22023: शेषो बहुव्रीहिः¶
Padacheda: शेषः | S | 1 | 1 |
बहुव्रीहिः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The remaining compound is called बहुव्रीही।
Vasu English Translation¶
The remaining compound is called बहुव्रीही। A compound which does not fall within any one of the rules given above, will be Bahuvrihi. This is a governing aphorism and extends up to sūtra 28. Thus चित्रगुः ‘possessed of a brindled cow.’
Bhashya¶
शेषो बहुव्रीहिः (443) (अथ बहुव्रीहिप्रकरणम्) (281 बहुव्रीहिसंज्ञासूत्रम् ॥ 2। 2। 1 आ.15 सू.) (शेषपदार्थनिर्वचनाधिकरणम्) (आक्षेपभाष्यम्) शेष इत्युच्यते कः शेषो नाम? ॥ (एकदेशिसमाधानभाष्यम्) येषां पदानामनुक्तः समासः स शेषः ॥ (1377 समाधानबाधकवार्तिकम् ॥ 1 ॥) ॥ शेषवचनं पदतश्चेन्नाभावात् ॥ (भाष्यम्) शेषवचनं पदतश्चेत्। तन्न। किं कारणम्?। अभावात्। नहि सन्ति तानि पदानि येषां पदानामनुक्तः समासः ॥ (एकदेशिसमाधानान्तरभाष्यम्) अर्थतस्तर्हि शेषग्रहणम् - येष्वर्थेषु अनुक्तः समासः स शेषः ॥ (1378 समाधानान्तरबाधकवार्तिकम् ॥ 2 ॥ ॥ अर्थतश्चेदविशिष्टम् ॥ (भाष्यम्) अर्थतश्चेदविशिष्टमेतद्भवति। कुतः?। पदतः। नहि सन्त्यर्थाः येष्वर्थेष्वनुक्तः समासः ॥ (सिद्धान्तिसमाधानभाष्यम्) त्रिकतस्तर्हि शेषग्रहणम्। यस्य त्रिकस्यानुक्तः समासः स शेषः ॥ कस्य चानुक्तः?। प्रथमायाः। शेषो ब ॥ 23 ॥ इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यास्यद्वितीये पादे प्रथममाह्निकम् ॥
Kashika¶
उपयुक्तादन्यः शेषः। शेषः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः? यत्रान्यः समासो नोक्तः। वक्ष्यति — अनेकमन्यपदार्थे (२.२.२४) — चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेष इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः — न बहुव्रीहौ (१.१.२९) इत्येवमादयः॥
Siddhanta Kaumudi¶
अधिकारोऽयम् । द्वितीया श्रिता - (SK683) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥
Laghu Siddhanta Kaumudi¶
अधिकारोऽयं प्राग्द्वन्द्वात्॥
Balamanorama¶
शेषो बहुव्रीहिः - शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननुद्वितीया श्रिते॑तितृतीया तत्कृते॑तिचतुर्थी तदर्थे॑तिपञ्चमी भयेने॑ति,षष्ठी॑ति,सप्तमी शौण्डै॑रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः ।विशेषणं विशेष्येणे॑त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह — विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिंत विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः । तदाह — प्रथमान्त इत्यर्थ इति । एतच्च भाष्ये स्पष्टम् ।
Tattvabodhini¶
शेषो बहुव्रीहिः - शेषो बहुव्रीहिः ।शिष् असर्वोपयोगे॑ कर्मणि घञ् । अत्र वृत्तिकृत् -,यत्रान्यः समासो नोक्तः स शेष॑ इत्याह ।येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ॑इति हरदत्तो व्याख्यात् । एतच्चप्राक्कडारात्परं कार्य॑मिति पाठाभिप्रायेण बोध्यम् । अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते ।आ कडारादेके॑ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह — द्वितीया श्रितेत्यादिनेति । सेषधिकारस्थबहुव्रीहेरेवशेषाद्विभाषे॑ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपिप्रादयो गताद्यर्थे प्रथमये॑त्युक्तम्, तथापिद्वितीया श्रितादिभिः॑इतिवत्प्रथमा केनचित्सह समस्यते॑इति नोक्तमित्यर्थः । वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति ।कण्ठेकाल॑इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः । पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं चद्वितीयान्ताद्यर्थे॑इति फलितम् ।
Padamanjari¶
शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति।’शिष असर्वोपयोगे’ इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च -‘शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्’ इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते - स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य शृङ्गग्राहिकया समासो नोक्तः, यथा - प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥
Nyaas¶
उपयुक्ताद्योऽन्यः इति। अभिहितादन्य इत्यर्थः। यद्यान्यः समासो नोक्तः इति। यत्रान्या समाससंज्ञा न विहितेत्यर्थः। चित्रगुः इति। अत्र बहुव्रीहित्वे सति बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इत्येष विधिर्भवति। उन्मत्तगङ्गम् इति। अन्यपदार्थे च संज्ञायाम् (2.1.21) इत्यव्ययीभावः। असति हि शेषग्रहण इहापि बहुव्रीहिः स्यात्। ननु च बहुव्रीहौ प्राप्तेऽव्ययीभावस्त्वारभ्यमाणस्तस्यैव बाधको भविष्यति, तत्कुतो बहुव्रीहिप्रसङ्गः? प्राक्कडारात् परं कार्यम् इत्यस्मिन् पक्ष इदं प्रत्युदाहरणमुपन्यस्तम्। तत्र हि पक्षे कयदि शेषग्रहणं न क्रियेत, ततः अन्यपदार्थेच संज्ञायाम्` (2.1.20) इति वचनप्रामाण्यदव्ययीभावः स्यात्। परत्वाद्बहुव्रीहिरित्येके। अयन्तु पक्षो वृत्तिकारेण नाश्रित इत्ययुक्तमेतत्। तस्मात् आकडारादेका संज्ञा (1.4.1) इत्यस्मिन् पक्षे व्यक्तिः पदार्थः इत्येद्दर्शमाश्रित्येदं प्रत्युदाहरणमुपन्यस्तम्। व्यक्तौ हि पदार्थे प्रतिलक्ष्ये लक्षणं प्रवर्तते। अत्रासति शेषग्रहणे यदेसद्विषयं लक्षणं तदकृतार्थमित्यवश्यं तेन प्रवर्त्तितव्यम्। एकसंज्ञाधिकाराच्च योगपद्यं न सम्भवतीति वचनप्रामाण्यादुभयप्रसङ्गः, उभे अपि पर्यायेण स्यातामित्यपरे॥
Prakriyasarvasvam¶
उक्तसमासेभ्योऽन्यो बहुव्रीहिसंज्ञः ।।