14044: परिक्रयणे सम्प्रदानमन्यतरस्याम्¶
Padacheda: परिक्रयणे | S | 7 | 1 |
सम्प्रदानम् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
“परि + क्री” इति धातोः यत् साधकतमं, तत् कारकं विकल्पेन सम्प्रदानसंज्ञं भवति ।यथा - शताय परिक्रीतः । पक्षे करणसंज्ञम् अपि भवति । यथा - शतेन परिक्रीतः ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः सम्प्रदानसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् । परि -उपसर्गपूर्वकस्य क्री-धातोः विषये प्रकृतसूत्रेण सम्प्रदानसंज्ञा विधीयते । यद्यपि क्री (द्रव्यविनिमये) (9.1) इति धातोः अर्थः धनं दत्त्वा वस्तुनः क्रयणम् इति अस्ति, तथापि परि-उपसर्गस्य उपस्थितौ अस्य अर्थः वेतनादिकं दत्त्वा विशिष्टं कालं यावत् स्वस्य स्वामित्वविधानम् (To employ someone for a fixed time by giving salary etc) इति भवति । एतादृशे कार्ये यत् **साधकतमम् (इत्युक्ते वेतनम्) तस्य साधकतमं करणम् (1.4.42) इत्यनेन करणसंज्ञायां प्राप्तायाम्, तां विकल्पेन बाधित्वा प्रकृतसूत्रेण तस्य सम्प्रदानसंज्ञा अपि भवति । पक्षे **साधकतमं करणम् (1.4.42) इत्यनेन करणसंज्ञा अपि भवितुम् अर्हति । अतः <ex>धनिकः देवदत्तं शतेन परिक्रीणाति</ex>, <ex>धनिकः देवदत्तं शताय परिक्रीणाति</ex> इति उभयथा प्रयोगः सिद्ध्यति ।
<hlb>परिक्रयणम्</hlb> इति शब्दस्य अर्थः
काशिकायां परिक्रयण-शब्दस्य अर्थः दीयते - <inline>परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, न आत्यन्तिकः क्रय एव </inline> । आत्यन्तिकः क्रयः इत्युक्ते नियतस्वरूपेण स्वस्वामित्वनिर्धारणम् (permanent ownership). अयम् अर्थः क्री-धातोः विषये स्वीक्रियते, न हि परि + क्री-धातोः विषये । परि + क्री इति धातोः अर्थः तु वेतनादिना नियतकालं स्वीकरणम् (accepting for a fixed period of time by giving salary etc) इति अस्ति - इति अत्र काशिकाकारस्य वाक्यस्य आशयः वर्तते । एतादृशे परिक्रयणे कृते, तस्मिन् काले स भृत्यः स्वस्वामिनः एव कार्यं कुर्यात् - इति अत्र अपेक्षा विद्यते । भृत्यः तथा न करोति चेत् स्वामी तं तर्जयमानः वक्तुम् अर्हति - <ex>शतेन त्वं परिक्रीतः, किमर्थं कार्यं न करोषि इति अनुब्रूहि</ex>, उत <ex>शताय त्वं परिक्रीतः, किमर्थं कार्यं न करोषि इति अनुब्रूहि</ex> - इति । एते एव द्वे उदाहरणे काशिकाकारेण दत्ते स्तः ।
सिद्धान्तकौमुदीस्थानि वार्त्तिकानि
