23029: अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते

Padacheda: अन्य-आरात्-इतर-ऋते-दिक्-शब्द-अञ्चु-उत्तरपद-आच्-आहियुक्ते | S | 7 | 1 |

Sutrartha


Vasu English Summary

When a noun is joined with words meaning ‘other than’ or with आरात् ‘near or remote’, or इतर ‘different from’ or ऋते ‘without’, or words indicative of ‘directions’ (used also with reference to the time corresponding to them) or with words having अञ्चु ‘to bend’ as the last member of the compound and expressive of direction, or with words ending with the affix आच् – दक्षिणादाच् (5.3.36) or आहि – आहि च दूरे (5.3.37), the 5th case-affix is used.

Vasu English Translation

When a noun is joined with words meaning ‘other than’ or with आरात् ‘near or remote’, or इतर ‘different from’ or ऋते ‘without’, or words indicative of ‘directions’ (used also with reference to the time corresponding to them) or with words having अञ्चु ‘to bend’ as the last member of the compound and expressive of direction, or with words ending with the affix आच् – दक्षिणादाच् (5.3.36) or आहि – आहि च दूरे (5.3.37), the 5th case-affix is used. Ex. अन्यो, भिन्नो, इतरो, अर्थान्तरं, विलक्षणो वा देवदत्तात् ‘different from Devadatta’ आराद् देवदत्तात् ‘remote from or near to Devadatta.’ The word arat meaning ‘near or remote’ would have taken the sixth case-affix by sutra 34, but this enjoins 5th case-affix. ऋते देवदत्तात् ‘excepting Devadatta.’ पूर्वो ग्रामात् ‘east of the village,’ उत्तरो ग्रामात् ‘north of the village,’ पूर्वो ग्रीष्मात् वसन्तः ‘the spring is prior to summer’ प्राक् प्रत्यग्वा ग्रामात् ‘to the east or west of the village’ दक्षिणा दक्षिणाहि वा ग्रामात् ‘to the south or in the eastern direction of the village.’

The words like प्राक् &c., formed from the verb anchu are also दिक्शब्दः; their separate enumeration shows that the sixth case-affix ordained by the next sutra does not come after them.

Bhashya

अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते 487 (313 उपपदपञ्ञ्चमीसूत्रम् ॥ 2।3। 2 आ.8 ॥) (आक्षेपभाष्यम्) अञ्ञ्चूत्तरपदग्रहणं किमर्थम्। न दिक्शब्दैर्योग इत्येव सिद्धम् ? ॥ (समाधानभाष्यम्) षष्ठ्यतसर्थप्रत्ययेन इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः ॥ अन्यारा ॥ 29 ॥

Kashika

अन्य आरात् इतर ऋते दिक्छब्द अञ्चूत्तरपद आच् आहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति। अन्य इत्यर्थग्रहणम्। तेन पर्यायप्रयोगेऽपि भवति। अन्यो देवदत्तात्। भिन्नो देवदत्तात्। अर्थान्तरं देवदत्तात्। विलक्षणो देवदत्तात्। आराच्छब्दो दूरान्तिकार्थे वर्तते। तत्र दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (२.३.३४) इति प्राप्ते पञ्चमी विधीयते। आराद् देवदत्तात्। आराद् यज्ञदत्तात्। इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते। इतरो देवदत्तात्। ऋत इत्यव्ययं वर्जनार्थे। ऋते देवदत्तात्। ऋते यज्ञदत्तात्। दिक्शब्दः — पूर्वो ग्रामात् पर्वतः। उत्तरो ग्रामात्। पूर्वो ग्रीष्माद् वसन्तः। उत्तरो ग्रीष्मो वसन्तात्। दिक्छब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनापि दिक्छब्देन योगे यथा स्यात्, इतरथा हि दिग्वृत्तिनैव योगे स्यात् — इयमस्याः पूर्वेति। इह तु न स्यात् — अयमस्मात् पूर्वः काल इति। अञ्चूत्तरपद — प्राग् ग्रामात्। प्रत्यग् ग्रामात्। ननु चायमपि दिक्शब्द एव? षष्ठ्यतसर्थप्रत्ययेन (२.३.३०) इति वक्ष्यति , तस्यायं पुरस्तादपकर्षः। आच् — दक्षिणा ग्रामात्। उत्तरा ग्रामात्। आहि — दक्षिणाहि ग्रामात्। उत्तराहि ग्रामात्॥

Siddhanta Kaumudi

एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् (SK83) इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ (SK609) इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी (SK587) इति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः (SK666) इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥

