22010: न निर्धारणे ================== **Padacheda:** न | S | 0 | 0 | निर्धारणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word in the genitive case is not compounded with another, when the force of the sixth case-affix is that of specification (निर्धारण). Vasu English Translation ------------------------ A word in the genitive case is not compounded with another, when the force of the sixth case-affix is that of specification (निर्धारण). With this sutra, begins a series of exceptions to the composition of words in the genitive case. The separation of one from the many, on account of its genus, attribute and action, is called '*nirdharana*.' As क्षत्रियो मनुष्याणां शूरतमः 'the *Kshatriya* is the most powerful amongst men.' कृष्णा गवां संपन्नक्षीरतमः 'the black cow is the most milk-giving amongst cows.' धावन्नधगानां शीघ्रतमः 'the runner is the swiftest amongst walkers.' This form of genitive meaning 'amongst,' is ordained by *sutra* (2.3.41). Vart:- A word taking a genitive-case by force of any rule other than *sutra* (2.3.50), is never compounded. See *sutra* 8. Thus the following words are never compounded सर्पिषोज्ञानम् , मधुनोज्ञानम्. Bhashya ------- न निर्धारणे (430) (274 तत्पुरुषसमासनिषेधसूत्रम् ॥ 2 । 2। 1आ.9 सू.) (अनिष्टपरिहाराधिकरणम्) (1349 समासनिषेधवार्तिकम् ॥ 1 ॥) ॥ प्रतिपदविधाना च ॥ (भाष्यम्) प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्। इह मा भूत् - सर्पिषो ज्ञानम्, मधुनो ज्ञानम् ॥ न निर्धारणे ॥ 10 ॥ Kashika ------- पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारणे या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। क्षत्रियो मनुष्याणां शूरतमः। कृष्णा गवां संपन्नक्षीरतमा। धावन्नध्वगानां शीघ्रतमः॥ प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्॥ सर्पिषो ज्ञानम्। मधुनो ज्ञानम्॥ Siddhanta Kaumudi ----------------- निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । (वार्तिकम्) ॥ सर्पिषो ज्ञानम् ॥ Balamanorama ------------ **न निर्धारणे** - न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्रनृणा॑मिति षष्ठन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठएव न तु निर्धारणषष्ठी ।यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः-एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते॑रिति कैयटः ।गुणेन निषेधस्त्वनित्य॑ इति तरप्सूत्रे कैयटः । केचित्तुउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः॑ इति गीतावाक्यात्कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः ।प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । 'षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्रज्ञोऽविदर्थस्य करणे॑ इति विहितषष्ठ्याः समासो न भवति, 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् । Tattvabodhini ------------- **न निर्धारणे** - नृणामिति ।यतश्च निर्धारण॑मिति षष्ठी । द्विजशब्देनात्र समासप्रसङ्गस्तदपेक्षा हि षष्ठी । श्रेष्टत्वं द्विजेतरमनुष्येभ्यः, तेषां समान्यशब्देनोपस्थिततया । तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात् । अथं कथं पुरषोत्तम इति । यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः — एतत्त्रितयसंनिधाने सत्येवायं निषेध इतिद्विवचनविभज्योपे॑ति सूत्रे कैयटः । अन्ये तु — पुरुषेषूत्तम इति निर्धारणसप्तम्याःसंज्ञाया॑मिति समासः । न चैवंन निर्धारणे॑इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि तत्पुरुषे तुल्यार्थे॑त्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तुसमासस्ये॑त्यन्तोतात्तत्वं स्यात्तच्चाऽनिष्टमित्याहुओः । तन्मन्दम् ।संज्ञाया॑मिति समासस्य नित्यत्वेन स्वपदविग्रहाऽसंङ्गतिप्रसङ्गात् । तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः ।प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् । प्रतिपदविधानेति । पदं पदं प्रति विहिता प्रतिपदविधान ।षष्ठी शेषे॑ इथि विहायाऽन्येनज्ञोऽविदर्थस्ये॑त्यादिना विहिता सर्वैव षष्ठीत्यर्थः । धातुकारकविशेषं गृहित्वैवज्ञोऽविदर्थस्य॑इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम् । नन्वनेनैव गतार्थत्वा॒न्न निर्धारणे॑ इति व्यर्थमिति चेत् । अत्राहुः — ॒यतश्च निर्धारण॑मिति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत् । एवंस्वमीआराधिपती॑त्यादिष्वपि । तेनगृहस्वामी॒॑सर्वेआरः॑निषादाधिपति॑रित्यादि सिद्धमिति । वस्तुतस्तुपज्ञोऽविदर्थस्ये॑त्यादिचतुर्दशसूत्रीमध्येदिवस्तदर्थस्ये॑त्यादिषट्सूत्रीं विहायाविशिष्टायाममष्टसूत्र्यांशेषे॑इति वर्तते, तथा च न माषाणामाश्नीया॑दित्यादाविवषष्ठी शेषे॑ इत्येवसिद्धे नियमार्थं प्रकरणम् — इह षष्ठएव न तु तल्लुगिति । तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः । ततश्चप्रतिपदविधाने॑ति वचनं न कर्तव्यम् । एवं स्थितेकृद्योगा षष्ठी॑ति वचनमपि मास्तु ।कर्तृकर्मणोः कृती॑त्यत्र हिशेषे॑ इति निवृत्तम् । तथा चाऽप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाऽभावात्षष्ठी॑इत्यनेनैव समाससिद्धेः । सर्पिषो ज्ञानमिति । वस्तुतः करणस्य संबन्धमात्रविवक्षयाज्ञोऽविदर्थस्य॑इति षष्ठी । सर्पिःसंबन्धि प्रवर्तनमित्यर्थः । पूरणगुण । अर्थशब्दस्य त्रिषु संबन्धादाह । Padamanjari ----------- न निर्द्धारणे॥ जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देअवदत इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः - गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता'स्वामीश्वर' इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठआआ मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव'न निर्द्धारणे' इति सूत्रारम्भः।'यतश्च निर्द्धारणम्' इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं'न निर्द्धारणे' इत्यनेन। सर्पिषो ज्ञानमिति।'ज्ञो' विदर्थस्य करणेऽ इति षष्ठी। अत्राहुः -'ज्ञो' विदर्थस्य करणेऽ इति षष्ठीप्रकरणे'शेषे' इति वर्तते, तत्र न माषाणामश्नीयादितिवत्'षष्ठी शेषे' इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे'सुपो धातुप्रातिपदिकयोः' इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा'कृद्योगा च' इत्यपि न वक्तव्यम्,'कर्तृकर्मणोः कृति' इत्यत्र हि'शेषे' इति निवृतमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति॥ Nyaas ----- `मनुष्याणां क्षत्रियः शूरतमः` इति। `यतश्च निद्र्धराणम्` (2.3.41) इति षष्ठी। `प्रतिपदविधाना च` इत्यादि। **षष्ठी शेषे** (2.3.50) इति सामान्यलक्षणविहितां षष्ठीं त्यक्त्वा याऽन्या विशेषलक्षणाविहिता षष्ठी सा प्रतिपदविधाना,क सा च षष्ठी न समस्यत इत्येतद्रूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - नेति योगविभागः क्रियते, तेन प्रतिपदविदाना षष्ठी न समस्यत इति।यद्येवम्, कथं गृहस्वामी, विद्यादायादः, पृथ्वीआर इति, प्रतिपदविधाना ह्रेषा षष्ठी बाधिष्यत इति चकारेण पुनः षष्ठीप्रतिप्रसवः क्रियते। न ह्रेवंविदा षष्ठी प्रतिपदविधाना भवति। अत व `न निर्धारणे` इति निषेधो विधीयते। `यतश्च निर्धारणम्` (2.3.41) इत्यत्रापि चकारेण सैव शेषलक्षणा षष्ठी प्रतिप्रसूयते, अन्यथा हीयमपि प्रतिपदविधानैव षष्ठीति समासो न स्यात्। ततश्च `न निर्धारणे`इति प्रतिषेधोऽनर्थकः स्यात्।`सर्पिषो ज्ञानम्` इति। `ज्ञोऽविदर्थस्य` (2.3.51) इति करणे षष्ठी॥ Prakriyasarvasvam ----------------- निर्धारणार्था षष्ठी न समस्यते । नृणां श्रेष्ठोऽयम् । सर्वमहानित्यादौ स्यादिति भोजः । ‘ज्ञोऽविदर्थस्य करणे’ (२-३-५१) इत्यादिप्रतिपदोक्तषष्ठ्या निष्ठान्तेनासमासो वाच्यः । सर्पिषो ज्ञातम् । सर्पिषा प्रवृत्तमित्यर्थः । भावे क्तः ॥ Vartika ------- प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् । Sutra Prayogas -------------- * **पुरुषोत्तमः** (रघुवंशम्): `न निर्धारणे` इति षष्ठीसमासनिषेधात् सप्तमीसमासः। * **करेणुवर्याः** (किरातार्जुनीयम्): `न निर्धारण` इति षष्ठीसमासनिषेधः। * **पुरुषोत्तम** (शिशुपालवधम्): `न निर्धारणे` इति षष्ठीसमासप्रतिषेधः। * **परि-पर्युदधे** (भट्टिकाव्यम्): `पञ्चम्यपापरिभिः` इति पञ्चमी।