प्रकृतसूत्रे सिद्धान्तकौमुद्यां चत्वारि वार्त्तिकानि पाठितानि सन्ति । वस्तुतः तु एतानि वार्त्तिकानि सम्प्रदानकारकस्य सन्दर्भेण न सन्ति, अपितु चतुर्थीविभक्तिविशिष्टानि सन्ति । काशिकायां, तथा च भाष्ये अपि एतानि सर्वाणि चतुर्थी सम्प्रदाने (2.3.13) इत्यत्रैव पाठितानि सन्ति । परन्तु प्रकरणवशात् कौमुदीकारः एतानि वार्तिकानि अत्रैव पाठयति । तेषां अर्थाः अधः विव्रीयन्ते । <listsp> <li><hlb>1. <!तादर्थ्ये चतुर्थी वाच्या !></hlb> - यत्र उपकार्य-उपकारकभावसम्बन्धः (इत्युुक्ते, “प्रथमस्य कृते द्वितीयम्” - इति) विद्यते, तत्र उपकार्यस्य (= प्रथमस्य) निर्देशार्थम् चतुर्थी विभक्तिः भवति । यथा - <ex>मुक्तये हरिं भजति</ex> । अत्र “हरिः” इति उपकारकः, “मुक्तिः” इति उपकार्या । मुक्तेः कृते (मुक्तिं प्राप्तुम्) हरिं भजति - इति आशयः । अत्र मुक्तेः निर्देशार्थम् चतुर्थी विभक्तिः भवति । एवमेव <ex>रन्धनाय स्थाली</ex>, <ex>अवहननाय उलूखलम्</ex>, <ex>ब्राह्मणाय दधि</ex> इत्यादयः प्रयोगाः अपि सङ्गच्छन्ते । सामान्यरूपेण “अस्य कृते” इति अर्थः यत्र इष्यते, तत्र तत्र सर्वत्र अनेन वार्त्तिकेन चतुर्थीविभक्तिः भवति । इत्येव न, अपितु काशिकाकारेण चतुर्थी सम्प्रदाने (2.3.13) इत्यत्र अस्य वार्त्तिकस्य उदाहरणरूपेण प्रकृति-विकृतिभावस्य उदाहरणानि अपि दत्तानि सन्ति, यथा <ex>यूपाय दारु</ex>, <ex>कुण्डलाय हिरण्यम्</ex> इति । <li><hlb>2. <!कॢपि सम्पद्यमाने च!></hlb> - कॢप्यर्थक-धातूनां प्रयोगे सम्पद्यमानस्य चतुर्थी विभक्तिः भवति ** । **कृपँ (कॢप्)-धातोः अर्थौ सम्पन्नं भवति तथा जायते इति उभयथा वर्तेते । एतयोः अर्थयोः यदा कृपँ (कॢप्) कॢप्-धातुः अन्यः वा कश्चन धातुः प्रयुज्यते, तदा यत् सम्पन्नं भवति / यत् जायते तस्य चतुर्थी विभक्तिः भवति इति अत्र आशय; अस्ति । यथा, “भक्तिः ज्ञानाय कल्पते”, “भक्तिः ज्ञानाय सम्पद्यते” , “भक्तिः ज्ञानाय जायते” । मनुष्यः भक्त्याः आधारेण ज्ञानं प्राप्नोति इति अत्र आशयः अस्ति । अत्र “जायमानः / सम्पद्यमानः” पदार्थः “ज्ञानम्” इति, अतः प्रकृतवार्त्तिकेन अस्य पदार्थस्य चतुर्थी विभक्त्या निर्देशः भवति । एवमेव, <ex>यवागूः मूत्राय कल्पते</ex>, <ex>यवागूः मूत्राय सम्पद्यते</ex>, <ex>यवागूः मूत्राय जायते</ex> इति अपरम् उदाहरणम् । “यवागूसेवनेन मूत्रनिर्माणं भवति” इति अस्य आशयः । <note><!कॢपि सम्पद्यमाने च!> तथा च <!तादर्थ्ये चतुर्थी वाच्या !> - एतयोः अर्थयोः मध्ये भेदः अस्ति । सम्पद्यमानम् इत्युक्ते “नूतनरूपेण निर्मितम्” । प्रकृतिविकृतिभावस्य उदाहरणेषु एतादृशम् सम्पद्यमानत्वं नास्ति, यतोऽहि तत्र केवलं एकस्मिन् पदार्थे परिवर्तनं कृत्वा अपरः पदार्थः सिद्ध्यति, यथा मृदि परिवर्तनं कृत्वा घटस्य सिद्धिः - इत्यादिकम् । <!कॢपि सम्पद्यमाने च!> इत्यस्य उदाहरणेषु तु पदार्थस्य नूतनरूपेण निर्माणं कृतं दृश्यते; यथा - यवागोः सामर्थ्येन मूत्रस्य निर्माणम् - इति ।