23030: षष्ठ्यतसर्थप्रत्ययेन

Padacheda: षष्ठी | S | 1 | 1 |

अतसर्थ-प्रत्ययेन | S | 3 | 1 |

Sutrartha


Vasu English Summary

The 6th-Case-affix is used when used in connection with words ending with affixes having the sense of the affix अतसुच – दक्षिणोत्तराभ्यामतसुच् (5.3.28).

Vasu English Translation

The 6th-Case-affix is used when used in connection with words ending with affixes having the sense of the affix अतसुच – दक्षिणोत्तराभ्यामतसुच् (5.3.28). The affix अतसुच् is ordained by (5.3.28).

Ex. ग्रामस्य दक्षिणतः उत्तरतः पुरस्तात् उपरि वा ‘to the south or north, foremost, in or above the village.’

Bhashya

षष्ठ्यतसर्थप्रत्ययेन 488 (314 उपपदविभक्तिसूत्रम् ॥ 2.3.2 आ.9 ॥) (पदकृत्याधिकरणम्) (आक्षेपभाष्यम्) अर्थग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) षष्ठ्यतस्प्रत्ययेन इत्युच्यमाने इहैव स्यात् - दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्येति, इह न स्यात् - उपरि ग्रामस्य उपरिष्टाद् ग्रामस्येति। अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धं भवति - यश्चान्यस्तेन समानार्थः ॥ (आक्षेपभाष्यम्) अथ प्रत्ययग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) इह मा भूत - प्राग्ग्रामात्, प्रत्यग्ग्रामात् ॥ (उपसंहारभाष्यम्) अञ्ञ्चूत्तरपदस्याप्येतत्प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम् ॥ षष्ठ्यतस ॥ 30 ॥

Kashika

दक्षिणोत्तराभ्यामतसुच् (५.३.२८) इति वक्ष्यति, तस्येदं ग्रहणम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य॥

Siddhanta Kaumudi

एतद्योगे षष्ठी स्यात् । दिक्शब्द (SK595) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥

Balamanorama

षष्ठ्यतसर्थप्रत्ययेन - षष्ठतसर्थ । एतद्योगे इति ।दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः॑ इत्यारभ्य ‘आहि च दूरे’उत्तराच्चे॑त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्रदक्षिणोत्तराभ्यामतसुच् इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात् । दिक्शब्देतीति ।अन्यारादि॑ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः । एवं देशे काले च । पुर इति । पूर्वाशब्दादस्तात्यर्थे॒पूर्वाधरावराणामसि पुरधवश्चैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सतिआस्ताति चे॑ति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ।उपर्युपरिष्टादि॑ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः । ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः । एवं देशे कालेऽपि ।

Tattvabodhini

षष्ठ्यतसर्थप्रत्ययेन - षष्ठसर्थ ।दक्षिणोत्तराभ्यामतसुच् इत्यस्य योऽर्थे दिग्देशकालरूपः सोऽर्थे यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतियञ्च, तदन्तेन योगे इत्यर्थः । अचसुचोऽस्तात्यनन्तरत्वेपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः । पञ्चाम्या अपवाद इति ।ततः पश्चात्स्त्रंस्यते ध्वंस्यते च॑ इति भाष्यप्रयोगात्पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः । अस्मादेव भाष्यप्रयोगात्पश्चाच्छब्देनाऽव्ययीभावो न भवतीति वक्ष्यते । प्रत्ययग्रहणं किम् । इह मा भूत्, प्राग्ग्रामात् । प्रत्यग्ग्रामात् । कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत् । अत्राहुः कैयटादयः — प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठभावः ।अन्यारात् -॑इत्यत्राञ्चूत्तरपदस्यापीदं प्रयोजनमुक्तम् । तत्रान्यतरच्छक्यमवक्तुम्, एक प्रयोजनत्वादिति । प्रत्ययग्रहणं चिनत्यप्रयोजनमिति तु मनोरमायां स्थितम् । पुर इति ।पीर्वाधरावराणाम् इत्यसिप्रत्यये पुरादेशः । पुरस्तादिति.॒दिक्शब्देभ्यः॑ इत्यादिनाऽस्तातिः,अस्ताति च॑ इति पूर्वस्य पुरादेशः ।

Padamanjari

षष्ठ।ल्तसर्थप्रत्ययेन॥ अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति।’पूर्वाधरावराणामसिपुरधवश्चैषाम्’ ठस्ताति चऽ इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः,’ततः पश्चाद्धस्ती’ इति भाष्यकारप्रयोगात्पञ्चमी॥

Prakriyasarvasvam

अतसुजर्थैर्योगे षष्ठी स्यात् । दक्षिणतो ग्रामस्य । पुरस्तात् पश्चाद् वा ग्रामस्य । ‘ततः पश्चा’दिति भाष्यप्रयोगात् पञ्चम्यपि । अतः परस्तात् ॥

Sutra Prayogas

  • शिरसो (किरातार्जुनीयम्): षष्ठ्यतसर्थप्रत्ययेन इति षष्ठी।

  • लवण-तोयस्य (भट्टिकाव्यम्): षष्ठ्य- तसर्थप्रत्ययेन इति पष्ठी।