22021: तृतीयाप्रभृतीन्यन्यतरस्याम्¶
Padacheda: तृतीया-प्रभृतीनि | S | 1 | 3 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
An उपपद ending in third case-affix (3.4.47) etc. is compounded optionally with an indeclinable formed by the affix अम् and the compound is तत्-पुरुष।
Vasu English Translation¶
An उपपद ending in third case-affix (3.4.47) etc. is compounded optionally with an indeclinable formed by the affix अम् and the compound is तत्-पुरुष। The term अम् is understood here. The upapadas ending with a third case-affix &c., are given in sutra (3.4.47) and the sutras that follow. As मूलकोपदंशं मुङ्क्ते or मूलकेनोपदंशं भुङ्क्ते ‘he eats after having relished the food with radish.’ So also पार्श्वोपपीड or पार्श्वयोरुपपीडम् शेते (Ill. 4.49) ‘he lies pressing on his ribs.’ For upapadas ending with other cases, see sutra (3.4.52) &c. This being an optional rule, it is not necessary that the upapada should be tulya-vidhana with the अम् ; so that this optional compounding may take place even under rule (3.4.59) where अम् is not the only affix enjoined, but there is क्त्वा as well. This vibhasha may therefore be called both प्राप्त and अप्राप्त vibhasha. It is प्राप्त with regard to those rules where अम् is the only affix employed; and it is अप्राप्त with regard to those where श्रम् is not the only affix.
Kashika¶
अमैवेत्यनुवर्तते। उपदंशस्तृतीयायाम् (३.४.४७) इत्यतः प्रभृति यान्युपपदानि तान्यमैवाव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा उपदंशस्तृतीयायाम् (३.४.४७) इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (३.४.५९) इति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशं भुङ्क्ते। उच्चैःकारमाचष्टे। उच्चैः कारम्। अमैवेत्येव — पर्याप्तिवचनेष्वलमर्थेषु (३.४.६६)। पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्॥
Siddhanta Kaumudi¶
उपदंशस्तृतीयायाम् (SK3368) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥
Balamanorama¶
तृतीयाप्रभृतीन्यन्यतरस्याम् - तृतीयाप्रभृतीनि । तृतीयाशब्देनउपदंशस्तृतीयाया॑मित्यारभ्य॒अन्वच्यानुलोम्ये॑ इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति चानुवर्तते । एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषणम् । तदाह — उपदंशस्तृतीयायामित्यादिना । मूलकोपदंशमिति ।उपदंशस्तृतीयाया॑मिति णमुल् । अमैव तुल्यविधानत्वात्पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननुमूलकेने॑त्यस्य ‘भुङ्क्ते’ इत्यत्रैवान्वयादुपदंश इत्यत्रानन्वयादसामर्थ्यात्कथमिह समास इति चेत्, मैवम् — उपदंशनक्रियां प्रति हि मूलकस्य आर्थकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात्परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चैःकारमिति । उच्चेःकृत्वेत्यत्र तुअव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ ।तत्रउच्चैःकार॑मित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाऽभावात्अमैवाव्ययेने॑त्यप्राप्तेऽनेन विकल्पः । समासपक्षेआदिर्णमुल्यन्यतरस्या॑मिति कृदुक्तरपदप्रकृतिस्वर आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेणाऽन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । ‘पर्याप्तिवचनेषु’ इति तुमुन् ।
Tattvabodhini¶
तृतीयाप्रभृतीन्यन्यतरस्याम् - तृतीयाप्रभृतीन्यन्यतरस्याम् । उभयत्रविभाषेयम् । अमैव तुल्यविधानस्य प्राप्तेऽमा चान्येन च तुल्यविधानस्याऽप्राप्ते चारम्भात् । प्राप्ते यथा -॒उपदशस्तृतीयायाम् । मूलककेनोपदंशं । मूलकोपदंशम् । अप्राप्ते यथा — ॒अव्ययेऽयथाभिप्रेताख्याने॑ति क्त्वाणमुलौ । उच्चैःकारम् । इह समासपक्षे कृदृत्तरपदप्रकृतिस्वरः — ॒आदिर्ण मुल्यन्यतरस्या॑मित्याद्युदात्तत्वम् । असमासे तु उच्चैरित्यन्तोदात्तत्वम् ।उदि चेर्डै सिः॑इति व्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तुफिषः॑इत्यस्य च प्रवृत्तेरित्याहुः । मनोरमायां तूच्चैरित्यन्तोदात्तः, स्वरादिषु तथा पाठादिति स्थितम् ।अमे॑त्यनुवर्तत इत्याह — अमन्तेनेति । तेनेह न — पर्याप्तो भोक्तुम् ।पर्याप्तिवचनेष्वि॑ति तुमुन् ।
Padamanjari¶
तृतीयाप्रभृतीन्यतरस्याम्॥ तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुतरपदप्रकृतिस्वरः, ठादिर्णमुल्यन्यतरस्याम्ऽ इत्याद्यौदातत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदातम्; स्वरादिषु तथा पाठात्। कारमित्याद्यौदातम्॥
Nyaas¶
पर्याप्तो भोक्तुम् इति। पर्याप्तवचनष्वलमर्थेषु (3.4.66) इत्यत्र शकधृषज्ञाग्लाघटरभ (3.4.65) इत्यादेः सूत्रात् तुमुन्ग्रहणानुवृत्तेस्तुमुन्प्रत्ययः॥
Praudhamanorama¶
तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ उभयत्र विभाषेयम् । अमैव सह तुल्यविधानस्य प्राप्ते यथा उपदंशस्तृतीयायामिति । यत्तु अमा चान्येन तुल्यविधानं तस्याऽप्राप्ते, यथा ‘अव्ययेऽयथाभिप्रेताख्याने’ इति । ‘उच्चैः कारमाचष्टे’ । इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरे ‘आदिर्णमुल्यन्यतरस्याम्’ इत्याद्युदात्तत्वम् । असमासे तु ‘उच्चैः’ इत्यन्तोदात्तत्वम् । स्वरादिषु तथा पाठात् । ‘अमा’ इत्यनुवृत्तिमभिप्रेत्याऽऽह - अमन्तेनेति । तेनेह न- ‘पर्याप्तो भोक्तुम्’ ।
Sutra Prayogas¶
कालखण्डोपदंशं (शिशुपालवधम्): तृतीयाप्रभृतीन्यन्यतरस्याम् इति विकल्पेनोपपदसमासः।
लताऽनुपातं (भट्टिकाव्यम्): तृतीयाप्रभृतीन्यन्यतरस्याम् इति समासः।