Balamanorama

अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते - अन्यारात् । युक्त इति भावे क्त इत्याह-एभिर्योगे इति । अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह — अन्येत्यर्थग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थकशब्दयोगे पञ्चमीति फलितम् । तर्हितरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह — इतरग्रहणं प्रपञ्चार्थमिति ।पचि विस्तारे॑ । अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति । भेदवान्विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्ठपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाऽभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । ‘आराद्दूरसमीपयोः’ इत्यमरः । ऋते कृष्णादिति । ‘ऋते’ इत्येकारान्तमव्ययम् । ‘ऋते वर्जने’ इत्यमरः । कृष्मस्य वर्जने सुखं नास्तीत्यर्थः ।क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते॑ इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः ।ततोन्यत्रापि दृश्यते॑ इति वा द्वितीया ।ऋते द्वितीया चे॑ति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति — पूर्वो ग्रामादिति । ग्रासावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननुचैत्रात्पूर्वः फाल्गुन॑ इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाऽभावात्कथं तद्योगे पञ्चमीत्यत आह — दिशि दृष्ट इति । रूढआ दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते नत्वैन्द्रीककुबादयः । संप्रतीति । कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह — अवयववाचीति । तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं पराभृशति । द्विरुक्तस्य परं=परावयवभूतमाम्रेहितमिति तदर्थः । पूर्वं कायस्येति । शसीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुरुत्तरपदं यस्य स अञ्चूत्तरपदः=प्रागादिदिक्छब्दः, नतु सध्र्यङ् इत्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्र्यङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह — अञ्चूत्तरपदस्येति.॒षष्ठतसर्थे॑त्नन्तरंपरत्वात्प्राप्ता॑मिति शेषः । प्राक् प्रत्याग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । अच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्राभावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । ‘आहि च दूरे’ इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपिषष्ठतसर्थे॑ति षष्ठीं बाधितुं पृथग्ग्रहणम् । नन्वेवमपिभवात्प्रभृत्यारभ्य वा सेव्यो हरिः॑ इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाऽभावादित्यत आह — अपादाने इति । प्रभृतियोगे इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि — ॒अपादाने पञ्चमी॑ति सूत्रे भाष्येयतश्चाध्वकालनिमानमि॑ति वार्तिकं पठित्वा कार्तिक्या आग्रहायणी मासे इत्युदाहृत्यइदं न वक्तव्यमि॑ति तद्वार्तिकप्रत्याख्यानमुपक्षिप्यइदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे॑ इत्युक्तम् । प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृताप्रभृत्यर्थकशब्दयोगे पञ्चमी॑ति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । एवंच प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव चकार्तिक्याः प्रभृति॑ इति भाष्यव्याख्यावसरे ‘तत आरभ्येत्यर्थ’ इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत्सर्वमभिप्रेत्योदाहरति — भवात्प्रभृत्यारभ्य वेति । भवः=उत्पत्तिः । आरभ्येत्यस्यावधिं परिगृह्रेत्यर्थः । प्रभृतीत्यव्ययमप्येतदर्थकमेव । भवमवधिं परिगृह्र हरिः सेव्य इत्यर्थः । उत्तपत्तिक्षणात्मकपूर्ववधिकोत्तरकाले सर्वदा आमरणं हरिः सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात्पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दार्थस्यावधिं परिगृह्रेत्यस्यावध्यादिघटित्वेन क्रियात्वाऽभावात् । अपपरीति । बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्यअपपरिबहिरञ्चवः पञ्चम्या॑ इति समासविधानाद्बहिश्शब्दयोगे पञचमी विज्ञायते इत्यर्थः । इदंचअपपरी॑ति सूत्रे भाष्ये स्पष्टम् । ‘करस्य करमो बहिः’ इति त्वसाध्वेव ।ज्ञापकसिद्धं न सर्वत्रे॑ति वा कथञ्चित्समाधेयम् ।

