23030: षष्ठ्यतसर्थप्रत्ययेन =========================== **Padacheda:** षष्ठी | S | 1 | 1 | अतसर्थ-प्रत्ययेन | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The 6th-Case-affix is used when used in connection with words ending with affixes having the sense of the affix अतसुच -- दक्षिणोत्तराभ्यामतसुच् (5.3.28). Vasu English Translation ------------------------ The 6th-Case-affix is used when used in connection with words ending with affixes having the sense of the affix अतसुच -- दक्षिणोत्तराभ्यामतसुच् (5.3.28). The affix अतसुच् is ordained by (5.3.28). Ex. ग्रामस्य दक्षिणतः उत्तरतः पुरस्तात् उपरि वा 'to the south or north, foremost, in or above the village.' Bhashya ------- षष्ठ्यतसर्थप्रत्ययेन 488 (314 उपपदविभक्तिसूत्रम् ॥ 2.3.2 आ.9 ॥) (पदकृत्याधिकरणम्) (आक्षेपभाष्यम्) अर्थग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) षष्ठ्यतस्प्रत्ययेन इत्युच्यमाने इहैव स्यात् - दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्येति, इह न स्यात् - उपरि ग्रामस्य उपरिष्टाद् ग्रामस्येति। अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धं भवति - यश्चान्यस्तेन समानार्थः ॥ (आक्षेपभाष्यम्) अथ प्रत्ययग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) इह मा भूत - प्राग्ग्रामात्, प्रत्यग्ग्रामात् ॥ (उपसंहारभाष्यम्) अञ्ञ्चूत्तरपदस्याप्येतत्प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम् ॥ षष्ठ्यतस ॥ 30 ॥ Kashika ------- **दक्षिणोत्तराभ्यामतसुच्** (५.३.२८) इति वक्ष्यति, तस्येदं ग्रहणम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य॥ Siddhanta Kaumudi ----------------- एतद्योगे षष्ठी स्यात् । दिक्शब्द (SK595) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥ Balamanorama ------------ **षष्ठ्यतसर्थप्रत्ययेन** - षष्ठतसर्थ । एतद्योगे इति ।दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः॑ इत्यारभ्य 'आहि च दूरे'उत्तराच्चे॑त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्रदक्षिणोत्तराभ्यामतसुच् इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात् । दिक्शब्देतीति ।अन्यारादि॑ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः । एवं देशे काले च । पुर इति । पूर्वाशब्दादस्तात्यर्थे॒पूर्वाधरावराणामसि पुरधवश्चैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सतिआस्ताति चे॑ति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ।उपर्युपरिष्टादि॑ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः । ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः । एवं देशे कालेऽपि । Tattvabodhini ------------- **षष्ठ्यतसर्थप्रत्ययेन** - षष्ठसर्थ ।दक्षिणोत्तराभ्यामतसुच् इत्यस्य योऽर्थे दिग्देशकालरूपः सोऽर्थे यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतियञ्च, तदन्तेन योगे इत्यर्थः । अचसुचोऽस्तात्यनन्तरत्वेपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः । पञ्चाम्या अपवाद इति ।ततः पश्चात्स्त्रंस्यते ध्वंस्यते च॑ इति भाष्यप्रयोगात्पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः । अस्मादेव भाष्यप्रयोगात्पश्चाच्छब्देनाऽव्ययीभावो न भवतीति वक्ष्यते । प्रत्ययग्रहणं किम् । इह मा भूत्, प्राग्ग्रामात् । प्रत्यग्ग्रामात् । कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत् । अत्राहुः कैयटादयः — प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठभावः ।अन्यारात् -॑इत्यत्राञ्चूत्तरपदस्यापीदं प्रयोजनमुक्तम् । तत्रान्यतरच्छक्यमवक्तुम्, एक प्रयोजनत्वादिति । प्रत्ययग्रहणं चिनत्यप्रयोजनमिति तु मनोरमायां स्थितम् । पुर इति ।पीर्वाधरावराणाम् इत्यसिप्रत्यये पुरादेशः । पुरस्तादिति.॒दिक्शब्देभ्यः॑ इत्यादिनाऽस्तातिः,अस्ताति च॑ इति पूर्वस्य पुरादेशः । Padamanjari ----------- षष्ठ।ल्तसर्थप्रत्ययेन॥ अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति।'पूर्वाधरावराणामसिपुरधवश्चैषाम्' ठस्ताति चऽ इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः,'ततः पश्चाद्धस्ती' इति भाष्यकारप्रयोगात्पञ्चमी॥ Prakriyasarvasvam ----------------- अतसुजर्थैर्योगे षष्ठी स्यात् । दक्षिणतो ग्रामस्य । पुरस्तात् पश्चाद् वा ग्रामस्य । 'ततः पश्चा'दिति भाष्यप्रयोगात् पञ्चम्यपि । अतः परस्तात् ॥ Sutra Prayogas -------------- * **शिरसो** (किरातार्जुनीयम्): `षष्ठ्यतसर्थप्रत्ययेन` इति षष्ठी। * **लवण-तोयस्य** (भट्टिकाव्यम्): `षष्ठ्य- तसर्थप्रत्ययेन` इति पष्ठी।