22002: अर्धं नपुंसकम् ===================== **Padacheda:** अर्धम् | S | 1 | 1 | नपुंसकम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word अर्द्ध when it signifies exactly equal parts i.e. halves, is always neuter and is compounded with a word signifying a thing that has parts, provided that the thing halved is numerically one; and the compound is तत्-पुरुष। Vasu English Translation ------------------------ The word अर्द्ध when it signifies exactly equal parts i.e. halves, is always neuter and is compounded with a word signifying a thing that has parts, provided that the thing halved is numerically one; and the compound is तत्-पुरुष। The word अर्द्ध is neuter when it means exactly equal parts or bisection. The word एकदेशिन् and एकाधिकरण are understood here. This *sutra* also debars *sutra* 9; as अर्द्धपिप्पल्याः = अर्द्धपिप्पली 'a half of the pepper'; अर्द्धकोशातकी 'a half of the *Kosátaki*.' Why do we say 'when it is neuter'? Otherwise we have ग्रामार्द्धः 'half the village'? नगरार्द्धः 'half the city.' The word *ekadesin* must also be taken here. Thus in the sentence अर्द्धं पशोर्देवदत्तस्य 'a half of the animal is of *Devadatta*'; we cannot compound the word *ardha* with *Devadatta*. The word *ekadhikarana* must also be taken here. So we cannot compound अर्द्धं पिप्पलीनाम् 'the half of the peppers.' Bhashya ------- अर्द्धं नपुंसकम् (422) (तत्पुरुषप्रकरण एकदेशिसमासप्रकरणम्) (267 तत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1 आ.1) (अनिष्टापत्तिनिराकरणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - ग्रामर्द्धो नगरार्द्ध इति? ॥ (समाधानभाष्यम्) अर्द्धशब्दस्येदं नपुंसकलिङ्गस्य ग्रहणम्। पुल्लिङ्गश्चात्रार्धशब्दः ॥ (आक्षेपभाष्यम्) क्व पुनरयं नपुंसकलिङ्गः, क्व पुल्लिङ्गः? ॥ (समाधानभाष्यम्) समप्रविभागे नपुंसकलिङ्गः, अवयवाची पुल्लिङ्गः ॥ (आक्षेपभाष्यम्) इह कस्मान्न भवति - अर्द्धं पिप्पलीनामिति? ॥ (प्रत्याक्षेपभाष्यम्) न वा भवति - अर्द्धपिप्पल्य इति? ॥ (प्रत्याक्षेपसमाधानभाष्यम्) भवति, यदा खण्डसमुच्चयः - अर्द्धपिप्पचली चार्द्धपिप्पली चार्धपिप्पली चार्द्धपिप्पल्य इति। यदा त्वेतद्वाक्यं भवति - अर्द्धं पिप्पलीनामिति, तदा न भवितव्यम् ॥ (आक्षेपस्मारणभाष्यम्) तदा कस्मान्न भवति? ॥ (समाधानभाष्यम्) एकाधिकरण इति वर्तते प्र् (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - अर्द्धराशिरिति? ॥ (समाधानभाष्यम्) भवति। एकमेवेदमधिकरणं योसौ राशिर्नाम ॥ अर्धं नपुंसकम् ॥ 2 ॥ Kashika ------- एकदेशिनैकाधिकरण इति वर्तते। समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्येदं ग्रहणम्। अर्धमित्येतद् नपुंसकमेकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। षष्ठीसमासापवादोऽयं योगः। अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी। नपुंसकमिति किम्? ग्रामार्धः। नगरार्धः। एकदेशिनेत्येव — अर्धं पशोर्देवदत्तस्य। देवदत्तेन सह समासो न भवति। एकाधिकरण इत्येव — अर्धं पिप्पलीनाम्॥ Siddhanta Kaumudi ----------------- समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् । (वार्तिकम्) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥ Laghu Siddhanta Kaumudi ----------------------- समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली॥ Balamanorama ------------ **अर्धं नपुंसकम्** - अर्धं नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह — समांशवाच्यर्धशब्दो नित्यं क्लीबे इति । 'वर्तते' इति शेषः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात्पूर्वेण न प्राप्तिः । नन्वर्धं पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अर्धे पिप्पल्याः अर्धपिप्पल्यामिति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतयाएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः स्यादित्यत आह — एकविभक्ताविति ।