23003: तृतीया च होश्छन्दसि ========================== **Padacheda:** तृतीया | S | 1 | 1 | च | S | 0 | 0 | होः | S | 6 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Veda), the object of the verb हु 'to sacrifice' takes the affix of the 3rd case and of the 2nd case as well. Vasu English Translation ------------------------ In the छन्दस् (Veda), the object of the verb हु 'to sacrifice' takes the affix of the 3rd case and of the 2nd case as well. This ordains the third case-affix, and by force of the word च 'and' the second case-affix is also employed as यवाग्वाग्निहोत्रं जुहोति 'he satisfies or pleases *Agni* with barley-powder,' or यवागुमग्निहोत्रं जुहोति 'he throws barley-powder into the fire as oblation.' Why do we say 'in the vedas?' In the classical Sanskrit, the accusative only must be used and not the instrumental. Bhashya ------- तृतीया च होश्छन्दसि 431 (295 द्वितीयातृतीयासूत्रम् ॥ 2। 3। 1 आ.3 ॥) (प्रयोजनाधिकरणम्) (प्रत्याख्यानायपूर्वपक्षिणआक्षेपभाष्यम्) किमर्थमिदमुच्यते?। (सिद्धान्तिनः सूत्रप्रयोजनभाष्यम्) तृतीया यथा स्यात् ॥ (पूर्वपक्षिणआक्षेपभाष्यम्) अथ द्वितीया सिद्धा?। (सिद्धान्तिनः समाधानभाष्यम्) सिद्धा ॥ कथम्?। कर्मणि इत्येव ॥ (पर्वपक्षिणः सूत्रवैर्यथ्यभाष्यम्) तृतीयापि सिद्धा ॥ कथम्? सुपां सुपो भवन्ति() इत्येव (सिद्धान्तिनःसूत्रसार्थक्यभाष्यम्) असत्येतस्मिन् - ()सुपां सुपो भवन्ति() इति तृतीयार्थोयमारम्भः। यवाग्वाग्निहोत्रं जुहोति ॥ (एकदेशिनः पूर्वपक्षिणो वा प्रत्याख्यानभाष्यम्) एवं तर्हि तृतीयापि सिद्धा ॥ कथम्?। कर्तृकरणयोः इत्येव ॥ अयमग्निहोत्रशब्दोस्त्येव ज्योतिषि वर्तते। तद्यथा - अग्निहोत्रं प्रज्वलितमिति ॥ अस्ति हविषि वर्तते। तद्यथा - अग्निहोत्रं जुहोतीति ॥ जुहोतिश्चास्त्येव प्रक्षेपणे वर्तते। अस्ति प्रीणात्यर्थे वर्तते ॥ तद्यदा तावद्यवागूशब्दात्तृतीया,तदाग्निहोत्रशब्दो ज्योतिषि वर्तते, जुहोतिश्च प्रीणात्यर्थे। तद्यथा - यवाग्वाग्निहोत्रं जुहोति अग्निं प्रीणाति ॥ यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तते जुहोतिश्च प्रक्षेपणे। तद्यथा - यवागूमग्निहोत्रं जुहोति यवागूंहविरग्नौ प्रक्षिपति ॥ तृतीया च ॥ 3 ॥ Kashika ------- कर्मणीति वर्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते, चशब्दात् सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च। यवाग्वाग्निहोत्रं जुहोति। यवागूमग्निहोत्रं जुहोति (शां०श्रौ० ३.१२.१५,१६)। छन्दसीति किम्? यवागूमग्निहोत्रं जुहोति॥ Siddhanta Kaumudi ----------------- जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥ Padamanjari ----------- तृतीया च होश्च्छन्दसि॥ यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देअवतोद्देशेन प्रक्षिपतीत्यर्थः। अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्तते - अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः। मीमांसकास्त्वाहुः - अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च - स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्यौर्हूड्यते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्तते॥ Nyaas ----- `यवाग्वाऽग्नहोत्रं जुहोति` इति। यद्यप्यत्र `सुपां सुपो भवन्ति` (वा।818) इति द्वितीयास्थाने तृतीयादेशविधानेऽप्येतत् सिध्यति; तथापि पयसा जुहोति, आज्येन जुहोतीत्येवमादि न सिध्यति। तथा हि - स्थानिवद्भावात् `स्वमोर्नपुंसकात्` (7.1.23) इत्येकस्य लुक् प्राप्नोति। अपरस्य `अतोऽम्` (7.1.24) इत्यम्भावः॥ Prakriyasarvasvam ----------------- जुहोतेः कर्मणि द्वितीया तृतीया च स्यात् । यवाग्वाग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । अत्राग्निहोत्रशब्दस्य होमनामत्वादग्निहोत्रतया जुहोतीति क्रियाविशेषणत्वेन योज्यमिति रामः । यजेर्दानार्थत्वे कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । पूजार्थत्वे यथार्हमेव सिद्धम् ।