21012: अपपरिबहिरञ्चवः पञ्चम्या ============================== **Padacheda:** अप-परि-बहिः-अञ्चवः | S | 1 | 3 | पञ्चम्या | S | 3 | 1 | Sutrartha --------- **'अप', 'परि', 'बहि', एते शब्दाः, तथा च 'अञ्च्' धातुनिर्मिता' शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य 'अव्ययीभावः' इति संज्ञा भवति ।** Sutrartha (English) ------------------- The words 'अप', 'परि', 'बहि' and the words generated from the verb 'अञ्च्' (E.g. प्राच्, प्रत्यच्, उदच् etc) optionally undergo a समास with related पञ्चम्यन्त word; and the समास is called अव्ययीभावसमास. Vasu English Summary -------------------- The words अप , परि , बहिल् and indeclinables ending in अञ्चु may optionally be compounded with a word ending in the 5th case affix and the compound so formed will be अव्ययीभाव । Vasu English Translation ------------------------ The words अप , परि , बहिल् and indeclinables ending in अञ्चु may optionally be compounded with a word ending in the 5th case affix and the compound so formed will be अव्ययीभाव । As अपत्रिगर्तम् दृष्टो देवः or अपत्रिगर्तेभ्यो दृष्टो देवः 'it rained away from *Trigarta*'. So also, परित्रिगर्तम् or परित्रिगर्तेभ्यः 'round about *Trigarta*,'बहिर्ग्रामम् or बहिर्ग्रामात् 'outside the village' प्राग् ग्रामम् or प्राग् ग्रामात् 'east of the village.' Words formed from the verb अञ्चु 'to go,' are उदञ्च 'north' प्राञ्च east, &c. From this *sútra* we learn by inference (*jñàpak*) that the word बहिः also governs the ablative case (see II.3.29). Bhashya ------- अपपरिबहिरञ्चवः पञ्चम्या (360) (230 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.9 सू.) (योगविभागाधिकरणम्) (1239 वार्तिकम् ॥ 1 ॥) ( ॥ विभाषेति योगविभागः ॥ ) (भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः - अपपरिपबहिरञ्चवः पञ्चम्या इति ॥ (पञ्चमीग्रहणप्रयोजनाधिकरणम्) (प्रत्याख्यानभाष्यम्) अपपरिबहिरञ्चवः पञ्चम्या ॥ पञ्चमीग्रहणं शक्यमकर्तुम् ॥ कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति ॥ (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात् - बहिर्ग्रामं बहिर्ग्रामात् ॥ (आक्षेपभाष्यम्) अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति ॥ (समाधानभाष्यम्) पञ्चमीग्रहमसार्मथ्यात् ॥ विभाषापपरि ॥ 12 ॥ (231 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.10 सू) Kashika ------- अप परि बहिस् अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परित्रिगर्तेभ्यः। बहिर्ग्रामम्, बहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्॥ Siddhanta Kaumudi ----------------- अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥ Tattvabodhini ------------- अपपरिबहिः। अपपरियोगे `पञ्चम्यपाङ्परिभि`रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा` दित्यादिना विहितैव। तेनाऽत्र `पञ्चम्या`इति ग्रहणं `बहिर्योगे पञ्चमी भवति` इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे`ति `करस्य करभो बहि`रित्यपि सिद्धम्। Praudhamanorama --------------- अत एव ज्ञापकाद्बहिर्योगे पञ्चमी। ज्ञापकसिद्धं न सर्वत्र। तेन 'करस्य करभो बहिः' इति सिद्धम्। Prakriyasarvasvam ----------------- अपादयः पञ्चम्यन्तेन वा समस्यन्ते । अपादियोगे पञ्चमी वक्ष्यते । अप सु ग्राम ङसि, 'सुपो धातु—' (२-४-७१) इति सुपो लुकि पुनरुत्पन्नस्य सोरम्भावः । अपग्रामं सेना याति । परिग्रामम् । वर्जयित्वेत्यर्थः । एवं बहिर्वनम् । प्राक्पुरम् । असमासे ग्रामादप ग्रामात् परीत्यादि ॥ Sutra Prayogas -------------- * **बहिर्विकरं** (शिशुपालवधम्): `अपपरिबहिरञ्चवः पञ्चम्या` इत्यव्ययीभावः । * **तोरणाद्बहिः** (शिशुपालवधम्): `अपपरिबहिरञ्चवः पञ्चम्या` इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी ।