरेण ग्रामम्। षष्ठ्यपीष्यते। दक्षिणेन ग्रामस्य। उत्तरेण ग्रामस्य। तदर्थं योगविभागः कर्तव्यः॥ Siddhanta Kaumudi ----------------- एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥ Balamanorama ------------ **एनपा द्वितीया** - एनपा द्वितीया ।षष्ठतसर्थे॑ति षष्ठआ नित्य बाधे प्राप्ते आह — योगविभागादिति । एनपेति योगो विभज्यते ।षष्ठतसर्थे॑ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते । एनबन्तेनयोगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ।एनबन्यतरस्यामदूरेऽपञ्चम्याः॑ इत्येनप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः । भाष्ये तुषष्ठतसर्थे॑ति सूत्रात्प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठसाधुरेवेति युक्तम् । Tattvabodhini ------------- **एनपा द्वितीया** - एवपा । कथं तर्हितत्रागारं धनपतिगृहादुत्तरेणास्मदीयम् इति । उत्तरेणेत्येतत्दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तेरणेन॑ इति तोरणसमानाधिकरणं तृतीयान्त न त्वेनबन्तमित्याहुः ।धनपतिगृहानुत्तरेणास्मदीयम् इति कैश्चित्पटते, तदा तु सम्यगेव । दक्षिणेनेति । दक्षिणस्यामदूर इत्यर्थेएनबन्यतरस्याम् इत्यादिना एनप् । (५४०) दूरान्तिकार्थैः षष्ठन्यतरस्याम् ।२.३.३४ ।दूरान्तिकार्थैः । षष्ठआं प्राप्तायां पक्षे पञ्चम्यर्थं वचनम् । इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु सन्निहिते अपि द्वितीयातृतीये, तदेतदाह — पञ्चमी चेति । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । ज्ञानपूर्वीकायां प्रवृत्तौ जानातेर्लक्षणा । Padamanjari ----------- एनपा द्वितीया॥'तत्रागारं धनपतिगृहादुतरेणास्मदीयम्' - स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्॥ Praudhamanorama --------------- कथं तर्हि 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्' इति? उत्तरेणेति तृतीयान्ततोरणेनेत्यनेन समानाधिकरणं बोद्ध्यम्। Prakriyasarvasvam ----------------- एनपा योगे द्वितीया षष्ठी च स्यात् । दक्षिणेन ग्रामं, ग्रामस्य वा । 'स्त्र्यधिकारात् परेणे'त्यादि चिन्त्यमिति हरः ॥ Sutra Prayogas -------------- * **दण्डकान्दक्षिणेनाऽहं** (भट्टिकाव्यम्): `एनपा द्वितीया` इति द्वितीया।