22022: क्त्वा च

Padacheda: क्त्वा | S | 3 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

An उपपद ending in third case-affix or any other of the remaining four cases, is optionally compounded with a word ending with the affix क्तवा and the compound is तत्-पुरुष।

Vasu English Translation

An उपपद ending in third case-affix or any other of the remaining four cases, is optionally compounded with a word ending with the affix क्तवा and the compound is तत्-पुरुष। This rule provides for avyayas ending in क्त्वा which the last two rules did not provide. Thus we have उच्चैः कृत्य or उच्चैः कृत्वा. Here the affix क्त्वा is added by sutra (3.4.59) In the case when there is composition, the क्त्वा is replaced by the substitute ल्यप् ; otherwise not. See (7.1.37).

The condition of the upapadas being in the 3rd case &c., applies here also. Therefore there is no composition in अलं कृत्वा or खलु कृत्वा.

Kashika

अमैवेति पूर्वयोगेऽनुवृत्तम्, तेनान्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीन्युपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैःकृत्य। उच्चैः कृत्वा। अव्ययेऽयथाभिप्रेताख्याने० (३.४.५९) इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव — अलं कृत्वा। खलु कृत्वा॥

Siddhanta Kaumudi

तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - (SK3381) इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥

Balamanorama

क्त्वा च - क्त्वा च ।तृतीयाप्रभृतीनी॑ति पूर्वसूत्रमनुवर्तते । क्त्त्वेति तृतीयार्थे प्रथमा । टायांसुपां सुलुक्पूर्वसवर्णे॑ति पूर्वसवर्णदीर्घ इत्यपरे । तदाह — तृतीयेति । ननुउपदंशस्तृतीयाया॑मित्यतः प्रागेवसमानकर्तृकयो॑रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह — अव्ययेऽयथेति ।अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ इति सूत्रेणेत्यर्थः । अलं कृत्वेति ।अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॑ इत्येतत्उपदंशस्तृतीयाया॑मित्यतः पूर्वमेव पठितम् । अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः । इत्युपपदसमासाः ।

Tattvabodhini

क्त्वा च - क्त्वा च । क्त्वेति तृतीयान्तम् ।आतः॑इति योगविभागादालोपः,क्त्वि स्कन्दिस्यन्दोः॑ इतिवदिति हरदत्तः । तन्न । सवर्णदीर्घोणापि तृतीयान्तत्वोपपत्तेः । अलं कृत्वेति ।अलङ्ख्ल्वोः प्रतिषेधयो॑रिति सूत्रस्यउपदंशस्तृतीयाया॑मित्यस्मात्पूर्वत्वान्नेह समासः । तत्पुरुषेऽसाधारणान्समासान्तानाह ।

Padamanjari

क्त्वा च॥ क्त्वेति तृतीयान्तम्। ठातःऽ इत्याकारलोपः, यथा -‘समासे’ नञ्पूर्वे क्त्वे ल्यप्ऽ इति’क्त्वि स्कन्दिस्यन्द्योः’ इति॥

Nyaas

अलं कृत्वा, खलु कृत्वा ` इति। `अलंखल्योः प्रतिषेधयोः प्राचां क्त्वा (3.4.18) स च तृतीयप्रभृतिभ्यः पूर्वः॥

Prakriyasarvasvam

तृतीयाप्रभृतिमध्यविहितं क्त्वान्तेन चोपपदं वा समस्यते । समासे ल्यप् । <karika>सर्वश्राव्यां कृष्णकथां शनैःकारं ब्रवीषि किम् । मूढ! गूढं प्रियावाक्यमुच्चैःकृत्य ब्रवीषि किम् ॥ १८६ ॥</karika> असमासे शनैः कारं उच्चैः कृत्वा ॥