</note> <li><hlb>3. <!उत्पातेन ज्ञापिते च!></hlb> - उत्पातेन ज्ञापितस्य पदार्थस्य निर्देशार्थम् चतुर्थी विभक्तिः भवति ** । **उत्पात्तः इत्युक्ते अशुभसङ्केतवाचकपदार्थः । यथा, कपिल-वर्णस्य विद्युत् वातं (storm) सूचयति । अत्र “वातः” इति अशुभम् ज्ञापितम् अस्ति, तस्य सङ्केतकः (ज्ञापकः) तु “कपिल-वर्णस्य विद्युत्” इति । अस्यां स्थितौ अशुभस्य निर्देशार्थम् चतुर्थी विभक्तिः भवति । यथा, <ex>वाताय कपिला विद्युत् </ex> । “कपिला-विद्युत् वातं सूचयति” इत्याशयः । वस्तुतः इदं वाक्यम् एकस्य श्लोकस्य प्रथमा पङ्क्तिः अस्ति । तत्र सम्पूर्णः श्लोकः अयम् - <karika> वाताय कपिला विद्युत्, आतपाय-अतिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥ </karika> कपिला (reddish brown) विद्युत् वातं सूचयति; अतिलोहिनी (dark red) विद्युत् आतपम् सूचयति; पीता (yellow) विद्युत् वर्षां सूचयति, तथा च सिता (white) विद्युत् दुर्भिक्ष्यं सूचयति - इति अस्याः कारिकायाः अर्थः । अत्र चतुर्षु अपि पादेषु अनेनैव सूत्रेण चतुर्थीविभक्तिः कृता वर्तते ।
<hlb>4. <!हितयोगे च !></hlb> - “हित” इति शब्दस्य योगे चतुर्थी विभक्तिः भवति । यथा, <ex>ब्राह्मणाय हितम् क्षीरम्</ex> । “ब्राह्मणस्य कृते उपकारि दुग्धम्” - इति अस्य वाक्यस्य अर्थः । एवमेव <ex>गवे हितम्</ex> इत्यपि प्रयोगः सङ्गच्छते । अत्र उपकार्य-उपकारकभावस्य आधारेण चतुर्थी न सम्भवति यतोऽहि अत्र उपकारकपदार्थस्य निर्देशः नास्ति अपितु उपकारवाचकस्य “हित”शब्दस्य एव ग्रहणं वर्तते । तथापि अत्र चतुर्थी अवश्यम् इष्यते, तदर्थं च प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । <note>तद्धितप्रकरणे तस्मै हितम् (5.1.5) इति एकं सूत्रं विद्यते । अस्मिन् सूत्रे अपि पाणिनिना “तस्मै” इति चतुर्थी एव प्रयुक्ता दृश्यते । एवमेव **चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ** (2.1.36) इत्यत्रापि पाणिनिः चतुर्थ्यान्तस्य “हित”शब्देन सह समासं विदधाति, येन अपि “हित”शब्दस्य योगे चतुर्थी विभक्तिः इष्यते इति स्पष्टी भवति । </note> किञ्च, अस्मिन्नेव वार्त्तिके <!सुखयोगे च!> इति कश्चन अधिकः अंशः अपि वैयाकरणैः स्वीकृतः अस्ति । “सुख” इति शब्दस्य योगे चतुर्थी विभक्तिः भवति</hl> - इति अस्य आशयः । यथा, <ex>ब्राह्मणाय सुखम्</ex> । “ब्राह्मणस्य कृते सुखकारकम्” - इति अस्य वाक्यस्य अर्थः । </listsp>
Vasu English Summary¶
In the case of hiring on wages, that which is especially auxiliary in the accomplishment of the action of the verb परिक्री ‘employing on stipulated wages’, is optionally called सम्प्रदान or recipient.
