23032: पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्¶
Padacheda: पृथक्-विना-नानाभिः | S | 3 | 3 |
तृतीया | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
When joined with the words पृथक् ‘without’, विना ‘without’ and नाना ‘without’, the 3rd case-affix is used, optionally (as well as the 5th and the 2nd).
Vasu English Translation¶
When joined with the words पृथक् ‘without’, विना ‘without’ and नाना ‘without’, the 3rd case-affix is used, optionally (as well as the 5th and the 2nd). Ex. रामाद्रामेण रामं वा विना पृथग् नाना वा ‘without or different from Rama.’
This sutra may be divided into two parts:- (1) पृथग् विना नानाभिः (2) तृतीयाऽन्यतरस्याम्. By this arrangement we can read dvitiya into the aphorism.
विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्ति कृतान्दोषान् केनेमौ पातितौ द्रुमौ ॥
Bhashya¶
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् 490 (315 उपपदतृतीयापञ्ञ्चमीसूत्रम् ॥ 2.3.2 आ.10) (पञ्ञ्चमीसाधनाधिकरणम्) (1506 वार्तिकप्रथमखण्डम् ॥ 1 ॥) - पृथगादिषु पञ्ञ्चमीविधानम् - (भाष्यम्) पृथगादिषु पञ्ञ्चमी विधेया - पृथग् देवदत्तात् ॥ (आक्षेपभाष्यम्) किमर्थं न प्रकृतं पञ्ञ्चमीग्रहणमनुवर्तते?। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति ॥ (1507 वार्तिकद्वितीयखण्डम् ॥ 2 ॥) - अनधिकारात् - अनधिकारः सः ॥ (1508 वार्तिकतृतीयखण्डम् ॥ 3 ॥) - अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः - (भाष्यम्) अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधो वक्तव्यः स्यात्। दक्षिणेन ग्रामम्, दक्षिणतो ग्रामस्येति ॥ (वार्तिकप्रत्याख्यानभाष्यम्) एवं तर्हि - अन्यतरस्यांग्रहणसार्मथ्यात्पञ्ञ्चमी भविष्यति ॥ (सार्मथ्यनिराकारणभाष्यम्) अस्त्यन्यदन्यतरस्यांग्रहणस्य प्रयोजनम् ॥ किम्?। यस्यां नाप्राप्तायां तृतीयारभ्यते सा यथा स्यात् ॥ कस्यां च नाप्राप्तायाम्?। अन्ततः षष्ठ्याम् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति ॥ (आक्षेपभाष्यम्) ननु-चेक्तमनधिकारः सः ()अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः() इति प्र्प्र् (समाधानभाष्यम्) एवं तर्हि संबन्धमनुवर्तिष्यते - अपादाने पञ्ञ्चमी। अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते पञ्ञ्चमी। षष्ठ्यतसर्थप्रत्ययेन अन्यारादिभिर्योगे पञ्ञ्चमी। एनपाद्वितीया अन्यारादिभिर्योगे पञ्ञ्चमी। पृथग्विनानानाभिस्तृतीयान्यतरस्याम् पञ्ञ्चमीग्रहणमनुवर्तते, अन्यारादिभिर्योगे इति निवृत्तम् ॥ (समाधानान्तरभाष्यम्) अथ वा मण्डूकप्लुतयोधिकाराः। तद्यथा - मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥ (भाष्यम्) अथ वा - (1509 वार्तिकम् 4 ॥) ()अन्यवचनाच्चकाराकरणात्प्रकृतस्यापवादो विज्ञायते यथोत्सर्गेण प्रसक्तस्य() (भाष्यम्) अन्यस्या विभक्तेर्वचनाच्चकारस्यानुकर्षणार्थस्याकरणात्प्रकृतायाः पञ्ञ्चम्या द्वितीयाषष्ठ्यौ बाधिके भविष्यतः। यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ॥ (समाधानान्तरभाष्यम्) अथ वा वक्ष्यत्येतत् - अनुवर्तन्ते च नाम विधयः। न चानुवर्तनादेव भवन्ति। किं तर्हि? यत्नाद्भवन्तीति पृथग्विना ॥ 32 ॥
Kashika¶
पञ्चमीग्रहणमनुवर्तते। पृथग् विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पञ्चमी च। पृथग् देवदत्तेन, पृथग् देवदत्तात्। विना देवदत्तेन, विना देवदत्तात्। नाना देवदत्तेन, नाना देवदत्तात्। पृथग्विनानानाभिरिति योगविभागो द्वितीयार्थः।
विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ॥ हरि०पु० ७.२९ ॥
Siddhanta Kaumudi¶
एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥
Balamanorama¶
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् - पृथग्विना । पञ्चमीद्वितीये चेति । ‘तृतीयाऽभावपक्षे’ इति शेषः । ‘अपादाने पञ्चमी’षष्ठतसर्थप्रत्ययेन॑ ‘एनपा द्वितीया’ ‘पृथग्विना’ इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठतसर्थेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह — अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याःषष्ठतसर्थे॑त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह — पञ्चमीद्वितीये चानुवर्तेते इति ।मण्डूकप्लुत्ये॑ति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति । विना रामेण, रामात्, रामम्, । नाना रामेण, रामात्, रामं वा । पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् ।पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने॑ इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः ।
Tattvabodhini¶
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् - पृथग्विना । ननु तृतीयाऽभावपक्षेएनपा द्वितीया॑ इति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्, तदा पञ्चम्यपि स्यात् । सा तु नित्यैव । तस्माद्विभक्तित्रयसमवेशो दुरुपपाद इत्यत आह -अन्यतरस्याङ्ग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । पञ्चमिति । तत्र भण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहुः ।पृथङ्नानाञ्भिस्तृतीयान्यतरस्याम् इति सुवचम् । नानाञिति प्रत्ययग्रहणे तदन्तयोर्विनानानाशब्दयोर्लाभात् । नानेति ।हिरुङ्नाना च वर्जने॑ इत्यमरः ।नानानारीं निष्फला लोकयात्रा॑ इति प्रयोगः ।
Padamanjari¶
पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह - पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूअकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम्’पञ्चमीग्रहणमिहानुवर्तते’ इत्युच्यते। योगविभागः कर्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्॥
Praudhamanorama¶
समुच्चयार्थमिति। निपातानामनेकार्थत्वादिति भावः। पञ्चमीति। तत्र मण्डूकप्लुत्या पञ्चमी। द्वितीया तु सन्निहितैव।
Prakriyasarvasvam¶
अत्रान्यतरस्यामिति समुच्चये । <karika>एभिर्योगे तृतीया च द्वितीयापि च पञ्चमी । न कृष्णेन पृथक् कृष्णं पृथक् कृष्णात् पृथग्जगत् ॥ ५४१ ॥ किं कृष्णेन विना कृष्णं विना कृष्णाद्विना सुखम् । कृष्णेन नाना कृष्णं वा कृष्णाद् वा नास्ति किञ्चन ॥ ५४२ ॥</karika>
Sutra Prayogas¶
गुणानुरोधेन (किरातार्जुनीयम्): पृथग्विनानाभिस्तृतीयाऽन्यतरस्याम् इत्यादिना तृतीया।
त्वद्विना (किरातार्जुनीयम्): पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इत्यादिना पञ्चमी।
त्वद्विना (शिशुपालवधम्): पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति विकल्पात् पञ्चमी।
पृथङ्नभस्वतश्चण्डाद्वैनतेयेन वा विना (भट्टिकाव्यम्): पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति पृथक्-विना-योगे तृतीयापञ्चम्यौ भवतः।
विपत्ते- (भट्टिकाव्यम्): पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति पञ्चमी।
विना (भट्टिकाव्यम्): पृथग्विना इति पञ्चमी।
अतिकायाद्विना (भट्टिकाव्यम्): पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् इति पञ्चमी।