21046: तत्र¶
Padacheda: तत्र | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word तत्र ‘there’ which is a word ending with Locative -7th-case-affix सप्तम्यास्त्रल् (5.3.10), is compounded with a word ending in क्त and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
The word तत्र ‘there’ which is a word ending with Locative -7th-case-affix सप्तम्यास्त्रल् (5.3.10), is compounded with a word ending in क्त and the resulting compound is तत्-पुरुष । Thus तत्रभुक्तम् ‘eaten there.’ तत्रकृतं ‘done there,’ तत्रपीतं ‘drunk there.’ By making this a compound, the same purpose is served as in sútra (2.1.25) namely, these two words form one word and get one accent.
Kashika¶
तत्रेत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥
Siddhanta Kaumudi¶
तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥
Balamanorama¶
क्षेपे - क्षेपे । ‘सप्तमी’क्तेने॑ति चानुवर्तते । तदाह — सप्तम्यन्तमित्यादि । अवतप्तेनकुलस्थितं त एतदिति ।स्थित॑मिति भावे क्तः । नकुलेन स्थितम् ।कर्तृकरणे कृता बहुल॑मिति समासः ।कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति परिभाषयानकुलस्थित॑शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृतेतत्पुरुषे कृती॑त्यलुक् । हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित॑मित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया ।
Tattvabodhini¶
क्षेपे - अवतप्ते इति । नकुलेन स्थितं नकुलस्थितम् ।कर्तृकरणे कृते॑ति समासः । कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः ।तत्पुरुषे कृती॑ति सप्तम्या अलुक् । अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते ।
Padamanjari¶
तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥
Nyaas¶
तत्रेत्येतत् सप्तम्यन्तम् इति। सप्तमीसाधम्र्यात्। त्रल्प्रत्यय एवात्र सप्तमीशब्देनोक्तः। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्। यथा - गौर्वाहीक इति। सप्तमीसाधम्र्यं पुनस्त्रलोऽधिकरणार्थत्वात्। यथैव ह्रधिकरणप्रत्यायनाय सप्तमी प्रयुज्यते,तथा त्रलपि। अथ मुख्यैव सप्तमीविभक्तिः कस्मान्न विज्ञायते? तस्यास्तत्रशब्देऽसम्भवात्। असम्भवस्तु त्रलैव तदर्थस्य द्योतित्तवात्। अन्यस्त्वाह - यदा विभक्त्यादशास्त्रलादयस्तदा स्थानिवद्भावेनैवैतत् सप्तम्यन्तं भवति। आदेशपक्षसत्ु तत्र वृत्तिकृता नाश्रित इत्यसम्यगेतत्। अन्तशब्दश्चात्रावयववचनः। सप्तमीत्रल्प्रत्ययोऽन्तोऽवयवो यस्य तत्तथोक्तम्॥
Prakriyasarvasvam¶
एतत् कृतेन समस्यते । तत्रकृतम् ।