Tattvabodhini

अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते - अन्यो भिन्न इतरो वेति । न चैवं॒घटः पटो ने॑त्यत्रातिप्रसङ्गः, नञोऽपि भेदे शक्तत्वादिति वाच्यम्, निपातानां द्योकत्वमेव न तु वाचकत्वमित्युभ्युपगमात्ा । आराद्वनादिति । इहदूरान्तिकार्थैः षष्ठन्यतरस्याम् इति प्राप्तम् । ऋते कृष्णादिति । कथं तर्हिफलति पुरुषाराधनमृते॑ इति प्रयोग इति चेत् । प्रमादोऽयमिति हरदत्तः । अन्ये तु — — ॒ततोऽन्यत्रापि दृश्यते॑ इतिं दृशिग्रहणाच्चैत्रं यावच्छीतमित्यादाविव ऋतेयोगे द्वितीयाऽपि साधुरित्याहुः । अस्मिन् व्याख्यानेऋते द्वितीया च॑ इति चान्द्रसूत्रमनुकूलम् । दिशि दृष्ट इति ।रुढये॑ ति शेषः । तेनैन्द्यादयो नात्र गृह्यन्ते । नन्वेवं ककुबादिग्रहणप्रसङ्ग इति चेत् । अत्राहुः -अन्यतरसाहचार्याव्द्याख्यानाद्वा दिग्भिन्नेर्थे यो न दृष्टः सोऽत्र गृह्रत इति । दिक्शब्दत्वेऽपीति । यद्यपि अदिक्शब्दोऽप्यञ्चूत्तरपदमस्ति सध्य्रङित्यादिः, तथापि दिक्शब्दसाहचर्यादञ्चूत्तरपदेन प्रागित्यादिदिक्शब्द एव गृह्रते । तेन सध्य्रङ् देवदत्तेनेत्यत्र नातिप्रसङ्ग इति भावः । दक्षिणा ग्रानादिति । दिक्शब्दत्वेनैव सिद्धे आजाहिग्रहणं चिन्त्यप्रयोजनमित्याहुः । प्रभृतियोग ति । प्रभृत्यर्थेर्योग इत्यर्थः । तथा चकार्तिक्या प्रभृति॑ इति भाष्यं विवृण्वता कैयटेनतत आरभ्य इत्यर्थ॑ इति प्रयुक्तम् । ग्रामाद्बहिरिति ।ज्ञापकसिद्धं न सर्वत्र॑ । तेनकरस्य करभो बहिः॑ इति सिद्धम् ।

Padamanjari

अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ अन्य इत्यथेग्रहणमिति। व्याख्यानात्। निर्द्दिश्यमानप्रतियोगीति। यथा देवदतयज्ञदतयोः प्रकृतयोराह - देवदतः शूरः, इतरः कातर इति; तस्यान्यार्थान्तर्भावोऽस्तीति चिन्त्यम्। ऋते यज्ञदतादिति। कथं यत्किञ्चिद्राजसूयमृते सोममिति? छान्दसत्वात्, कथं’न मामृते राम बाली’ इति? क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतेऽ इति च? निरंकुशाः कवयः। शब्दग्रहणमिति। सति हि तस्मिन् दिशि द्दष्टः शब्दो दिक्शब्द इत्युतरपदलोपी समासो लभ्यते, तेन यदा कदाचिद्दिशि द्दष्टेन संप्रति देशकालवर्तिनापि योगे भवति - ग्रामात्पूर्वो देशश्चैत्रात्पूर्वः फाल्गुन इति। अवयववाचिभिस्तु योगे न भवति - पूर्व कायस्येति,’तस्य परमाम्रेडितम्’ इति निर्देशात्। ननु चायमपीति। सध्«अङ् देवदतेनेत्यादावदिक्शब्दार्थमञ्चूतरपदग्रहणं न भवति, दिक्शब्दैः साहचर्यादस्यापि दिक्शब्दस्यैव ग्रहणादिति भावः। दक्षिणेति।’दक्षिणादाच्’ ; आहि च दूरेऽ उतराच्चऽ इत्याजाही प्रत्ययौ॥

Nyaas

अन्य इत्यर्थग्रहणम् इति। अर्थद्वारक एव हि शब्दस्य शब्दान्तरणे योगो भवति। तस्मादर्थस्येदं ग्रहणं विज्ञायते। तेनेत्यादिनाऽर्थग्रहणस्य फलं दर्शयति। अथान्यो देवदत्ताद्यज्ञदत्त इति यज्ञदत्तशब्दादपि पञ्चमी कस्मान्न भवति? देवदत्तादुत्पन्नया पञ्चम्योभयगतस्याप्यन्यत्वस्य प्रतिपादित्वात् तद्विशिष्टमन्यत्वमेकत एवोत्पाद्यमानया पञ्चम्या शक्यं प्रतिपादयितुमिति द्वितीयसम्बन्धिनः पञ्चमी न भवति।इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते इति।यथा क्वचित्प्रकरणे द्वौ प्रकृतौ - देवदत्तः, अन्यश्च कश्चित्। तत्रैकस्तावन्निर्दिश्यते - देवदत्तः शूर इति। तस्य निर्दिश्यमानस्य योऽसौ द्वितीयः सम्बन्धी प्रतियोगी स इतरशब्देनोच्यते, यथा - इतरः कातर इति। शब्दग्रहणम्ित्यादि। शब्दग्रहणे सति दिशि दृष्टः शब्दो दिक्शब्द इतेषोऽर्थो लभ्यते। तेन योऽपि सम्प्रति दिक्शब्दो देशे काले च वर्तते, सोऽपि दिशि दुष्ट इति तद्योगे पञ्चमी भवति। तत्र देशवृत्तिना पञ्चमी - पूर्वो ग्रामात् पर्वत इति। कालवृत्तिनाऽपि - पूर्वो ग्रीष्माद्वसन्त इति। `इतरथा हि दिग्वृत्तिनैव योगे स्यात् इति। तत्रैव दिक्शब्दस्य मुख्यत्वात्।प्राग्ग्रामात् इति। प्रपूर्वादञ्चतेरृत्विगादिसूत्रेण (3.2.59) क्विन्प्रत्ययः। तदन्ताद्यदादिशब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकाल (5.3.27) इत्यादिना विहितस्य स्तातेः अञ्चेर्लुक् (5.3.30) इति लुक्; लुकि कृते तदेदमुदाहरणम्। दक्षिणा ग्रामादुत्तरा ग्रामात्। `दक्षिणाहि ग्रामादुत्तराहि ग्रामात् इति। दक्षिणादाच आहि च दूरे (5.3.37) उत्तराच्च (5.3.38) इत्याजाही प्रत्ययौ॥

