23015: तुमर्थाच्च भाववचनात् =========================== **Padacheda:** तुम्-अर्थात् | S | 5 | 1 | च | S | 0 | 0 | भाववचनात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The 4th case-affix is used after a crude-form which ends in an affix denoting 'condition' (abstract noun -- भाववचनाश्च (3.3.11)) and having the force of the affix तुम् (or Infinitive or purpose). Vasu English Translation ------------------------ The 4th case-affix is used after a crude-form which ends in an affix denoting 'condition' (abstract noun -- भाववचनाश्च (3.3.11)) and having the force of the affix तुम् (or Infinitive or purpose). Ex. यागाय व्रजति 'he goes to offer a sacrifice' = यष्टुं व्रजति. So also त्यागाय व्रजति, भूतये व्रजति. The word तुमर्थ means 'having the same significance as the affix तुम्.' Kashika ------- तुमुना समानार्थस्तुमर्थः। तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच् चतुर्थी विभक्तिर्भवति। **भाववचनाश्च** (३.३.११) इति वक्ष्यति, तस्येदं ग्रहणम्। पाकाय व्रजति। त्यागाय व्रजति। भूतये व्रजति। संपत्तये व्रजति। तुमर्थादिति किम्? पाकः। त्यागः। रागः। भाववचनादिति किम्? कारको व्रजति॥ Siddhanta Kaumudi ----------------- भाववचनाश्च (SK3180) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥ Balamanorama ------------ **तुमर्थाच्च भाववचनात्** - तुमर्थाच्च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति सूत्रम् । क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति । भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम् । अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः=क्रिया । उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् ।प्रत्यया॑दिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह — भाववचनाश्चेति ।भावे॑इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः ।यागाय याती॑त्याद्युदाहरणम् । #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम् । अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात् । भ#आववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव । Tattvabodhini ------------- **तुमर्थाच्च भाववचनात्** - तुमर्थात् ।अव्ययकृतो भावे॑ इति तुमुनो भावे एव विधानात्तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहार्थमित्याह -भाववचनाश्चेतीति । न चतादर्थ्ये॑ इत्येव गतार्थता शङ्क्या । क्रियार्थक्रियोपपदकेनभाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तान्मा भूदिति नियमार्थमिदं सूत्रमिति । तन्न, ण्वुलः कर्तृवाचकतया तुमर्थकत्वाऽभावेन नियमार्थत्वाऽयोगात् । ण्वुलन्तो कर्तुः प्राधान्यात्, कर्तारं प्रति च तादथ्र्याऽभावात्, गुणीभूत[तया]पातं प्रति तादथ्र्यसंभवेऽपि पातवाचकधातोश्चुतुथ्र्ययोगाच्च । तुमर्थात्किम् । पचनं वर्तते । भाववचनात्किम् । पाकः । त्यागः । अत्र वदन्ति — ॒क्रियार्थोपपदस्य -॑ इत्यनुवर्त्त्य पञ्चम्या विपरिणमय्य व्याख्याने बाधकाऽभावाद्भाववचनादिति त्युक्तं शक्यम् । न चैवंतुमर्थात् -॑ इत्येव वक्तव्यमिति वाच्यम् । वर्णलाघवसम्भवे गौरवाश्रयणाऽयोगादिति । उपपदविभक्तेः कारकविभक्तिर्बलियसी॥ वलीयसीति । हरये नम इत्यत्र तूद्देशनक्रियाद्वारा हरिमनस्कारयोः सम्बन्धः — हर्युद्देश्यको नमस्कार इति । एवं चोद्देशनक्रियावगतौ विलम्ब इति कारकविभक्तेर्बलीयस्त्वमित्येके । अन्ये तूपपदविङक्त्या संबन्धसामान्यमवगम्यते, तद्विशेषावगमस्त्वर्थप्रकरणादिपर्यालोचनाऽधीनः । कारकविभक्त्या तु कर्मत्वादिसंबन्धविशेषे झटित्येवाऽवगम्यत इति तस्या बलीयस्त्वमित्याहुः । षष्ठपीति । ननु प्रभ्वादियोगे षष्ठएवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्रतामित्याशङ्क्याह -तस्मै प्रभवतीति । न त्वां तृणमित्यादि । ननु तृणादिवद्युष्मच्छब्दादपि पक्षे चतुथ्र्या भाव्यम् । मैवम्,अनादरे॑ इत्यस्य कर्मविशेषणत्वेन अनादरद्योतकं यत्कर्म तत्र चतुर्थीति व्याख्यानात् । तृणं ह्यत्राऽनादरद्योकतं न तु युष्मदर्थः । स्यादेतत् -त्वां तृणं मन्ये तृणाय वेत्युदाह्यियतां, किमनेन नञः प्रयोगेण । अत्राहुः — ॒प्रकृष्य कुत्सित ग्रहणं कर्तव्यम् इति वार्तिकमस्ति, तेन यद्वाचिनश्चुतुर्थी विधीयते ततो निकृष्टत्वेन यदि कुत्सा प्रतिपाद्यते, तदा चतुर्थी भवति न तु साम्यविवक्षायाम् । तादृशी च कुत्साप्रतीतिर्नञः प्रयोग#ए झटित्येव भवतीतिन त्वा॑ मित्युक्तमिति । Padamanjari ----------- तुमर्थाच्च भाववचनात्॥ तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य ततथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्यएतल्लक्षणनेत्रो ज्ञातुमर्हति - धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति। तुमर्थग्रहणं शक्यमकर्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देअषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते - क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति॥ Nyaas ----- `तुमुना समानार्थः` इति। वृत्तौ गम्यमानत्वात् समानशब्दो न प्रयुक्तः। `तुमर्थभाववचनप्रत्ययान्तात्` इति। तुमर्थो भाववचनप्रत्ययोऽन्तो यस्य स तथोक्तः। `भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम्` इति। स एव हि तुमर्थो भाववचनः सम्भवति, नान्यः। `पाकाय व्रजति` इति। यद्यप्यत्र तादथ्र्यं गम्यते तथापि चतुर्थी न भवति; तस्मिन्नेव तादथ्र्यं विहितेन भावप्रत्ययेन तस्योक्तत्वात्,यथा - पाचको व्रजतीत्यत्र न भवति। तेन चतुर्थीविधानार्थमिदमारब्धम्। अथ वा - भाववचनादेव यथा स्यात्, इह मा भूत् - पाचको व्रजतीति नियमार्थंमेतत्। `पाकः, त्यागः, रागः` इति भावे घञ्। ननु च क्रियार्थोपपदग्रहणमनुवर्तिष्यते, तदर्थाद्विभक्तेर्विपरिणामं कृत्वैवमभिसम्बन्धः करिष्यते - क्रियार्थोपपदाद्भाववचनादिति। यस्तु क्रियार्थोपपदो भाववचनः स तुमर्थ एवेति किं तुमर्थग्रहणेन? नैतदस्ति; न हि क्रियार्थोपपदग्रहणं भाववचनस्य विशेषणं सम्भवति। किं तर्हि? धातोरेव। तस्मात् तुमर्थग्रहणं कर्तव्यमेव। `कारको व्रजति`इति - `तुमुन्ण्वुलौ` (3.3.10) इति ण्वुल्। भवत्ययं तुमर्थो न तु भाववचनः, किं तर्हि? कर्त्तृवचनः, तेन तदन्तान्न भवति॥ Praudhamanorama --------------- **इति सूत्रेणेति।** न च तादर्थ्ये इत्येव गतार्थता शङ्क्या, भाववचनेनैव तुमुनेव तादर्थ्यस्य द्योतिततया प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गात्। यत्तु प्राचोक्तम्— भाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तात् मा भूदिति नियमार्थमिदं सूत्रमिति; तन्न, ण्वुलन्ते कर्तुः प्राधान्यात् कर्तारं प्रति च तादर्थ्याभावात्, गुणीभूतयानस्य च विभक्त्यर्थानन्वयात्। ननु Prakriyasarvasvam ----------------- भाववचनात् तुमूनर्थाच्चतुर्थी स्यात् । पाकाय व्रजति । भोजनाय व्रजति । पक्तुं भोक्तुमित्यर्थः ॥ Sutra Prayogas -------------- * **क्रियाविथाताय** (रघुवंशम्): `तुमर्थाञ्च भाववचनात्` इति चतुर्थी। * **कार्मुकाभिहरणाय** (रघुवंशम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी। * **पतनाय** (कुमारसम्भवम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी। * **विघाताय** (किरातार्जुनीयम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी । * **विपक्षनिर्जयाय** (किरातार्जुनीयम्): `तुमर्थाच्च-` इत्यादिना चतुर्थी । * **प्रतिक्रियायै** (किरातार्जुनीयम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी। * **सीता-लाभाय** (भट्टिकाव्यम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी। * **भयाय** (भट्टिकाव्यम्): `तुमर्थाच्च भाववचनात्` इति चतुर्थी।