21045: क्तेनाहोरात्रावयवाः¶
Padacheda: क्तेन | S | 3 | 1 |
अहोरात्र-अवयवाः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The names of divisions of day or night ending with Locative -7th-case-affix are compounded with words ending with affix क्त and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
The names of divisions of day or night ending with Locative -7th-case-affix are compounded with words ending with affix क्त and the resulting compound is तत्-पुरुष । As, पूर्वाह्णकृतम् ‘done in the morning.’ अपराह्णकृतम् ‘done in the afternoon.’ पूर्वरात्रकृतम् ‘done in the first part of the night.’ अपररात्रकृतम् ‘done in the last part of the night.’
Why do we say ‘members or divisions of day and night?’ Observe अहनि भुक्तम् ‘eaten in the day’ रात्रौ वृत्तम् ‘occurring in the night.’
This being a continuation of sútra (2.1.32), we have diversely रात्रिवृत्तम् and सन्ध्यागर्जितं.
Kashika¶
अहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहणं किम्? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि। अहनि भुक्तम्, रात्रौ वृत्तम्। बहुलग्रहणाद् रात्रिवृत्तम्, संध्यागर्जितमित्यादयः॥
Siddhanta Kaumudi¶
अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥
Padamanjari¶
दिवा वृतमिति। ऐकपद्यमैकस्वर्यं च न भवति। ननु च दिवाशब्दोऽधिकरमशक्तिप्रधानः तत्रभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमैवास्माद्भवति, अतः सप्तम्यभावादेवात्राप्रसङ्गः। नैषोऽस्ति नियमः - अधिकरणक्तिप्रधान इति; दिवामन्या रात्रिरित्यपि दर्शनात्। कथं रात्रिवृतमनुयोक्तुमुद्यतऽ इति?’कर्तृकरणे कृता बहुलम्’ इति मन्यते। एवं चान्यजन्मकृतमित्याद्यपि भवति॥
Nyaas¶
एतत्तु ते दिवावृत्तं रात्रौ वृत्तञ्च द्रक्ष्यसि इत्यादि। नात्राहरवयवाः रात्र्यवयवाश्च सन्ति, किं तर्हि? कृत्स्नमेवाहः, कृत्स्ना च रात्रिरिति, तेनेह समासो न भवति॥
Prakriyasarvasvam¶
अहरंशाः रात्र्यंशाश्च क्तेन समस्यन्ते । पूर्वाह्णकृतम् । अर्धरात्रकृतम् ॥