21047: क्षेपे

Padacheda: क्षेपे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word ending in Locative -7th-case-affix is compounded with a word ending with the affix क्त when ‘censure’ is implied and the resulting compound is तत्-पुरुष ।

Vasu English Translation

The word ending in Locative -7th-case-affix is compounded with a word ending with the affix क्त when ‘censure’ is implied and the resulting compound is तत्-पुरुष । As, अवतप्तेन कुलस्थितं त एतत् ‘they are as if an ichneumon standing on hot ground (metaphorically said of the inconstancy of man) चापलम्।।

So also उदके विशीर्णम् ‘dried in water,’ (figuratively used for any thing unheard of or impossible.)

So also प्रवाहे मुत्रितम् (lit.) ‘making water in a stream,’ (fig.) ‘doing a useless action.’ भस्मनि हुतम् ‘offered oblation in ashes,’ (fig.) ‘a fruitless action.’

The 7th case-affix is not elided in the case of this sútra also. See sútra (6.3.14)

Bhashya

क्षेपे (395) (251 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ, 30) (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम्? ॥ (समाधानभाष्यम्) अवतप्तेनकुलस्थितं त एतत् ॥ (आक्षेपभाष्यम्) क्षेप इत्युच्यते क इह क्षेपो नाम? ॥ (समाधानभाष्यम्) यथा अवतप्ते नकुलाः न चिरं स्थातारो भवन्ति, एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते अवतप्तेनकुलस्थितं त एतद् इति ॥ (आक्षेपभाष्यम्) क्षेपे सप्तम्यन्तं क्तान्तेन सह समस्यत इत्युच्यते तत्र ते सगतिकेन सनकुलेन च समासो न प्राप्नोति ॥ (समाधानभाष्यम्) ॥ क्षेपे सगतिकसकारकसमासे उक्तम् ॥ किमुक्तम्?। कृद्ग्रहणे गतिकारकपूर्वस्यापि - इति ॥ क्षेपे ॥ 46 ॥

Kashika

क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्तेनकुलस्थितं तवैतत्। चापलमेतत् तव, अनवस्थितत्वं तवैतदित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवमुच्यते। तत्पुरुषे कृति बहुलम् (६.३.१४) इत्यलुक्॥

Siddhanta Kaumudi

सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥

Tattvabodhini

अवतप्ते इति। नकुलेन स्थितं नकुलस्थितम्। `कर्तृकरणे कृते`ति समासः। कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः। `तत्पुरुषे कृती`ति सप्तम्या अलुक्। अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते।

Padamanjari

अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेततवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः।’कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्॥

Nyaas

अवतप्तेनकुलस्थितम् इति। तत्पुरुषे कृति बहुलम् (6.3.14) इति सप्तम्या अलुक्। कः पुनरत्र क्षेपः? कार्येष्वनवस्थितता। यदाह - एतच्चापलम् इत्यादि। यथा अवतप्ते देशे नकुला न चिरं स्थातारो भवन्ति, तद्वदन्योऽपि योऽर्थानारभ्य न चिरं तेष्ववतिष्ठते तं प्रतीदमुच्यते - अवतप्तेनकुलस्थितमिति। उदकं विशीर्णम् इत्यादावप्यारम्भस्य निष्फलता क्षेपः। अत एवाह - निष्फलं यत्क्रियते तदेवमुच्यते इति। प्रवाहे मूत्रितम् इति। मूत्र प्ररुआवणे (धातुपाठः-1909) चुरादिः॥

Prakriyasarvasvam

क्षेपेऽर्थे सप्तमी क्तेन समस्यते । भस्मनिहुतम् । उदकेविशीर्णम् । निष्फल- मित्यर्थः । अवतप्तेनकुलस्थितम् । तप्तस्थले नकुलस्य चिरानवस्थानात् तद्वच्चाफलं तत् । ‘तत्पुरुषे कृति—’ (६–३–१४) इत्यलुक् ।