22022: क्त्वा च =============== **Padacheda:** क्त्वा | S | 3 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- An उपपद ending in third case-affix or any other of the remaining four cases, is optionally compounded with a word ending with the affix क्तवा and the compound is तत्-पुरुष। Vasu English Translation ------------------------ An उपपद ending in third case-affix or any other of the remaining four cases, is optionally compounded with a word ending with the affix क्तवा and the compound is तत्-पुरुष। This rule provides for *avyayas* ending in क्त्वा which the last two rules did not provide. Thus we have उच्चैः कृत्य or उच्चैः कृत्वा. Here the affix क्त्वा is added by *sutra* (3.4.59) In the case when there is composition, the क्त्वा is replaced by the substitute ल्यप् ; otherwise not. See (7.1.37). The condition of the *upapadas* being in the 3rd case &c., applies here also. Therefore there is no composition in अलं कृत्वा or खलु कृत्वा. Kashika ------- अमैवेति पूर्वयोगेऽनुवृत्तम्, तेनान्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीन्युपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैःकृत्य। उच्चैः कृत्वा। **अव्ययेऽयथाभिप्रेताख्याने०** (३.४.५९) इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव — अलं कृत्वा। खलु कृत्वा॥ Siddhanta Kaumudi ----------------- तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - (SK3381) इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥ Balamanorama ------------ **क्त्वा च** - क्त्वा च ।तृतीयाप्रभृतीनी॑ति पूर्वसूत्रमनुवर्तते । क्त्त्वेति तृतीयार्थे प्रथमा । टायांसुपां सुलुक्पूर्वसवर्णे॑ति पूर्वसवर्णदीर्घ इत्यपरे । तदाह — तृतीयेति । ननुउपदंशस्तृतीयाया॑मित्यतः प्रागेवसमानकर्तृकयो॑रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह — अव्ययेऽयथेति ।अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ इति सूत्रेणेत्यर्थः । अलं कृत्वेति ।अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॑ इत्येतत्उपदंशस्तृतीयाया॑मित्यतः पूर्वमेव पठितम् । अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः । इत्युपपदसमासाः । Tattvabodhini ------------- **क्त्वा च** - क्त्वा च । क्त्वेति तृतीयान्तम् ।आतः॑इति योगविभागादालोपः,क्त्वि स्कन्दिस्यन्दोः॑ इतिवदिति हरदत्तः । तन्न । सवर्णदीर्घोणापि तृतीयान्तत्वोपपत्तेः । अलं कृत्वेति ।अलङ्ख्ल्वोः प्रतिषेधयो॑रिति सूत्रस्यउपदंशस्तृतीयाया॑मित्यस्मात्पूर्वत्वान्नेह समासः । तत्पुरुषेऽसाधारणान्समासान्तानाह । Padamanjari ----------- क्त्वा च॥ क्त्वेति तृतीयान्तम्। ठातःऽ इत्याकारलोपः, यथा -'समासे' नञ्पूर्वे क्त्वे ल्यप्ऽ इति'क्त्वि स्कन्दिस्यन्द्योः' इति॥ Nyaas ----- `अलं कृत्वा, खलु कृत्वा ` इति। `अलंखल्योः प्रतिषेधयोः प्राचां क्त्वा` (3.4.18) स च तृतीयप्रभृतिभ्यः पूर्वः॥ Prakriyasarvasvam ----------------- तृतीयाप्रभृतिमध्यविहितं क्त्वान्तेन चोपपदं वा समस्यते । समासे ल्यप् । सर्वश्राव्यां कृष्णकथां शनैःकारं ब्रवीषि किम् । मूढ! गूढं प्रियावाक्यमुच्चैःकृत्य ब्रवीषि किम् ॥ १८६ ॥ असमासे शनैः कारं उच्चैः कृत्वा ॥