14043: दिवः कर्म च¶
Padacheda: दिवः | S | 6 | 1 |
कर्म | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
दिव्-धातोः प्रयोगे यत् साधकतम्, तत् कारकं कर्मसंज्ञकं करणसंज्ञकं च भवति । यथा - अक्षान् दीव्यति, अक्षैः दीव्यति ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं द्वितीयं सूत्रम् । अनेन सूत्रेण **दिव् (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु) (4.1), अस्य धातोः साधकतमस्य (प्रकृष्टोपकारकस्य)** कर्मसंज्ञा** विधीयते** । यद्यपि धातुपाठे दिव्-धातोः बहवः अर्थाः उक्ताः सन्ति, तथापि प्रकृतसूत्रस्य सन्दर्भेण क्रीडा (द्यूतक्रीडा) इत्येव अर्थः अत्र स्वीक्रियते । सामान्यरूपेण अस्यां द्यूतक्रीडायां प्रकर्षेण उपयोगिनः सन्ति “अक्षाः” (dice) । अतः द्यूतक्रिडायां अक्षाः एव साधकतमत्वेन परिगण्यन्ते, अतश्च “अक्ष”पदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति । यथा, <ex>अक्षान् दीव्यति</ex>, । किञ्च, सूत्रे चकारग्रहणसामर्थ्यात् साधकतमं करणम् (1.4.42) इत्यनेन <hlb>अक्षपदार्थस्य करणसंज्ञा अपि भवति</hlb>, येन <ex>अक्षैः दीव्यति</ex> इत्यपि प्रयोगः सिद्ध्यति । एवमेव, “मनस्”-पदार्थम् साधकतमं मत्वा, तस्य कर्मसंज्ञां करणसंज्ञां च कृत्वा <ex>मनसा दीव्यति</ex> तथा च <ex>मनः दीव्यति</ex> इति प्रयोगौ अपि सङ्गच्छेते ।
संज्ञाद्वयस्य युगपत्-विधानम्
अत्र इदम् अवधेयम्, यत् प्रकृतसूत्रेण दिव्-धातोः प्रयोगे <hlb>साधकतमस्य कर्मसंज्ञा तथा च करणसंज्ञा युगपत् विधीयते</hlb> । इत्युक्ते, एकस्मिन् एव समये अक्षपदार्थः कर्मसंज्ञकः अपि अस्ति, करणसंज्ञकः अपि अस्ति । एतादृशं संज्ञाद्वयस्य युगपत् विधानम् <ex>मनसादेवः</ex> तथा च <ex>देवदत्तः यज्ञदत्तेन अक्षैः देवयते </ex> इत्येतयोः द्वयोः प्रयोगयोः साधुत्वज्ञापनार्थम् आवश्यकम् अस्ति । क्रमेण विवरणम् एतादृशम् - <listsp> <li><hlb>1. मनसादेवः</hlb> - <ex>मनसा दीव्यति</ex> इति वृत्तिवाक्ये, “मनस्”-शब्दस्य कर्मसंज्ञां स्वीकृत्य कर्मण्यण् (3.2.1) इत्यनेन अण्-प्रत्यये कृते, तथा च तस्मिन्नेव समये “मनस्”-शब्दस्य करणसंज्ञां स्वीकृत्य, तस्याः निर्देशार्थम् विग्रहवाक्ये “मनसा” इति तृतीयान्तं रूपं प्रयुज्य, अग्रे उपपदसमासे “मनस् + टा + दिव् + अण्” इति स्थिते, सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन तृतीयैकवचनस्य टा-प्रत्ययस्य लुकि प्राप्ते, मनसः संज्ञायाम् (6.3.4) इत्यनेन प्रत्ययस्य अलुक् भवति । अग्रे दिव्-धातोः उपधागुणं कृत्वा <ex>मनसादेवः</ex> इति शब्दः सिद्ध्यति । अनेन प्रकारेण अस्य शब्दस्य सिद्धौ <hlb>कर्मसंज्ञासामर्थ्यात् अण्-प्रत्ययः,</hlb> तथा च <hlb>करणसंज्ञासामर्थ्यात् तृतीया, तस्याः च अलुक्</hlb> - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते । <li><hlb>2. देवदत्तः यज्ञदत्तेन अक्षैः देवयते </hlb> - इदं णिजन्तवाक्यम् अस्ति, यस्य आशयः “यज्ञदत्तः