Vasu English Translation¶
In the case of hiring on wages, that which is especially auxiliary in the accomplishment of the action of the verb परिक्री ‘employing on stipulated wages’, is optionally called सम्प्रदान or recipient. This ordains dative case, where there would otherwise have been Instrumental case. The word परिक्रयणे means to engage for a limited period on payment of wages, and not absolute purchase for all time. As शताय परिक्रीतो ऽनुब्रूहि शतेन परिक्रीतो ऽनुब्रूहि.
Kashika¶
साधकतममिति वर्तते। पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा पक्षे विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति। परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नात्यन्तिकः क्रय एव। शतेन परिक्रीतोऽनुब्रूहि। शताय परिक्रीतोऽनुब्रूहि। सहस्रेण परिक्रीतोऽनुब्रूहि। सहस्राय परिक्रीतोऽनुब्रूहि॥
Siddhanta Kaumudi¶
नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥<!तादर्थ्ये चतुर्थी वाच्या !> (वार्तिकम्) ॥ मुक्तये हरिं भजति ॥<!कॢपि सम्पद्यमाने च !> (वार्तिकम्) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥<!उत्पातेन ज्ञापिते च !> (वार्तिकम्) ॥ वाताय कपिला विद्युत् ।<!हितयोगे च !> (वार्तिकम्) ॥ ब्राह्मणाय हितम् ॥
Balamanorama¶
परिक्रयणे सम्प्रदानमन्यतरस्याम् - परिक्रयणे । नियतकालमिति ।तुभ्यमेतावद्वेतनं दीयते, तद्गृह्णन्नेतावन्तं कालं त्वं मम कर्मकरो भवे॑त्येवं परिमितकालं भृत्या स्वीकरणं परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह — तस्मिन्साधकतममिति । संप्रदानत्वाऽभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्द्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थीति । ‘चतुर्थी संप्रदाने’ इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात् ष्यञ् । तेन च उपकार्योपकारकभावसंबन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यमित्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति । मुक्त्यर्थमित्यर्थः । उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति । मुक्तिर्जन्येति गम्यते । प्राप्यत्वं वा, ब्राआहृणाय दधीति । ब्राआहृणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अनेनैव सिद्धेचतुर्थी सम्प्रदाने॑ इति सूत्रं संप्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यं, ‘हरये रोचते भक्तिः’ इत्यादौरुच्यर्थानां प्रीयमाणः॑ इत्याद्यर्थ तदावश्यकत्वादिति भाष्ये स्पष्टम् । कॢपि संपद्यमाने चेति । कॢपीति सप्तमी । सम्पत्तिः=विकारात्मना उत्पत्तिः । परिणाम इति यावत् । कॢपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः ।