21046: तत्र =========== **Padacheda:** तत्र | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The word तत्र 'there' which is a word ending with Locative -7th-case-affix सप्तम्यास्त्रल् (5.3.10), is compounded with a word ending in क्त and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ The word तत्र 'there' which is a word ending with Locative -7th-case-affix सप्तम्यास्त्रल् (5.3.10), is compounded with a word ending in क्त and the resulting compound is तत्-पुरुष । Thus तत्रभुक्तम् 'eaten there.' तत्रकृतं 'done there,' तत्रपीतं 'drunk there.' By making this a compound, the same purpose is served as in *sútra* (2.1.25) namely, these two words form one word and get one accent. Kashika ------- तत्रेत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति॥ Siddhanta Kaumudi ----------------- तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥ Balamanorama ------------ **क्षेपे** - क्षेपे । 'सप्तमी'क्तेने॑ति चानुवर्तते । तदाह — सप्तम्यन्तमित्यादि । अवतप्तेनकुलस्थितं त एतदिति ।स्थित॑मिति भावे क्तः । नकुलेन स्थितम् ।कर्तृकरणे कृता बहुल॑मिति समासः ।कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति परिभाषयानकुलस्थित॑शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृतेतत्पुरुषे कृती॑त्यलुक् । हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित॑मित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया । Tattvabodhini ------------- **क्षेपे** - अवतप्ते इति । नकुलेन स्थितं नकुलस्थितम् ।कर्तृकरणे कृते॑ति समासः । कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः ।तत्पुरुषे कृती॑ति सप्तम्या अलुक् । अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते । Padamanjari ----------- तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥ Nyaas ----- `तत्रेत्येतत् सप्तम्यन्तम्` इति। सप्तमीसाधम्र्यात्। त्रल्प्रत्यय एवात्र सप्तमीशब्देनोक्तः। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्। यथा - गौर्वाहीक इति। सप्तमीसाधम्र्यं पुनस्त्रलोऽधिकरणार्थत्वात्। यथैव ह्रधिकरणप्रत्यायनाय सप्तमी प्रयुज्यते,तथा त्रलपि। अथ मुख्यैव सप्तमीविभक्तिः कस्मान्न विज्ञायते? तस्यास्तत्रशब्देऽसम्भवात्। असम्भवस्तु त्रलैव तदर्थस्य द्योतित्तवात्। अन्यस्त्वाह - यदा विभक्त्यादशास्त्रलादयस्तदा स्थानिवद्भावेनैवैतत् सप्तम्यन्तं भवति। आदेशपक्षसत्ु तत्र वृत्तिकृता नाश्रित इत्यसम्यगेतत्। अन्तशब्दश्चात्रावयववचनः। सप्तमीत्रल्प्रत्ययोऽन्तोऽवयवो यस्य तत्तथोक्तम्॥ Prakriyasarvasvam ----------------- एतत् कृतेन समस्यते । तत्रकृतम् ।