अक्षैः दीव्यति, देवदत्तः तं तथा कर्तुं प्रेरयति” इति वर्तते । अत्र णिजन्तवाक्ये “अक्ष”पदार्थस्य युगपत् कर्मसंज्ञा तथा च करणसंज्ञा आवश्यकी वर्तते । तदित्थम् - “अक्ष”-पदार्थस्य करणसंज्ञाम् स्वीकृत्य तस्याः निर्देशार्थम् तृतीयायाः प्रयोगः साधुत्वं प्राप्नोति , येन “अक्षैः” इति शब्दः सिद्ध्यति । किञ्च, तस्मिन्नेव समये, “अक्ष”-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते, येन दिव्-धातुः सकर्मकः भवति, तथा च शुद्धकर्तुः (यज्ञदत्त**पदार्थस्य) णिजन्तप्रयोगे कर्तृसंज्ञा न बाधते । यदि **दिव्-धातुः अकर्मकरूपेण परिगण्येत, तर्हि गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1.4.52) इत्यनेन सूत्रेण दिव्-धातोः शुद्धकर्ता (यज्ञदत्तः) णिजन्तप्रयोगे कर्मसंज्ञकः अभविष्यत्, येन “यज्ञदत्तेन” इति प्रयोगः असाधुत्वं प्राप्नुयात् । एतदेव न, अपितु, दिव्-धातोः अकर्मकत्वे सति अणावकर्मकाच्चित्तवत्कर्तृकात् ** (1.3.88) इत्यनेन सूत्रेण **णिच्-प्रत्ययान्त-दिव्-धातोः केवलम् परस्मैपदस्यैव प्रत्ययाः समभविष्यन्, येन “देवयते” इति प्रयोगः अपि असाधुत्वं प्राप्नुयात् । एतौ दोषौ दूरीकर्तुम् अत्र “अक्ष”-पदार्थस्य कर्मसंज्ञा अपि स्वीक्रियते । एतादृश्यां कर्मसंज्ञायां सत्यां दिव्-धातुः सकर्मकः भवति, येन शुद्ध-कर्तुः (“यज्ञदत्त”पदार्थस्य) णिजन्तप्रयोगे अपि कर्तृसंज्ञा एव तिष्ठति, तथा च एतादृशस्य अनभिहित-शुद्ध-कर्तुः निर्देशार्थम् कर्तृकरणयोस्तृतीया (2.3.18) इत्यनेन तृतीया एव विधीयते, येन “यज्ञदत्तेन” इति प्रयोगः साधुत्वं प्राप्नोति । एवमेव, दिव्-धातोः सकर्मकत्वात् अणावकर्मकाच्चित्तवत्कर्तृकात् ** (1.3.88) इति अकर्मक-धातु-विशिष्टं सूत्रम् अपि न प्राप्नोति, येन “देवयते” इति णिजन्तधातोः आत्मनेपदे कृतः प्रयोगः अपि **णिचश्च (1.3.74) इत्यनेन अवश्यमेव साधुत्वं प्राप्नोति । एतादृशम्, <ex>देवदत्तः यज्ञदत्तेन अक्षैः देवयते</ex> इत्यत्र, <hlb>”यज्ञदत्तेन” तथा च “देवयते” इति प्रयोगार्थं कर्मसंज्ञा</hlb>, अपि च <hlb>”अक्षैः” इति प्रयोगार्थम् करणसंज्ञा</hlb> - इति द्वयोः अपि संज्ञयोः युगपत्प्रयोगः आवश्यकः वर्तते </hlb>। </listsp>
Vasu English Summary¶
That which is especially auxiliary in the accomplishment of the action, of the verb दिव् ‘to play’ is called कर्म - object, as well as करण।
Vasu English Translation¶
That which is especially auxiliary in the accomplishment of the action, of the verb दिव् ‘to play’ is called कर्म - object, as well as करण। The present sutra ordains accusative case, where by the operation of the last aphorism there ought to have been Instrumental case. The force of च in the sutra is to indicate that karana is also to be read into this. As अक्षात् दीव्यति or अक्षै र्दीव्यति he plays the dice or with the dice.