कॢपीत्यर्थग्रहण॑मित्यभिप्रेत्यादाहरति — संपद्यते जायते इत्यादीति । आदिना ‘परिणमते’ इत्यादिसङ्ग्रहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादथ्र्यचतुर्थ्यैव सिद्धमित्याहुः ।उत्पातेन ज्ञापिते चेति । अशुभसूचक आकस्मिको भूतविकार उत्पातः, तेन सूचितेऽर्थे विद्यमानाच्चतुर्थी वाच्येत्यर्थः । वातायेति । महाबातस्य सूचिकेत्यर्थः ।हितयोगे चेति ।चतुर्थी वाच्ये॑ति शेषः । ब्राआहृणाय हितमिति । ब्राआहृणस्य सुखकृदित्यर्थः ।याजनादी॑ति शेषः ।
Tattvabodhini¶
परिक्रयणे सम्प्रदानमन्यतरस्याम् - तादर्थ्ये चतुर्थी वाच्या॥ तादथ्र्य इथि तस्मै कार्यायेदं तदर्थं=कारणं, तस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात्ष्यञ् ।कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन॑ इति सिद्धान्तात्ष्यञा संबन्धोऽभिधीयते । स च संबन्धोऽनेकविधो, न तु कार्यकारणभाव एव; तेनब्राआहृणाय दधी॑ त्याद्यपि सिद्धम् । ब्राआहृणस्य दध्यजन्यत्वेऽपि तत्संस्कार्यत्वात् । न चैवं दधिशब्दादपि चतुर्थी स्यादिति शङ्क्यं, संबन्धस्य द्विष्ठेत्वेऽपि षष्ठीवद्विशेषणादेव भवतीत्याकरे ऽभ्युपगमात् । एवंयूपाय दारु॑ इत्यत्र दारुशब्दादपि न भवति ।हेतौ॑ इति तृतीयापि षष्ठीविषय एव भवतीति सापीह न भवति, किंतु प्रातिपदिकार्थे प्रथमैव । न चैवद्वार्तिकस्यावश्यकत्वेचतुर्थी संप्रदाने॑ इति सूत्रे व्यर्थमिति भ्रमितव्यम्,हरये रोचते॑ इत्याद्यर्थ तस्याप्यावश्यकत्वात् ।विप्राय गा॑ मित्यत्रापि तादथ्र्य चतुर्थ्याः प्राप्तिर्नास्तीति प्रागेवोक्तत्वाच्चेति दिक् ।कॢपि संपद्यमाने च॥ कॢपीति । संपदादित्वाद्भावे क्विपि तदन्तात्सप्तमी । संपत्तिरिहाऽभूतप्रादुर्भावः, कॢप्कत्यर्थकधातुप्रयोगे यः संपद्यते तत्र चतुर्थी, विकारवाचकाच्चतुर्थीत्यर्थः । स हि संपद्यते=प्रादुर्भवति । तदुदाहरति -भक्तिज्र्ञानायेति । ज्ञानात्मना परिणमत इत्यर्थः । प्रकृतिविकृत्योर्भेदबिवक्षायां विकृतिवाचकाच्चतुर्थी । अभेदविवक्षायां तु परत्वात्प्रथमैव,भक्तिज्र्ञानं कल्पते॑ । यदा तुजनिकर्तुः -॑ इति भक्तेरपादनत्वं विवक्ष्यते, तदापि ज्ञानस्याभिहितकर्तृक्वनात्प्रथमैव,भक्तज्र्ञानं कल्पते॑ । कॢपीत्यर्थग्रहणमित्याशयेनाह -संपद्यते इत्यादि । यद्यपि तादर्थ्ये चतुर्थ्यैव भक्तिज्र्ञानायेत्यादिप्रयोगाः सिध्यन्ति, तथापि परिणमात्वप्रकारकबोधार्थमिदं वचनमित्याहुः ।उत्पातेन ज्ञापिते च । उत्पातेनेति । प्राणिनां शुभाऽशुभसूचको भूतविकार उत्पातः, तेन ज्ञापितेऽथे वर्तमानच्चतुर्थी वाच्येत्यर्थः । वातायेति । वातस्य ज्ञापिकेत्यर्थः ।हितेयोगे च । हितेति । चतुर्थीसमासविधानाज्ज्ञापकादेतल्लब्धमिति भावः । एवं सुखयोगेऽपिल चतुर्थी बोध्या । क्रियार्थोपपद । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, सा क्रियार्था क्रिया उपपदं यस्य । यद्यपि क्रियाया उपपदत्वं न संभवति, तथापीह स्ववाचकशब्दद्वारा तद्बोध्यम् । क्रियाफलकक्रियावाचकमित्यर्थः । क्रियावाचकस्यापि धातोरुपोच्चारितपदरूपोपपदत्वं यद्यपि न संभवति, सुप्तिङन्तस्यैव पदत्वात्, तथापीह क्रियावाचकप्रकृतिकमित्यर्थो विवक्षितः, तादृशमुपपदं यस्य तुमुन्नन्तस्य तस्य कर्मणि चतुर्थी भवतीति निष्कृष्टोऽर्थः ।तुमुन्ण्वुलौ क्रियायाम् -॑ इति सूत्रमहिन्मा क्रियार्थकमुपपदं क्रियावाच्येव फलतीत्याशयेनाह — ।
Padamanjari¶
परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य रषाभ्याम्ऽ इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य’कृत्यचः’ इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः॥
Nyaas¶
परिक्रीतिः = परिक्रयणम्। नियतकालम् इति। नात्यन्तिकम्। वेतनादिना इति। आदिशब्देन बन्धकादीनां ग्रहणम्। नात्यन्तिकः क्रय एव इति नियतकालत्वं स्पष्टीकरोति। परिशब्दोऽत्र प्रत्यासतिं द्योतयति। क्रयो हि नामात्यन्तिकः। वेतनादिना केवलं यत्तु नियतकालं तदात्यन्तिकस्य क्रयस्य समीपमिति परिशब्देनाख्यायते॥
Praudhamanorama¶
क्रयो— धनाद्यर्पणेनाऽऽत्यन्तिकस्वीकरणम्, तस्य समीपं परिशब्द आचष्टे। तच्च नियतकालं ततो न्यूनत्वादिति व्याचष्टे— भृत्या— वेतनादिना। तादर्थ्ये इति। तस्मै कार्यायेदं तदर्थम्— कारणम्, तस्य भावस्तादर्थ्यम्। ष्यञा उपकारकत्वरूपः सम्बन्धोऽभिधीयते, ‘कृत्तद्धितसमासेभ्यः सम्बन्धाभिमानं भावप्रत्ययेन’ इति सिद्धान्तात्। उपकारकत्वं चानेकधा। तेन ब्राह्मणाय दधीत्यादावपि भवति। भक्तिर्ज्ञानायेति। ज्ञानात्मना परिणमत इत्यर्थः। प्रकृतिविकृत्योर्भेदविवक्षायां विकृतिवाचकाच्चतुर्थी, अभेदविवक्षायां तु परत्वात्प्रथमैव, भक्तिर्ज्ञानं कल्पत इति। यदा तु ‘जनिकर्तुः’ इति भक्तेरपादानत्वं विवक्ष्यते तदा ज्ञानस्याभिहितकर्तृत्वात्प्रथमैव, भक्तेर्ज्ञानं कल्पते। ‘क्लृपी’त्यर्थग्रहणमित्याशयेनाह— उत्पातेनेति। प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः, तेन ज्ञापितेऽर्थे वर्तमानाच्तुर्थीत्यर्थः। वातायेति। वातस्य ज्ञापिकेत्यर्थः। हितेति। समासविधानाज्ज्ञापकादिति भावः। एवं सुखयोगेऽपि बोध्यम्। ‘तुमुण्वुलौ क्रियायाम्’ इति सूत्रमहिम्ना क्रियार्थकमुपपदं क्रियावाच्येव फलतीत्याशयेनाह- क्रियेति। क्रियाफलकं क्रियावाचकप्रकृतिकमित्यर्थः। ‘तुमुन्’ इति ण्वुलोऽप्युपलक्षणम्। फलेभ्यो यातीत्यस्य फलान्याहरक इत्यपि विवरणे बाधकाभावात्।
Prakriyasarvasvam¶
कालव्यवस्थया भृत्यादिस्वीकारः परिक्रयः । तत्र करणं वा सम्प्रदानारूयम् । शतेन शताय वा परिक्रीतः । ‘तादर्थ्ये चतुर्थी वाच्या’ । श्रेयसे हरिं भजति । ‘क्लृप्त्यर्थप्रयोगे विकारे चतुर्थी वाच्या’ । घटाय कल्पते मृत् । सम्पद्यते ज्ञायते वा । ‘उत्पातेन ज्ञापिते च’ । वाताय कपिला विद्युदित्यादि ।।