Praudhamanorama

प्रपञ्चार्थमिति। न च ‘इतरस्त्वन्यनीचयोः’ इत्यमरोक्तेर्नीचार्थकस्येदं ग्रहणमिति वाच्यम्, ‘अस्मात्तारो मन्द्रो वा’ इत्यादाविव ‘पञ्चमी विभक्ते’ इत्यनेनैव सिद्धत्वात्। यत्तु इतर इति निर्दिश्यमानप्रतियोगिक एव प्रयुज्यते । तद्यथा— चैत्रः शूरः, इतरः कातर इति। अतो नायमन्यार्थ इति; तन्मन्दम्, प्रतियोग्याऽऽकाङ्क्षाया उभयत्र तुल्यत्वात् उदाहृतकोशविरोधाच्च। ऋते कृष्णादिति। कथन्तर्हि ‘पुरुषाराधनमृते’ इति? प्रमादोऽयमित्येके। अन्ये तु ‘उभसर्वतसोः’ इत्यत्र दृशिग्रहणात् ‘चैत्रं यावच्छीतम्’ इत्यादाविव ऋतेयोगे द्वितीयापि साधुरित्याहुः। युक्तं चैतत्, ‘ऋते द्वितीया च’ इति चान्द्रसूत्रात्। प्रभृत्यर्थयोग इति। प्रभृत्यर्थैर्योग इत्यर्थः। तथा च ‘कार्तिक्याः प्रभृति’ इति भाष्यं विवृण्वन् कैयटः प्रायुङ्क्त— तत आरभ्येत्यर्थः इति।

Prakriyasarvasvam

एभिर्योगे पञ्चमी स्यात् । अन्येत्यर्थग्रहः । अन्यः कृष्णात् । भिन्नः कृष्णात् । आराद्वनात् । इतरो विपरीतः । इतरो धर्मात् । ऋते कृष्णात् । ‘ऋते द्वितीया च’ (स० ३-१-२४५) इति भोजः । ऋते कृष्णम् । दिक्छब्दे तु-पूर्वो ग्रामात् । तस्मात् पूर्वः कालः । अञ्चूत्तरपदाः प्रागादयः । तेषां दिक्शब्दत्वेऽपि । ‘अञ्चेर्लुक्’ (५-३-३०) इत्यतसुजर्थयोगात् वक्ष्यमाणषष्ठीबाधायाक्तिः । प्राग् ग्रामात् । आच्-दक्षिणा ग्रामात् । आहि दक्षिणादि ग्रामात् । ‘आरभ्यार्थयोगेऽपी’ति मुग्धबोधे । दर्शनादातुभ्य । दर्शनात् प्रभृति ॥

Sutra Prayogas

  • मत्परं (रघुवंशम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी।

  • तुरंगमात् (रघुवंशम्): अन्यारादितरर्ते- इति पञ्चमी।

  • कबन्धेभ्यो (रघुवंशम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी।

  • कृशानोः (कुमारसम्भवम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति सूत्रेण ऋतेयोगे पञ्चमी।

  • सृष्टेः (कुमारसम्भवम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी।

  • त्वद् (कुमारसम्भवम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी।

  • त्वदन्यः (किरातार्जुनीयम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी।

  • वधाद् (किरातार्जुनीयम्): अन्यारादितरर्त- इत्यादिना पञ्चमी।

  • चमूपतेः (किरातार्जुनीयम्): अन्यारात्- इत्यादिना पञ्चमी।

  • भवतः (किरातार्जुनीयम्): अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति पञ्चमी विभक्तिः।

  • रवेः (शिशुपालवधम्): अन्यारादितरर्ते… इति पञ्चमी।

  • मरणादृते (शिशुपालवधम्): अन्यारादितरर्तेदिकशब्दाञ्चूत्तरपदाजाहियुक्ते इति ऋते-योगे पञ्चमी।

  • तरोरारादैति (भट्टिकाव्यम्): अन्यारात् इत्याराच्छन्दयोगे पञ्चमी।