Kashika¶
पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम्, तत् कर्मसंज्ञं भवति चकारात् करणसंज्ञं च। अक्षान् दीव्यति। अक्षैर्दीव्यति॥
Siddhanta Kaumudi¶
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
Balamanorama¶
दिवः कर्म च - दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह — दिवः साधकतममिति । दिवुधात्वर्थं प्रति साधकतममित्यर्थः । चादिति । चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः ।
Tattvabodhini¶
दिवः कर्म च - द्विद्रोणेनेति । द्वयोद्र्रोणयोः समाहारो द्विद्रेणम् । पात्रादित्वात्स्त्रित्वाऽभावः । द्रोणद्वयसम्बन्धि धान्यमित्यर्थः । इह षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक् । चादिति । करणशब्दानुवृत्त्या,परिक्रयणे संप्रदानमन्यतरस्या॑मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम् । तेनमनसा दीव्यती॑तिमनसदिव॑इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति ।मनसः संज्ञायाम्इत्यलुक् । किञ्चअक्षैर्देवयते देवदत्तो यज्ञदत्तेने॑त्यत्र सकर्मकत्वादणि कर्तुर्णौगतिबुद्धी॑त्यनेन कर्मत्वं न,अणावकर्मका॑दिति परस्मैपदमपि न भवति । ननु कर्मकरणसंज्ञासमावेशस्यमानसादेव॑इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्, अत्राहुः — कार्यकालपक्षेकर्मणि द्वितीये॑त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति । स्यादेतत् — ॒दीव्यन्तेऽक्षा॑इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात् । तथादेवना अक्षा॑इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात् । मैवम् । एकाव ह्यत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम् ।
Padamanjari¶
ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रीडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह - पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् । नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह - चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात् - यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारात्तु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीया - “मनसः संज्ञायाम्” इत्यलुक् - मनसा देवः। इह चाक्षैर्देवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् ‘गतिबुद्धि’ इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, “अणावकर्मकात्” इति परस्मैपदं च। यदि तर्हि समावेशः - अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः - विदेवना अक्षाः, ‘करणाधिकरणयोश्च’ इति ल्युट्; कर्मसंज्ञाया अवकाशः - दीव्यन्ते भवताक्षाः, ‘भावकर्मणोः’ इति यगात्मनेपदे, अक्षानित्यत्रोभयसंज्ञाकार्यप्रसङ्गे परत्वात्तृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च ‘कर्मणि द्वितीया’ इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः - दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्चैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात् ।
Nyaas¶
दीव्यति इति। हलि च (8.2.77) इति दीर्घः॥
Prakriyasarvasvam¶
दीव्यतेः साधकतमं कर्माख्यं करणाख्यं च स्यात् । गोपी दीव्यति । गोप्या दीव्यति । तया क्रीडतीत्यर्थः ॥
Sutra Prayogas¶
दुरक्षान् (किरातार्जुनीयम्): दिवः कर्म च इति करणे कर्मसंज्ञा।
प्राणैर्दिदेविषन् (भट्टिकाव्यम्): दिवः कर्म च इति चकारात् करणसंज्ञा ।
विषयान् (भट्टिकाव्यम्): दिवः कर्म च इति करणसंज्ञापवादात् कर्मसंज्ञा।
परिघं (भट्टिकाव्यम्): दिवः कर्म च इति परिघस्य कर्मसंज्ञा।