एकविभक्ति चापूर्वनिपाते॑ इति सूत्रेअषष्ठन्त॑मिति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्न्यतत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठन्तत्वादनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वाऽभावेऽदन्तत्वाऽभावेनद्विगो॑रिति ङीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह — एकदेशिसमासेति ।अपथं नपुंसक॑मिति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति ।प्रथमानिर्दिष्ट॑मित्यर्धशपब्दस्योपसर्जनत्वात्पूर्वनिपातः । प#इप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि 'एकविभक्तौ' इति निषेधादुपसर्जनत्वाऽभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्याऽर्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाऽभावेन नित्यनपुंसकत्वाऽभावान्नायं समास, किन्तुषष्ठी॑इत्येव समास इति षष्ठन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याऽभावान्न समासः । सति समासेऽर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रंपरवल्लिङ्ग॑मिति सूत्रभाष्ये प्रत्याख्यातम् । Tattvabodhini ------------- **अर्धं नपुंसकम्** - अर्ध नपुंसतम् । खण्डावाच्यद्र्धशब्दो न नित्यनपुंसकः, ग्रामार्द्धो नगराद्र्ध इति यथा । समांशवाची तु नित्यनपुंसकः । स एवेह गृह्रते,पूर्वसूत्रे एवाद्र्धशब्दे पठनीयेअर्ध॑मितचि योगविभागेन निर्देशान्नपुंसकत्वे लब्धे, पुनर्नपुंसकगिरहणादित्याशयेन व्याचष्टे — नित्यं क्लीबे स इति । यो नित्यनपुंसकलिङिगः स इत्यर्थः । प्राग्वदिति । एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः । अन्ये तु व्याचख्युः — ॒अर्ध॑मिति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणंसूत्रेषु लिङ्गनिर्देशो न विवक्षितः॑इति ज्ञापयितुम् ।तेन तस्येद॑मित्यादि लिङ्गत्रयेऽपि भवतीति ।अर्धपिप्पली॑त्यत्रएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनसंज्ञायांगोस्त्रीयो॑रिति ह्रस्वः स्यादित्याशङ्क्य समाधत्ते — अषठन्तवचनमिति । तेन पिप्पलीशब्दस्याऽनुपसर्जनत्वातन्न दोष इति भावः । नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिध्द्येत्, उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्रस्वाप्रवृत्तेरदन्तत्वाभावेनद्विगोः॑इति ङीपोऽप्रवृत्तेरत आह — ।एकविभक्तावषष्ठन्तवचनम् । एकदेशिसमासविषयकोऽमिति ।पञ्चखठ्वी॑ति भाष्योदाहरणमेवअषठन्तो॑त्यस्य संकोचे लिङ्गमितिओओ भावः । अर्धपिप्पलीति । परवल्लिङ्गत्वात्लस्त्रीत्वम् । अर्ध पिप्पलीनामिति । सति समासेअर्धपिप्पली॑त्येव स्यात्, विशेष्यैक्यात् ।परवल्लिङ्ग॑मिति लिङ्गातिदेशेऽपि वचनातिदेशाऽभावाच्चेति भावः ।अर्धपिपल्यः॑इति प्रयोगस्तुअर्धानि पिप्पलीना॑मिति विग्रहे असाधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात् । एकदेशिना किम् । अर्धं पशोर्देवदत्तस्य । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । इदं सूत्रंपरवल्लिङ्ग॑मित्यत्र भाष्ये प्रत्याख्यातम् । तद्यथा — अर्धंपिप्पलीति हि कर्मधारयेण सिद्धम् ।समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते॑इति न्यायात् । समप्रविभागादन्यत्र तवाप्येषैव गतिः,अर्धाहारः॑अर्धोक्तम्अर्धविलोकितम् इत्यादिप्रयोगदर्शमात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापूष्टत्वात् । अतएव कालिदासः प्रायुङ्क्त — ॒प्रेम्णा शरीरार्धहरां हरस्ये॑ति । Padamanjari ----------- आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति।'तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधाति' इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचितु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासुऽ इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा'स्वमज्ञातिधनाख्यायाम्' 'बन्धुनि बहुव्रीहौ' इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य ठेकविभक्ति चऽ इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ।ल्न्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददतशब्देन समासो न भवतीति। देवदतोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देअवतदतस्येति, देवदतस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् - म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते'स्वरार्ध्दं चार्यार्ध्दम्' इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः॥ Nyaas ----- `समप्रविभागे त्वद्र्धशब्दो नपुंसकमाविष्टलिङ्गस्तस्येदं ग्रहणम्` इति। यद्येवम्, समग्रहणमेव कर्तव्यम्? नैवं शक्यम्, अनेकार्थत्वात् समशब्दस्य। तथा हि - स निम्नोन्नतादिरहितेऽपि देशे वर्तते - यथा - समे यजेतेति, निम्नोन्नतादिरहिते देशे यजेतेत्यर्थः। अथापि समप्रविभाग इच्युच्यते, एवमपि गुरुत्वं स्यात्, तस्मान्नपुंसकग्रहणं कर्तव्यम्? न कर्तव्यम्; अद्र्धमिति नपुंसकलिङ्गेन निर्देशादेव हि नपुंसकस्य ग्रहणं भविष्यति, नैतदस्ति; असति हि नपुंसकग्रहणं शब्दरूपापेक्षया नपुंसकनिर्देश इति विज्ञायेत, यथा - **स्वमज्ञातिधनाख्यायाम्** (1.1.35) , `बन्थुनि बहुव्रीहौ` (6.1.14) इति च; ततश्चाद्र्धशब्दस्य नपुंसकलिङ्गत्वताऽनाश्रिता स्यात्। एवमनुपंसकलिङ्गोऽपि समस्येत। तस्मादद्र्धशब्दस्य नपुंसकलिङ्गत्वमाश्रयितुं नपुंसकमिति वक्तव्यम्। `अद्र्धपिप्तली` इति। `परवलिङ्गम्` (2.4.26) इति स्त्रीलिङ्गता। अथात्र **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वत्वं कस्मान्न भवति? अनुपसर्जनत्वात्। उपसर्जनत्वं तु `एकविभक्ति च` (1.2.44) इति। अत्र **विभाषा छन्दसि** (7.4.44) इत्यतो विभाषाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा प्रतिपादिता। `ग्रामार्द्धः` इति। ग्रामस्यैकदेश इत्यर्थः।`अद्र्ध पशोर्दैवदत्तस्य` इति। देवदत्तशब्देन सह समासो न भवति। अनेकदेशित्वाद्देवदत्तस्य। न ह्रसावेकदेशः, किन्तर्हि? स्वामी। यस्त्वेकदेशी पशुशब्दः, तेन सह भवत्येव समासः। सत्यपि पशुशब्दस्य सापेक्षत्वे पशोः प्राधान्यात् समासो भवत्येव - अद्र्धपशुर्देवदत्तस्येति॥ Praudhamanorama --------------- अर्द्धं नपुंसकम् ॥ **नित्यं क्लीब इति ।** ‘अर्द्धमि’ति निर्देशादेव क्लीबत्वे लब्धे नपुंसकग्रहणं नित्यनपुंसकत्वार्थमित्यर्थः । खण्डमात्रवाची तु त्रिलिङ्गः । ‘भित्तं शकलखण्डे वा पुंस्यर्धोऽर्द्धं समेंऽशके’ इत्यमरः । अत्र ‘वा पुंसी’ति पूर्वोत्तराभ्यां सम्बद्ध्यते । तत्र ‘शकलखण्डे’ इति रूपभेदात्क्लीबत्वे निर्णीते, ‘वावचनाच्च पुंस्त्वविकल्पे ‘अस्त्रियामि’ति फलितम् । न च ‘खण्डे’ इति स्त्रीलिङ्गमेव किं न स्यादति वाच्यम् । ‘भिन्नलिङ्गानां न द्वन्द्व’ इति तेन परिभाषितत्वात् । शकलश्चाऽस्त्रीति निर्देशेनैत्र निर्णयात् । ‘अर्द्ध’ इति रूपभेदात् पुंस्त्वाऽवगतौ सत्यामपि वा पुंसीति तद्विकल्पेनाऽविशेषात्स्त्रीनपुंसके लभ्येते । **प्राग्वदिति ।** ‘अवयविना समस्यते’ इत्यादीत्यर्थः । **अर्द्धं पिप्पलीनामिति ।** इह अर्द्धपिप्पली’ति प्राप्तं, परवल्लिङ्गाऽतिदेशेऽपि वचनातिदेशाऽभावात्, विशेष्यैक्याच्चेति भावः । कथं तर्ह्यर्द्धपिप्पल्य इति । ‘अर्द्धानि पिप्पलीनामि’ति विग्रहे मा भूत्, खण्डसमुच्चये तु भविष्यति ‘अद्धपिप्पली चार्द्धपिप्पली चे’त्यादिविग्रहात् । एकदेशिनेति किम् ? ‘अर्द्धं पशोर्देवदत्तस्य’ । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । एतत्सूत्रं ‘परवल्लिङ्गमि’ त्यत्र भाष्ये प्रत्याख्यातम् । तथा हि- ‘अर्द्धपिप्पली’ ति कर्मधारयेण सिद्धम् । ‘समुदाये दृष्टाः शब्दा अवयवेऽपि वर्तन्ते’ इति न्यायात् । समप्रविभागादन्यत्र हि तवाऽप्येषैव गतिः । ‘अर्द्धाऽऽहारः’, ‘अर्द्धजरतीयम्’, ‘अर्द्धवैशसम्’, ‘अर्द्धोक्तम्’, ‘अर्द्धविलोकितम्’ इत्यादिदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम् । षष्ठीसमासस्याऽपीष्टत्वादिति । तथा च कालीदासः प्रायुङ्क्त ‘प्रेम्णा शरीराऽर्द्धहरां हरस्य’ इति । Prakriyasarvasvam ----------------- समभागवाच्यर्धशब्दः क्लीबं, स एकदेशिनैकद्रव्येण समस्यते । देहस्यार्ध- मर्धदेहः । वेति भोजः । षष्ठीसमासोऽप्यत्रेष्ट इति हरश्च । तेन देहार्धमित्यपि । अंशवाचिनस्तु षष्ठीसमास एव । ग्रामार्धः । कलायामर्धचन्द्रस्तु अर्धश्चासौ चन्द्रश्चेति नेयः ॥